प्रधानमन्त्री नरेन्द्रमोदी कृषि-सम्बद्ध-क्षेत्रेभ्यः द्विचत्वारिंशत-सहस्र-कोट्यधिकरूप्यकाणां नैकासां परियोजनानां लोकार्पणं शिलान्यासं च अकरोत्।
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी कृषि-सम्बद्ध-क्षेत्रेभ्यः द्विचत्वारिंशत्-सहस्र-कोट्यधिक-रूप्यकाणां नैकासां परियोजनानां लोकार्पणं शिलान्यासं च अकरोत्। श्रीमोदी भारतीय-कृष्यनुसन्धान-संस्थाने आयोजिते कार्यक्रमे पञ्चत्रिंशत्-सहस्र-कोट्यधिक-रूप्यकाणां प्रधानमन्त्री धन-धान्य-कृषि-योजनायाः अथ च द्विदलेषु आत्मनिर्भरताभियानस्य शुभारम्भम् अकरोत्। चतुर्विंशति-सहस्र-कोटि-रूप्यकाणां प्रधानमन्त्री धन-धान्य-कृषि-योजनया कृष्युत्पादकता-संवर्धनं धान्य-विविधीकरणं सतत्-कृषि-पद्धतीनां प्रवर्तनं सेचन-सौविध्ये परिष्कारः अथ च चयनितेषु शत-जनपदेषु दीर्घकालिकाल्पकालिकस्य च ऋणस्य उपलब्धता सुनेश्चेष्यन्ते। अत्रावसरे चत्वारिंशदधिक-चतुश्शतोत्तर-एकादश सहस्र-कोटि-रूप्यकाणां द्विदलेषु आत्म-निर्भरताभियानस्य अपि शुभारम्भो जातः। अस्मिन् कार्यक्रमे प्रधानमन्त्रिणा कृषि-पशुपालन-मत्स्य-पालन-खाद्य-प्रसंस्करण-क्षेत्रेषु सार्धचुश्शतोत्तर-पञ्च-सहस्र-कोट्यधिक-रूप्यकाणां परियोजनानाम् उद्घाटनं विधाय पञ्चदशाधिकाष्टशत-कोटि-रूप्यकाणाम् अतिरिक्त-परियोजनानाम् अपि आधारशिला स्थापिता। श्रीमोदी अवदत् यत् भारतम् अद्य दुग्धोत्पादने जगति प्रथम-स्थाने वर्तते। अथ च विश्व-स्तरे द्वितीयः मत्स्योत्पादकः अपि वर्तते। श्रीमोदिना उक्तं यत् देशे षड् नूतन-उर्वरक संस्थानानि स्थापितानि। विगतेषु एकादश वर्षेषु कृषकेभ्यः पञ्चविंशति-कोटि मृदा स्वास्थ्य-पत्राणि वितारितानि। प्रधानमत्रिणा उक्तं यत् एन.डी.ए. सर्वकारस्य कार्यकाले कृषिक्षेत्रस्य आयव्यय-पत्रके प्रतिशतं षद्मिता वृद्धिः अभवत्। वस्तुसेवाकरेषु न्यूनतया ग्रामीण-भारतस्य कृषकाः लाभान्विताः अभवन्। कृषिमन्त्रिणा शिवराज सिंह चौहानेन उक्तं यत् आगामि-वस्तुसेवाकर-संशोधने प्रशासनेन कृष्युपकरणेषु वस्तुसेवाकर-मूल्येषु अपचिर्ति विधाय कृषकेभ्यः साहाय्यं प्रदत्तम् ।
अरुणाचल-प्रदेशस्य मुख्यमन्त्री पेमा खाण्डूः सबलम् अवोचत् यत् योजनानां शुभारम्भः प्रभावि-विकासादर्शस्य प्रतिनिधित्वं विदधाति ।
अरुणाचल-प्रदेशस्य मुख्यमन्त्री पेमा खाण्डूः सबलम् अवोचत् यत् योजनानां शुभारम्भः प्रभावि-विकासादर्शस्य प्रतिनिधित्वं विदधाति । तेनेदं वक्तव्यम् अद्य ईटानगरे प्रदत्तम्। यत्र असौ प्रधानमन्त्री धन-धान्य-कृषि-योजनायाः द्विदल-क्षेत्रे आत्मनिर्भरतायाभियानस्य च वर्चुअल इति प्रातिभाषिक-शुभारम्भावसरे आयोजितं समारोहं सम्बोधयति स्म।
प्रधानमन्त्रिणा नरेन्द्रमोदिना नवदिल्यां क्वालकॉम इत्यस्य अध्यक्षेण मुख्यकार्य-कार्यधिकारिणा च क्रिस्टियानो आर. अमोन इत्यनेन सह मेलनं कृतम्।
प्रधानमन्त्रिणा नरेन्द्रमोदिना नवदेहल्यां क्वालकॉम इत्यस्य अध्यक्षेण मुख्यकार्य-कार्यधिकारिणा च क्रिस्टियानो आर. अमोन इत्यनेन सह मेलनं कृतम्। एकस्मिन् सामाजिक-सञ्चार-पटले श्रीमोदी अलिखत् यत् मेलनावधौ उभाभ्याम् ए.आई इति कृत्रिम बुद्धिमत्तायाः नवाचारस्य कौशल-विकासस्य च क्षेत्रे भारतस्य प्रगतेः चर्चा कृता। तेन भारतस्य सेमीकन्डक्टर क्षेत्रम् ए-आई इत्यनेन च सम्बद्धान् अभियानान् प्रति क्वालकॉम् इत्यस्य प्रतिबद्धता प्रशांसिता।
प्रधानमन्त्री नरेन्द्रमोदी कृषि-सम्बद्धनैकासां परियोजनानां लोकार्पणं शिलान्यासं च अकरोत्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
