सरलमानकीकृतानां संस्कृतशब्दानां प्रयोगः सरलमानकसंस्कृतम्- डॉ.सत्यदेवः
हिमसंस्कृतवार्ताः। संस्कृतसप्ताहावसरे हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषदः पञ्चदिवसात्मिकायाः व्याख्यानमालायाः शुभारम्भः गतदिने बुधवासरे सप्तवादने परिषदः फेसबुकपटले आभासीयमाध्यमेन अभवत्। अस्य कार्यक्रमस्य संचालनं प्रदेशमहासचिवः डॉ.अमनदीपशर्मा कृतवान्। कार्यक्रमे सिरमौरतः परिषदः जिलाध्यक्षः आचार्यः देवेन्द्रः मंगलाचरणं कृतवान्, तत्रैव शिमलातः महासचिवः सतीशभारद्वाजः अतिथीनां स्वागतं कृतवान्। परिषदः प्रदेशाध्यक्षः डॉ.कमलकान्तगौतमः केन्द्रीयविश्वविद्यालयस्य बलाहरपरिसरस्य शिक्षाविभागस्य सहाचार्यस्य डॉ.सत्यदेवस्य स्वागतं कृतवान्। कार्यक्रमस्य अध्यक्षता हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य आचार्यः डॉ.बृहस्पतिमिश्रमहोदयः कृतवान्। मुख्यवक्ता डॉ.सत्यदेवः सरलमानकसंस्कृतम् इति विषये स्वीयं व्याख्यानं कृतवान्, तेनोक्तं यत् समाजे सर्वदा भाषायाः प्रयोगः सरलः भवेत्, तत्र कठिनानां शब्दानां प्रयोगः न भवेत, किञ्च सरलम् इत्यस्य अभिप्रायो हिन्दीभाषायाः शब्दानां प्रयोगः न अपितु पाणिनीयव्याकरणे निष्ठानां मानकीकृतानां शब्दानां प्रयोगः भवेत्। तत्रैव प्रो.बृहस्पतिमिश्रमहोदयः स्वीये आक्ष्यक्षीये सर्वेभ्यः जनेभ्यः संस्कृतसप्ताहस्य शुभकामना अयच्छन् व्यवहारे संस्कृतभाषायाः प्रयोगविषये बलं दत्तवान। कार्यक्रमस्यान्ते परिषदः प्रदेशवित्तसचिवेन लोकपालेन सर्वेषां धन्यवादप्रस्तावः कृतः।
सरलमानकीकृतानां संस्कृतशब्दानां प्रयोगः सरलमानकसंस्कृतम्- डॉ.सत्यदेवः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
