By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: वसन्तपञ्चमीपर्वसमीक्षा-डॉ विमलेश झा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > शास्त्रीयविषयाः > वसन्तपञ्चमीपर्वसमीक्षा-डॉ विमलेश झा
शास्त्रीयविषयाः

वसन्तपञ्चमीपर्वसमीक्षा-डॉ विमलेश झा

डॉ.अमनदीप शर्मा
Last updated: 2026/01/23 at 7:45 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

वसन्तपञ्चमीपर्वसमीक्षा

(पर्वविशेष:) डॉ विमलेश झा, डीएवी पब्लिक स्कूल बरारी,भागलपुर, बिहार

“शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात्”।।
सुविदितमेवैषा भारतीयसंस्कृतिः उत्सवप्रधाना संस्कृति: अस्ति । वर्षस्य प्रत्येकं कालः कस्यचित् अपि पर्वणः, व्रतस्य वा साक्षी भवति। एतेषु पर्वेषु वसन्तपञ्चमी नाम महत्त्वपूर्णं पर्व अस्ति, यत् न केवलं ऋतुपरिवर्तनस्य सूचकं भवति, अपि तु विद्यां, कलां, संगीतं, साहित्यं, सौन्दर्यं च एकस्मिन् सूत्रे संयोजयति। वसन्तपञ्चमीपर्व माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ आचर्यते। अयं दिवसः वसन्तऋतोः आगमनस्य सूचकः मन्यते, अत एव ‘वसन्तपञ्चमी’ इति नाम्ना प्रसिद्धः।
अत्र यदि वयं वसन्तशब्दस्य व्युत्पत्तिं पश्याम: तर्हि ‘वसन्त’ इति शब्दः ‘वस्’ धातोः निष्पन्नः, यस्य अर्थः निवासः, स्थितिः, प्रकाशः इत्यादयः। यस्मिन् काले प्रकृति:पल्लविता भूत्वा पुनः वासं निवासं वा करोति स एव काल: वसन्त इति उच्यते। अपि च यः कालः सर्वेषां प्राणिनां हृदये आनन्दं, उत्साहं, नवजीवनस्य अनुभूतिं च जनयति, सः एव वसन्तः इति कथ्यते। वसन्तर्तौ प्रकृतिः नववेषं धारयति,वृक्षाः नवपल्लवैः शोभन्ते, पुष्पाणि विकसन्ति, भ्रमराः गुञ्जन्ति, कोकिलाः मधुरं कूजन्ति। एतानि सर्वाणि दृश्याणि मानवमनसि उत्साहं, स्फूर्तिं च जनयति।
हिन्दूधर्मे पञ्चमी तिथिः विद्याया: शुभारम्भस्य च प्रतीकत्वेन स्वीक्रियते। विशेषतः वसन्तपञ्चमीतिथौ एव देवीसरस्वती आविर्भूतवती इति पौराणिकविश्वासः अस्ति। अतः अस्यां तिथौ विद्यारम्भः, लेखनारम्भः, संगीताभ्यासः, नूतनशिक्षाकार्यस्य शुभारम्भः च क्रियते। पुराणेषु वसन्तपञ्चम्याः विविधाः कथाः वर्णिताः सन्ति। ब्रह्मवैवर्तपुराणे वर्णितं यत् सृष्टेः आरम्भे सर्वं जगत् नीरसः, निःशब्दः, निःस्पन्दः च आसीत्। तदा सृष्टिकर्ता ब्रह्मा भगवतीं सरस्वतीं सृष्ट्वा तस्याः वीणानादेन जगति शब्दं, ज्ञानं, चेतनां च उत्पन्नं कारितवान् । एषा घटना माघशुक्लपञ्चम्यां अभवत्, अतः अयं दिवसःसरस्वतीपूजाया विशेषदिवस: घोषित:। देवीसरस्वती विद्याबुद्धिवाणीकलासंगीतादीनां च अधिष्ठात्री देवी अस्ति।श्वेतवर्णा, श्वेताम्बरधारिणी, वीणावादिनी, हंसवाहिनी च सा देवी ज्ञानस्य निर्मलतां, शुद्धतां च सूचयति। वसन्तपञ्चमी पर्वे सरस्वतीपूजा विशेषरूपेण आचर्यते। अस्मिन् अवसरे विद्यालयेषु, महाविद्यालयेषु, आश्रमेषु, गृहेषु च भगवत्याः सरस्वत्याः पूजा विधिपूर्वकं क्रियते। पुस्तकानि, लेखनसामग्री, वाद्ययन्त्राणि च देव्या समक्षं स्थाप्यन्ते। छात्राः, विद्वांसः, कलाकाराः च ज्ञानवृद्ध्यर्थं, बुद्धिप्रसादार्थं देव्या: आराधनां कुर्वन्ति। बालकानां विद्यारम्भसंस्कारः अपि अस्यां तिथौ क्रियते, य ‘अक्षरारम्भ’ इति कथ्यते।
वसन्तपञ्चमी पर्वणि पीतवर्णस्य विशिष्टं महत्त्वं दृश्यते। जनाः पीतानि वस्त्राणि धारयन्ति, पीतपुष्पैः देवपूजां कुर्वन्ति, पीतवर्णीयं भोजनं यथा केसरओदनं, बून्दीमोदकानि,पायसादीनि सेवन्ते। पीतवर्णः सूर्यस्य, ऊर्जा, ज्ञानस्य, समृद्धेः च प्रतीकः अस्ति। वसन्तऋतौ सरषपक्षेत्राणां पीतपुष्पैः आच्छादनं सर्वत्र दृश्यते, यस्मात् प्रकृतेः सौन्दर्यं वर्धयति। संस्कृतसाहित्ये वसन्तऋतोः अपूर्वं वर्णनं दृश्यते। कालिदासः वसन्तं ‘ऋतुराज’ इति सम्बोधयति।भगवद्गीतायां वसन्तविषये भगवान् श्रीकृष्ण: स्वयमेव अवदत्-ऋतूनां स वसन्तश्च”।
रघुवंशमहाकाव्ये, कुमारसम्भवे, मेघदूते च वसन्तवर्णनं अतीव मनोहरं महाकविकालिदासेन प्रतिपादितं वर्तते। जयदेवस्य गीतगोविन्दे वसन्तः श्रृङ्गाररसस्य प्रमुखः उद्दीपकरूपेण वर्णितः विद्यते। वसन्तपञ्चमीपर्व सामाजिकसमरसतां, सांस्कृतिकएकतां आध्यात्मिकतत्त्वानि च प्रबोधयति। अस्मिन् पर्वणि न जातिभेदः, न वर्गभेदः, न सम्प्रदायभेदः वा दृश्यते। सर्वे जनाः आनन्देन, उत्साहेन, श्रद्धया च पर्व आचरन्ति। अस्मिन् अवसरे मेलकानि, सांस्कृतिककार्यक्रमाः, कविसम्मेलनानि, संगीतसमारोहाः च आयोजिताः भवन्ति।
भारतीयकृषिसंस्कृतौ अपि वसन्तपञ्चमी पर्वण: विशेषस्थानम् अस्ति। अयं कालः रबीशस्यानाम् वृद्धिकालः अस्ति। कृषकाः नवजीवनस्य, समृद्धेः प्रतीकं वसन्तपञ्चमीं मन्यन्ते। प्रकृत्या सह मानवस्य सुसम्बन्धः अस्मिन् पर्वणि स्पष्टतया दृश्यते।
आधुनिकयुगे अपि वसन्तपञ्चमी पर्वण: प्रासङ्गिकता न न्यूना जाता। तथापि आधुनिकपरिप्रेक्ष्ये केचन: अज्ञानिन: एतस्य पर्वण: आयोजनं केवलं मनोरञ्जनाय कुर्वन्ति यत् समुचितं न विद्यते। यद्यपि अस्माकं जीवनशैली परिवर्तिता, तथापि विद्या, संस्कृति, प्रकृतिप्रेम, उत्सवभावना च अद्यापि मानवजीवनस्य आधारस्तम्भाः सन्ति। वसन्तपञ्चमी अस्मान् स्मारयति यत् ज्ञानमेव मानवस्य वास्तविकं भूषणम्। अतः वसन्तपञ्चमीपर्व न केवलं धार्मिकं पर्व अस्ति, अपि तु एतस्य सांस्कृतिकं, सामाजिकं, साहित्यिकं, प्राकृतिकं च महत्त्वम् अपि वर्तत एव । इदं पर्व मानवमनसि नवचेतनां, नवोत्साहं, नवाशां च सञ्चारयति। विद्या, कला, संस्कृति, प्रकृतिरित्येतानि सर्वाणि तत्त्वानि वसन्तपञ्चमीपर्वणि एकत्र दृश्यन्ते। अत एव वसन्तपञ्चमी भारतीयसंस्कृतेः आत्मा इव प्रतिभाति। वसन्तपञ्चमी न केवलं एकः दिवसः, अपि तु जीवनस्य उत्सवः अस्ति। सर्वै:विद्यासेवकै: इदं पर्व श्रद्धाभावेन आचरितव्यम्। उक्तं च –
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम्।वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम्‌।।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम्‌ ।
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्‌॥”
अपि च -या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता ।
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता ।
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥
अन्ते च-
वीणाधरे विपुलमंगलदानशीले,
भक्तार्त्तिनाशिनी विरञ्चि हरीशवन्द्ये।
कीर्तिप्रदेऽखिलमनोरथदे महार्हे,
विद्याप्रदायिनि सरस्वति नौमि नित्यम्।। इत्यलम्।

You Might Also Like

प्रोफेसर डॉ.सुतीन्द्रडोगरु-स्मारक-फाउडेशन-बैजनाथः द्वारा श्रद्धाञ्जलिः शब्दाञ्जलिश्च कार्यक्रमः सम्पन्नः

अखिलभारतीय- मैथिलमहासभाभवने, दरभङ्गायाः भव्यप्राङ्गणे, ऐक्येन ऐतिहासिकपण्डितसभाया आयोजनम्

संस्कृतविद्यास्थानानि- ज्यौतिषस्य त्रय: स्कन्धा:-

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article कोटलाबेहड़ क्षेत्रस्य उद्धाराय उपमण्डलाधिकारी कार्यालयः आवश्यकः-समाजसेवकः रमेशचन्द शर्मा
Next Article वस्त्रमन्त्री गिरिराजसिंहः अवदत् यत्, “गतदशके वस्त्रक्षेत्रे महती वृद्धिः अभवत्।”
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?