Himachal News – हिमाचलप्रदेशे भवननिर्माणविनियमानाम् शिथिलीकरणम्
संशोधितनियमानां प्रारूप: प्रकाशित:, ३० दिवसेषु आक्षेपाः याचिताः
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलसर्वकारेण सर्वासु योजनाक्षेत्रेषु भवननिर्माणविनियमानाम् शिथिलीकरणं कृतम् अस्ति । राज्यमन्त्रिमण्डलस्य अनुमोदनानन्तरं नगरदेशनियोजननियमा-२०१४ संशोधनं क्रियते । राज्यस्य मुख्यसचिवेन संजयगुप्तेन प्रकाशितायाम् अधिसूचनायां ३० दिवसेषु एतेषु नियमानाम् प्रारूपे जनाक्षेपाः परामर्शा: च आमन्त्रिताः सन्ति। अस्मिन् संशोधने विघ्नाभिः, तलक्षेत्रानुपातैः च सम्बद्धानि आवश्यकतानि शिथिलानि भवन्ति । एषा शिथिलता आवासीय-वाणिज्यिकभवनयोः कृते प्रवर्तते। यानस्थगनस्थलं, आपणानि, विपणिपरिसराः, पर्यटन-एककाः च, यत्र होटलानि, सिनेमागृहाणि च सन्ति, भवनस्य आवश्यकताभ्यः अपि मुक्ताः भविष्यन्ति । यानस्थगनस्थलस्य कृते निर्मितक्षेत्रस्य आधारेण एतत् शिथिलीकरणं प्रदत्तं भवति। भवनानां कृते तलक्षेत्रानुपातस्य आधारेण शिथिलता भविष्यति । ऊर्ध्वाधरनिर्माणं प्रोत्साहयितुं भवनस्य ऊर्ध्वता अपि शिथिलं क्रियन्ते।
