पोलैंडदेशेन आतंकवादं प्रति शून्य-सहिष्णुता प्रदर्शनीया, सहैव भारतस्य प्रतिवेशी- आतंकवादसंरचनायै अपि तेन साहाय्यं न दातव्यम् – विदेशमन्त्री एस.जयशंकर: ।
हिमसंस्कृतवार्ता: – विदेशमंत्री डॉ. एस. जयशंकरः नवदेहल्यां पोलैंड देशस्य उप-प्रधानमन्त्रिणा विदेश-मन्त्रिणा च श्री रादोस्वाफ शिकोर्की वर्येण साकं शिष्टाचार-मेलनोपवेशनं व्यदधात्। उपवेशनस्य अवसरे भारत-पोलैंड-देशयोः द्विपक्षीय-सम्बन्धानां, परस्परं सहयोगस्य, समकालिका-न्ताराष्ट्रिय-प्रकरणानां च विषये विचार-विमर्शः विहितः। अस्मिन् अवसरे उभाभ्यामपि नेतृभ्यां राजनीतिक-आर्थिक-वैश्विक मञ्चेषु सहयोगस्य सुदृढीकरणे सविशेषं बलं प्रदत्तम्। उपवेशनमिदं भारत-पोलैंड-देशयोः मैत्रीपूर्णाः सम्बन्धाः नवीनोच्चतां प्रति प्रापकः महत्वपूर्णः पदक्षेपः आमान्यते। विदेशमन्त्री डॉ. एस्. जयशंकरः उक्तवान् यत् पोलैंडदेशेन आतंकवादं प्रति शून्य-सहिष्णुता प्रदर्शयितव्या, सहैव भारतस्य सीमायाः पार्श्वे आतंकवादसंरचनायै अपि तेन साहाय्यं न दातव्यम्। तेन अग्रे प्रोक्तं यत् पोलैंडदेशः भारतीयं क्षेत्रं परिचिनोति अथ च भारतस्य पारेसीम आतंकवादस्य दीर्घकालिक-संकट-विषये सम्यक्तया अवगतः अस्ति। तत्र सम्पन्ने समुपवेशने पक्ष-द्वयेनापि क्षेत्रीयं वैश्विकं च घटनाक्रम-विषये विचार-मन्थनानि कृतानि। ध्येमस्ति यदत्रावसरे डॉ. जयशंकरः प्रोदैरयत् यत् सद्य पूर्वमेव तेन न्यूयॉर्क पेरिस् स्थलेषु यूक्रेन-संकटस्य विषये भारतस्य दृष्टिकोणः अपि प्रकाशितः आसीत्। तेन स्पष्टीकृतं यत् भारतं विरुध्य चयनात्मक-लक्ष्यनिर्धारणं अन्याययुक्तं अनुचितं चास्ति। अमुना एतदपि प्रोक्तं यत् पोलैंड-देशः केंद्रीय-यूरोप-महाद्वीपे भारतस्य प्रमुखः व्यापार-सहयोगी अस्ति। द्वयोः राष्ट्रयोः मध्ये द्विपक्षीय व्यापारः सप्त-अरब डॉलर मूल्यतोपि अधिकः जातः अस्ति, यत्र विगते दशके एव प्रायः प्रतिशतं द्वि-शत-मितं वर्धनं दरीदृश्यते। भारतेन पोलैंडदेशे त्रि-अरब-डॉलर-मूल्यादपि अधिकः निवेशः कृतः वर्तते, येन तत्र नैकाः जीवाकावसराः सृष्टाः सन्ति। भारतस्य दृढा आर्थिकी वृद्धिः, महती आपण-क्षमता, निवेश-हितकर-नीतयः च पोलैंड-देशस्य व्यवसायि-जनेभ्यः भूरि अवसरान् प्रयच्छन्ति।
पोलैंडदेशेन आतंकवादं प्रति शून्य-सहिष्णुता प्रदर्शनीया-विदेशमन्त्री एस.जयशंकर:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
