By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: या विद्या संस्कृतात् प्रारभते, सा कदापि निष्फला न भवति – सौम्या साम्बशिवन
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > या विद्या संस्कृतात् प्रारभते, सा कदापि निष्फला न भवति – सौम्या साम्बशिवन
संस्कृतगतिविधयःहिमाचलवार्ता

या विद्या संस्कृतात् प्रारभते, सा कदापि निष्फला न भवति – सौम्या साम्बशिवन

डॉ मनोज शैल
Last updated: 2025/08/12 at 9:44 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

या विद्या संस्कृतात् प्रारभते, सा कदापि निष्फला न भवति – सौम्या साम्बशिवन

संस्कृतसप्ताहस्य समारोप-समारेहे मुख्यातिथिः आसीत् डी.आई.जी. सौम्या साम्बशिवन

हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।

हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषद् इत्यनेन आयोजिते संस्कृत-सप्ताह-समारोप-समारेहे भारतीय-पुलिस-सेवायाः अधिकारी, हिमाचल-प्रदेशे डी.आई.जी. पदे सेवारता च सुश्री सौम्या साम्बशिवन मुख्यातिथिरूपेण उपस्थिताभवत्।

कार्यक्रमारम्भे एव तया संस्कृत-भाषया सर्वेभ्यः संस्कृत-सप्ताहस्य शुभाशंसाः दत्ताः, तथा च उक्तम् —

“ईश्वरं न मया दृष्टम्, परञ्च यया भाषया ईश्वरस्य तत्वबोधः अभवत् सैव संस्कृतभाषा पूजनीया।”

स्वीय-जीवनानुभवान् प्रकाशयन्ती सा अवदत् यत् केरल-राज्ये विद्यारम्भ-संस्कारस्य समये प्रथमतः अक्षतै: अक्षर-लेखनं क्रियते, यस्मिन् “ॐ हरि श्री गणपतये नमः अविघ्नमस्तु” इति लिख्यते।

सा अवदत् — “या विद्या संस्कृतात् प्रारभते, सा कदापि निष्फला न भवति।”

मुख्यातिथिना संस्कृतभाषायाः महत्त्वम् अपि प्रतिपादितम्। तया उक्तम् — संस्कृतभाषा असत्यतः सत्यं प्रति, अन्धकारात् प्रकाशं प्रति, मृत्युत: च अमृतत्वं प्रति नयति। एषः सप्ताहः केवलं भाषायाः उत्सवः न, अपितु संस्कारस्य, संस्कृति-विवेकस्य च समर्पणोत्सवः अस्ति।

*”संस्कृतेन विना समाजः संस्कारहीनः भवति।”*

संस्कृतं न केवलं भाषा, अपि तु भारतीयजीवनदर्शनस्य मूलम् वर्तते। अस्या: भाषायाः आधारशिलायामेव धर्मः, चिकित्सा, योगः,न्यायः, शिक्षा, तथा सामाजिक-मूल्यानि स्थापितानि सन्ति।

यत्र संस्कृतवाङ्मयं सजीवम् अस्ति, तत्र समाजोऽपि सुसंस्कृतः, समुन्नतः च भवति।

यथा धर्मो रक्षति रक्षित: इति कथनं प्रसिद्धम् तथैव “संस्कृतं रक्षति रक्षितम्” — इत्यस्मात् स्पष्टं सिध्यति यत्, यदि संस्कृतं रक्ष्यते तर्हि संस्कृतिः रक्ष्यते, संस्कारः रक्ष्यते, समाजोऽपि स्वस्थः, सुदृढः च भवति।

स्वस्थसमाजस्य आधारभूतानि यानि तत्त्वानि — शुचिता, समत्वं, सहिष्णुता, कर्तव्यनिष्ठा, आत्मानुशासनम् च — सर्वाणि अपि संस्कृतवाङ्मये प्रतिपादितानि सन्ति। अतः संस्कृताधारितः समाजः एव दीर्घकालीन-स्वास्थ्यं, समत्वं च जनयितुं समर्थः अस्ति।

सापि अवदत् — यथास्मिन् विश्वे याः भाषाः वर्तन्ते, सर्वासु अपि अपशब्दाः दृश्यन्ते; किन्तु संस्कृतभाषा एव एकैका या अपशब्दरहिताभूत्।

विश्वासेन तया उक्तम् — “य: अस्या: भाषाया: अध्ययनं करोति, सः जनः कदापि दुर्व्यसनग्रस्तः न भवितुमर्हति।”

समारेहे परिषदः पदाधिकारीणां, अध्यापकानां, विद्यार्थिनां, जनसामान्यस्य च उत्साहपूर्णं सहभागित्वम् आसीत्। एतेन संस्कृत-सप्ताहस्य गौरवम् अधिकतरं जातम्।

You Might Also Like

MONSOON UPDATE – पर्वतेषु प्रकृतेः प्रकोपः – उत्तराखण्डे ९१ मार्गाः रुद्धाः, काश्मीरे मेघविस्फोटः; हिमाचले प्रचण्डवृष्टेः सतर्कता

हमटायां (मनाली) चतुर्विंशतिवर्षानन्तरं भगवान् श्रृङ्गिऋषिमहाराजस्य महर्षेः जमदग्नेः (जमलूदेवस्य) च दिव्य-महासमागमः सम्पन्नः

‘राममन्दिरन्यासं भङ्गं कृत्वा सर्वोच्च- न्यायालयस्य निरीक्षणे भवेत् अन्वेषणम्’- शोभा ओझा

अक्षोट-वाताद-निकोचकैः (अखरोट- बादाम- चिलगोजा) वर्धिष्यते कृषकाणाम् आयः,

संस्कृतभारत्याः पटियालाविभागस्य परिवारसम्मेलनं सम्पन्नम्।

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Online संस्कृतशिक्षणम् आमुखपटलसमूहे संस्कृतसप्ताहोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
Next Article
1 Comment 1 Comment
  • Ramnik Pandya says:
    August 12, 2025 at 9:39 pm

    Exllent

    Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?