“विश्व- आदिवासी- दिनोत्सवस्य– २०२५” समारोहः
तापी- जिलान्तर्गतम् उच्छलस्थले माँ देवमोगरा- सर्वकारीय- कलाविद्यापीठे सुसम्पन्नः, विश्व- आदिवासी- दिनोत्सव- २०२५- समारोहः
हिमसंस्कृतवार्ताः- जगदीश डाभी।
तापी-जिलान्तर्गते उच्छल-स्थले स्थिते माँ- देवमोगरा- सर्वकारीय-कलाविद्यापीठे २०२५ तमस्य अगस्तमासस्य अष्टमे दिनाङ्के शुभे दिवसे “विश्व-आदिवासी-दिनोत्सवः” महता उत्साहेन आनन्देन सुसंस्कृत्या च समायोजितः। अत्रत्येषु छात्रेषु भारतीयजनजातीयसंस्कृतेः गौरवपूर्णस्य धरोहस्य अवबोधनम्, तेषु आत्मस्वाभिमानस्य आत्मगौरवस्य च जागरणम् इति प्रमुखम् उद्देश्यं मनसि निधाय महोत्सवोऽयं समायोजितः आसीत्। समग्रोऽपि कार्यक्रमः डॉ. के. आर. भट्ट- महोदयायाः साभापत्ये कुशलमार्गदर्शनेन सुसम्पन्नः जातः। समारोहान्ते च प्रा. तृप्तिबेन पाडवी कृतज्ञता-निवेदनस्य दायित्वं निरवहत्। कार्यक्रमस्य शुभारम्भः पारम्परिकया “भूमि- वन्दना” इति आरत्या प्रार्थनया च सह समभवत्। समस्तमपि वातावरणं सर्वथा आदिवासि- परम्परायाः संस्कृतिसुगन्धेन आप्लावितं परिपूर्णं सुवासितं च समवर्तत।

प्रा. ऊर्विक- पटेल- महोदयेन प्रसङ्गानुकूलं उद्घाटनभाषणं विहितम्। ततः प्रा. अयूब गामितमहोदयेन गामित-भाषायां जनजातीयः इतिहासः विस्तरेण प्रकाशितः। अनन्तरं डॉ. फाल्गुनी गामितमहोदया आदिवासि- जीवन- गौरवविषये प्रेरणाप्रदम् उद्बोधनम् अकरोत्। छात्रैः अपि गामितभाषायामेव देवमोगरामातुः गौरवगाथा उत्कण्ठया प्रस्तुता, अनया गौरवगाथया स्वसंस्कृतिविषये तेषां स्वाभिमानः स्पष्टतया सहजतया सुलभतया च प्राकाशत। तदनन्तरम् आदिवासि-लोकगीतानां मनोमोहकम् अतीव आह्लादकं सुमधुरं गानं तैः कृतम्, येषां संश्रवणमात्रेण श्रोतृवर्गः हर्षेण आप्लावितः उल्लसितः च। अस्मिन् शुभनिमित्ते सर्वैरपि सम्मिल्य परस्परम् एकत्वभावस्य भ्रातृत्वभावस्य च अभिनव-भावनया रक्षाबन्धनम् अपि च पर्यावरणस्य संरक्षणाय संवर्धनाय प्रकृतिं प्रति च स्वीयदायित्वबोधाय वृक्षाबन्धनं च समायोजितम्। कार्यक्रमस्य समापनम् आदिवासी- परम्परायाः अनुसारं विविधैः वर्णमयैः वस्त्रैः अलङ्कृतानां छात्राणां लोकनृत्येन अभवत्। पारम्परिकवेषभूषायाः धारणे प्रदर्शने च क्रमशः श्रेष्ठतां प्राप्तवतः त्रीन् छात्रान् कार्यक्रमस्य मान्यवराः सम्मानपत्रैः पुरस्कारैः च विभूषितवन्तः। कार्यक्रमस्य सत्रसञ्चालनं प्रा. प्रदीपवसावामहोदयः मनोहारिण्या वसावा-भाषया समकरोत्। कार्यक्रमस्य समापनसमये यशस्वितया सुसम्पन्नतार्थं प्रा. तृप्तीबेन पाडवीमहोदया सर्वेभ्यः कृतज्ञतां ज्ञापितवती।
“विश्व- आदिवासी- दिनोत्सवस्य– २०२५” समारोहः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
