राज्यस्तरीयभाषणप्रतियोगितायां बडाईविद्यालयात् अंकिता द्वितीयस्थानं प्राप्तवती
हिमसंस्कृतवार्ताः। राज्यस्तरीयभाषणप्रतियोगितायां बडाईविद्यालयात् अंकिता द्वितीयस्थानं प्राप्तवती।
१४ वर्षाणाम् अधः बालिकानां कृते राज्यस्तरीयक्रीडाप्रतियोगिता हमीरपुरस्य नादौनगरस्य सर्वकारीय-वरिष्ठ-माध्यमिक-विद्यालये समाप्ता। एकलगीतप्रतियोगितायां काङ्गड़ामण्डलेन प्रथमस्थानं प्राप्तम्। काङ्गड़ामण्डलस्य अपि शासकीयमाध्यमिकविद्यालयस्य बडाइतः अंकिता भाषणप्रतियोगितायां द्वितीयस्थानं प्राप्तवती, येन काङ्गड़ामण्डलाय, नागरोटाबगवां खण्डाय च गौरवः प्राप्तः। अनेन सम्पूर्णे विद्यालये ग्रामे च आनन्दः प्राप्तः । अस्मिन् अवसरे स्थानीयविद्यालयस्य शिक्षकः दीपकुमारशास्त्री स्वस्य प्रसन्नतां प्रकटयन् राज्यस्तरं प्राप्तुं स्वतः एव महत्त्वपूर्णा उपलब्धिः इति अवदत्।
राज्यस्तरीयभाषणप्रतियोगितायां बडाईविद्यालयात् अंकिता द्वितीयस्थानं प्राप्तवती
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
