By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतभारत्याः उत्तरक्षेत्रस्य कार्यकर्तृविकासवर्गः कुरुक्षेत्रे महता वैभवेन सम्पन्नः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > संस्कृतभारत्याः उत्तरक्षेत्रस्य कार्यकर्तृविकासवर्गः कुरुक्षेत्रे महता वैभवेन सम्पन्नः
संस्कृतगतिविधयः

संस्कृतभारत्याः उत्तरक्षेत्रस्य कार्यकर्तृविकासवर्गः कुरुक्षेत्रे महता वैभवेन सम्पन्नः

डॉ.अमनदीप शर्मा
Last updated: 2025/09/16 at 10:22 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

संस्कृतभारत्याः उत्तरक्षेत्रस्य कार्यकर्तृविकासवर्गः कुरुक्षेत्रे महता वैभवेन सम्पन्नः
संस्कृतभाषायाःसंवर्धनाय समर्पितं विश्वस्तरीयं सङ्घटनं संस्कृतभारती अस्मिन् वर्षे सर्वेषां कार्यकर्तॄणां कृते विकासवर्गाणाम् आयोजनं करोति।
एतेषां वर्गाणाम् आयोजनं सङ्घटनस्य योजनानुसारं क्षेत्रशः जायमानमस्ति।
अस्यामेव श्रृंखलायां उत्तरक्षेत्रस्य कार्यकर्तृविकासवर्गः हरियाणाप्रान्तस्य सुप्रतिष्ठिते धार्मिकक्षेत्रे कुरुक्षेत्रे अभवत्।अस्मिन् वर्गे हरियाणापञ्जाबजम्मूदेहलीहिमाचलेभ्यः पञ्चप्रान्तेभ्यः दशाधिकशतं कार्यकर्तारः सहर्षं भागम् अवहन्। मुख्यप्रशिक्षकरूपेण अखिलभारतसम्पर्कप्रमुखः श्रीशदेवपुजारी सहप्रशिक्षणप्रमुखः श्रीरामश्च आवर्गम् उपस्थाय प्रशिक्षणम् अयच्छताम्।

सत्रेषु सङ्घटनस्य विस्ताराय अनेकेषां विषयाणां चर्चा अभवत्।अग्रिमवर्षेषु संस्कृतभारती कथं प्रतिगृहं प्राप्नुयात् इत्यस्मिन् विषयेऽपि विस्तृता योजना कृता। एकं सत्रं सामाजिकजनानां कृते अपि आयोजितम्,सत्रेऽस्मिन् संस्कृतभारत्याः कार्याणां परिचयः संस्कृतभाषायाः समाजे भूमिका च इति विषयद्वयं श्रीशमहोदयेन उपस्थापितम्।अस्मिन् वर्गे क्षेत्रसङघटनमन्त्री श्रीनरेन्द्रकुमारः,अध्यक्षः डॉ यशवीरसिंहः,मन्त्री कौशलकिशोरः,प्रशिक्षणप्रमुखः श्रीसञ्जीवः,सम्पर्कप्रमुखः श्रीनिवासः,गीताशिक्षणप्रमुखः डॉ जोगिन्द्रसिंहः चोपस्थिताः अभवन्।
हरियाणाप्रान्तस्य सहमन्त्री श्रीभूपेन्द्रः साहित्यप्रमुखः श्रीपुष्पेन्द्रश्च वर्गस्य व्यवस्थाम् अकुरुताम्। डॉ रामनिवासः श्रीहरिदेवशास्त्री च प्रबन्धनगणस्य मार्गदर्शनम् अकुरुताम्।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article अजमेरः- कार्यशालाया: द्वितीये दिवसे एकीकृतशिक्षणं, मूल्यशिक्षणं, अधिगमस्तर:, बहुभाषावादश्च समालोकितः
Next Article हिमाचलस्य विद्यालयेषु अध्यापक- पात्रता- परीक्षारहिता: कति शिक्षका:?
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?