संस्कृतभारतीदेहरादूनेन श्रीगङ्गा उद्धारसेवासमित्या च चन्द्रबन्यां संस्कृतसप्ताहस्य निमित्तो भव्यः सामूहिकयज्ञः सम्पन्नः।
चन्द्रबनी, देहरादूनम् |
संस्कृतभाषाया: भारतीयसंस्कृतेश्च संरक्षणं संवर्धनं च करणीयं मन्यमानेन संस्कृतभारतीदेहरादूनेन श्रीगङ्गाउद्धारसेवासमित्या च संयुक्तप्रयत्नेन महन्तश्रीहेमराजठाकुरमहाभागस्य पावने सान्निध्ये श्रीबाबाबालकनाथमन्दिरे गौतमकुण्डे चन्द्रबन्यां संस्कृतसप्ताहस्य पावनसंदर्भे भव्यः सामूहिकयज्ञः सुसम्पन्नः।
अस्मिन् पुण्ये अवसरे वैदिकमन्त्रोच्चारणं, आहुतिप्रदानं, संस्कृतभाषायां सामूहिकप्रार्थना, सांस्कृतिककार्यक्रमाः, संस्कृतसाहित्यवितरणं च इत्यादीनां विविधकार्यक्रमानां माध्यमेन समाजे संस्कृतसाधना राष्ट्रियचेतनाया: च जागरणं कृतम्।
कार्यक्रमस्य अध्यक्षीयोद्बोधने संस्कृतभारतीदेहरादूनस्य विभागसंयोजकः श्रीनागेन्द्रदत्तव्यासः संस्कृतभाषाया: महत्त्वं विशदं कृत्वा अवदत् यद्
“अस्य आयोजनस्य उद्देश्यम् अस्ति यत् संस्कृतभाषा, भारतीयसंस्कृतिः, सनातनपरंपराणां च गौरवं जनं जनं प्रति नेतव्यानि।
अस्मिन्नेव अवसरे उत्तराखण्डविद्वत्सभायाः महासचिवः श्रीदिनेशप्रसादभट्टः मुख्यवक्तृरूपेण पन्तपीठसंस्थापकाध्यक्षः श्रीमुकेशपन्तः विशिष्टातिथिरूपेण विशेषतया उपस्थितौ सन्तौ स्वैः ओजस्विभिः उद्बोधनैः कार्यकर्तॄणाम् उत्साहवर्धनं कृतवन्तौ। सममेव सभायाः कोषाध्यक्षः अजयडबरालः समुपस्थाय उत्साहवर्धनमकरोत्।
कार्यक्रमस्य प्रेरणास्रोतः जिलाध्यक्षः डॉ राम भूषण बिजल्वाणः प्राप्ताविके भाषणे सप्ताहसप्ताहविषये सविस्तरम् उक्त्वा सर्वान् अपि समुपस्थितान् अभिमुखीकृतवान् ।
गीताशिक्षणप्रमुखः श्रीयोगेशकुकरेती अवदत् यत् सामूहिकयज्ञस्य माध्यमेन संस्कृतसाधनाया: च राष्ट्रियचेतनाया: च भावः जागृतः कृतः।
डॉ. प्रदीपसेमवालः समागतेभ्यः सर्वेभ्यो धन्यवादम् अभ्यनन्द्य संस्कृतनिष्ठः भवितव्यमिति प्रेरणां प्रदत्तवान्।
कार्यक्रमस्य संयोजकः आचार्यः धीरजमैठाणी महोदयः उक्तवान् यद् अयं यज्ञः संस्कृतसप्ताहस्य आयोजनोपक्रमे प्रमुखः पादः अस्ति, यस्य माध्यमेन समाजे संस्कृतिं प्रति श्रद्धा गौरवञ्च व्याप्यते।
सः सर्वेषां नागरिकानां, परिवारसदस्यानां, छात्राणां संस्कृतप्रेमिणां च अस्मिन् पुण्ये अनुष्ठाने सहभागीभवन्तु इत्यपि आह्वानं कृतवान्।
कार्यक्रमे संस्कृतभारतीदेहरादूनस्य प्रमुखकार्यकर्तारः अपि सगौरवं सहभागीभूताः।
रायवालाखण्डसंयोजकः नीतिशमैठाणी, रायवालाखण्डसहसंयोजिका डॉ. बीना पुरोहित, दूनविश्वविद्यालयस्य छात्रसंयोजिका कनिका, सहकार्यकर्तारः माधुरी नेगी, अनीता बुटोला, आनन्दी देवी, सोनाली, वाणी, आद्विकमैठाणी च विशेषतया उपस्थिताः आसन्।
तदतिरिक्तं स्थानीयजनप्रतिनिधयः, संस्कृतशिक्षकाः, विद्यार्थिनः, विद्वांसः, संस्कृतप्रेमिणः नागरिकाश्च सक्रियं सहभागं कृत्वा कार्यक्रमस्य गौरवं वर्धितवन्तः।