शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः
पालनपुरस्थितया स्कूल् ऑफ् साइन्स इत्याख्यया संस्थया तथा नॉलेज् वैली फाउण्डेशन इत्यनेन सहयोगेन राज्ये गुणवत्तायुक्तस्य आधुनिकशिक्षणस्य प्रोत्साहनार्थं “गुजरात् सारस्वतसम्मानः स्नेहमिलनं च – २०२६” इति भव्यः कार्यक्रमः आयोजिम्। अस्मिन् कार्यक्रमे Gujarat Teachers’ Association for Quality Education इत्यस्य सौजन्येन शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना जय जलाराम आयुर्वेदिक मेडिकल कॉलेज, शिवपुरी–गोधरा इत्यत्र कार्यरतः प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः। डॉ. पुरोहितेन आयुर्वेदे, संहिता-सिद्धान्ते तथा संस्कृतविषये अध्यापनक्षेत्रे समर्पितं शैक्षणिकं कार्यं, अनुसन्धानगताः प्रवृत्तयः, तथा विद्यार्थिनां सर्वाङ्गीणविकासाय कृताः प्रशंसनीयाः प्रयत्नाः एते सर्वे दृष्ट्वा तस्मै एषः सम्मानः प्रदत्तः। अस्मिन् शुभावसरे शिक्षणक्षेत्रे संलग्नाः विद्वांसः अध्यापकाः,
शिक्षणविदः तथा गण्यमान्याः महापुरुषाः विशेषतया उपस्थिता आसन्।कार्यक्रमस्य अन्तेस्नेहमिलनप्रसङ्गेनसर्वैः शुभाशीर्वादाः शुभेच्छाश्च व्यक्ताः। अनेन सम्मानेनमहाविद्यालयपरिवारस्य तथा आयुर्वेदिकशिक्षणक्षेत्रस्य च हर्षगौरवभावः सर्वत्र प्रसारितः।
शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
