By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: पोलैंडदेशेन आतंकवादं प्रति शून्य-सहिष्णुता प्रदर्शनीया-विदेशमन्त्री एस.जयशंकर:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > पोलैंडदेशेन आतंकवादं प्रति शून्य-सहिष्णुता प्रदर्शनीया-विदेशमन्त्री एस.जयशंकर:
राष्ट्रीयवार्ताःअन्ताराष्ट्रीयवार्ताः

पोलैंडदेशेन आतंकवादं प्रति शून्य-सहिष्णुता प्रदर्शनीया-विदेशमन्त्री एस.जयशंकर:

डॉ.अमनदीप शर्मा
Last updated: 2026/01/20 at 6:56 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

पोलैंडदेशेन आतंकवादं प्रति शून्य-सहिष्णुता प्रदर्शनीया, सहैव भारतस्य प्रतिवेशी- आतंकवादसंरचनायै अपि तेन साहाय्यं न दातव्यम् – विदेशमन्त्री एस.जयशंकर: ।
हिमसंस्कृतवार्ता: – विदेशमंत्री डॉ. एस. जयशंकरः नवदेहल्यां पोलैंड देशस्य उप-प्रधानमन्त्रिणा विदेश-मन्त्रिणा च श्री रादोस्वाफ शिकोर्की वर्येण साकं शिष्टाचार-मेलनोपवेशनं व्यदधात्। उपवेशनस्य अवसरे भारत-पोलैंड-देशयोः द्विपक्षीय-सम्बन्धानां, परस्परं सहयोगस्य, समकालिका-न्ताराष्ट्रिय-प्रकरणानां च विषये विचार-विमर्शः विहितः। अस्मिन् अवसरे उभाभ्यामपि नेतृभ्यां राजनीतिक-आर्थिक-वैश्विक मञ्चेषु सहयोगस्य सुदृढीकरणे सविशेषं बलं प्रदत्तम्। उपवेशनमिदं भारत-पोलैंड-देशयोः मैत्रीपूर्णाः सम्बन्धाः नवीनोच्चतां प्रति प्रापकः महत्वपूर्णः पदक्षेपः आमान्यते। विदेशमन्त्री डॉ. एस्. जयशंकरः उक्तवान् यत् पोलैंडदेशेन आतंकवादं प्रति शून्य-सहिष्णुता प्रदर्शयितव्या, सहैव भारतस्य सीमायाः पार्श्वे आतंकवादसंरचनायै अपि तेन साहाय्यं न दातव्यम्। तेन अग्रे प्रोक्तं यत् पोलैंडदेशः भारतीयं क्षेत्रं परिचिनोति अथ च भारतस्य पारेसीम आतंकवादस्य दीर्घकालिक-संकट-विषये सम्यक्तया अवगतः अस्ति। तत्र सम्पन्ने समुपवेशने पक्ष-द्वयेनापि क्षेत्रीयं वैश्विकं च घटनाक्रम-विषये विचार-मन्थनानि कृतानि। ध्येमस्ति यदत्रावसरे डॉ. जयशंकरः प्रोदैरयत् यत् सद्य पूर्वमेव तेन न्यूयॉर्क पेरिस् स्थलेषु यूक्रेन-संकटस्य विषये भारतस्य दृष्टिकोणः अपि प्रकाशितः आसीत्। तेन स्पष्टीकृतं यत् भारतं विरुध्य चयनात्मक-लक्ष्यनिर्धारणं अन्याययुक्तं अनुचितं चास्ति। अमुना एतदपि प्रोक्तं यत् पोलैंड-देशः केंद्रीय-यूरोप-महाद्वीपे भारतस्य प्रमुखः व्यापार-सहयोगी अस्ति। द्वयोः राष्ट्रयोः मध्ये द्विपक्षीय व्यापारः सप्त-अरब डॉलर मूल्यतोपि अधिकः जातः अस्ति, यत्र विगते दशके एव प्रायः प्रतिशतं द्वि-शत-मितं वर्धनं दरीदृश्यते। भारतेन पोलैंडदेशे त्रि-अरब-डॉलर-मूल्यादपि अधिकः निवेशः कृतः वर्तते, येन तत्र नैकाः जीवाकावसराः सृष्टाः सन्ति। भारतस्य दृढा आर्थिकी वृद्धिः, महती आपण-क्षमता, निवेश-हितकर-नीतयः च पोलैंड-देशस्य व्यवसायि-जनेभ्यः भूरि अवसरान् प्रयच्छन्ति।

You Might Also Like

NEP 2020 सर्वकारस्य २०३० पर्यन्तं विद्यालयेषु शत-प्रतिशतं नामांकनस्य लक्ष्यम्

राष्ट्रपतिपदासीना द्रौपदी मुर्मुः संसदः संयुक्तसम्मेलनम् अभिसंबोधितवती

भारतीयस्वतंत्रतान्दोलने नेताजीसुभाषचन्द्रबोसस्य योगदानम्

गणतन्त्रभारतसमीक्षा -डॉ विमलेश झा,

भारतं यूरोपीयसङ्घ च ऐतिहासिकं मुक्तव्यापारसमन्वयं निश्चितं कृतवन्तौ

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article मादक–पदार्थ–निवारणार्थं जनजागरण–अभियानं तथा पदयात्रा सम्पन्ना
Next Article संस्कृतभारत्याः ब्रजप्रान्ते एकदिवसीयः संस्कृतभाषाप्रवेशवर्गः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?