संस्कृतभारती बाँदाद्वारा रुद्राभिषेककार्यक्रमद्वारा “संस्कृतसप्ताहस्य” शुभारम्भ:
हिमसंस्कृतवार्ता:- आचार्यदीनदयालशुक्ल: बाँदा। संस्कृतसप्ताहस्य आरम्भः संस्कृतभारती बाँदाद्वारा भगवतः शिवस्य रुद्राभिषेकं कृत्वा समारब्धः। विश्वसंस्कृतदिवसस्य आयोजनं ०९ अगस्तदिनाङ्के भवितव्यम्। संस्कृतप्रचारकाः अमुष्मिन् दिवसावसरे इदं संस्कृतसप्ताहरूपेण आचरन्ति। यत् अगस्तमासस्य ०६ दिनाङ्कात् अगस्तमासस्य १२ दिनाङ्कपर्यन्तं आचर्यते। सप्ताहे प्रतिदिनं विभिन्नाः कार्यक्रमाः आयोजिताः भविष्यन्ति। अद्य प्रथम: दिवस: अतः बुधवारे श्रावणमासस्य प्रदोषकालव्यापिनी त्रयोदशीतिथौ गोधूलिबेलायां भगवतः श्रीनर्मदेश्वरमहादेवस्य रुद्राभिषेककार्यक्रम: संघकार्यालये समायोजित:। किरणमहाविद्यालयस्य चतुष्पथसमीपे स्थिते केशवभवने संस्कृतभारती बाँदा एवं श्रीवामदेवसंस्कृतमहाविद्यालयस्य आचार्यैः अयं कार्यक्रमः आयोजितः। सम्पूर्णं रुद्राष्टाध्यायी महाविद्यालयस्य वैदिक आचार्यैः बटुकैः च उच्चैः सस्वरं पठितम्। शिवः पूजितः नानाद्रव्यैः अभिषिक्तः। अस्मिन् अवसरे संस्कृतभारती कानपुरप्रान्तस्य प्रान्तीयसहमन्त्री, वामदेव संस्कृतमहाविद्यालयस्याचार्यः डॉ. रत्नेशत्रिवेदीवर्य: समुपस्थितः आसीत्। संस्कृतभारतीबाँदाजनपदस्य जिलासंयोजक डॉ. जानकीशरणशुक्ल: इत्यस्य गरिमापूर्णसन्निधौ रुद्राभिषेक कार्यक्रमः सफलतया सम्पन्नः। अभिषेकस्य अनन्तरं भगवान् शिवः नानास्रोतैः गीतैः अलङ्कृतः, पूजितः च अभवत्। सम्पूर्णरुद्री श्रीवामदेवसंस्कृतमहाविद्यालयस्य आचार्य: डॉ. इछारामपाठक: एवं वरिष्ठछात्र: आचार्यसंदीप अवस्थी, सूर्यप्रकाशमिश्र: आदि बटुकद्वारा उच्चारित: पाठश्च कृत:। अवसरेऽस्मिन् विश्वहिन्दूपरिषद: जिलाध्यक्ष: चन्द्रप्रकाशत्रिपाठी उपस्थितासीत्। विभागप्रचारक: ऋतुराजवर्य:, जिलाप्रचारक: अनुरागवर्य:, मन्दिरस्य अर्चक: विष्णुद्विवेदी, सङ्घटनस्य नैके कार्यकर्तार:, समीपस्थसामाजिका:, विद्यालयस्य छात्राः च उपस्थितासन्।
संस्कृतभारती बाँदाद्वारा रुद्राभिषेककार्यक्रमद्वारा “संस्कृतसप्ताहस्य” शुभारम्भ:

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment