यू.जी.सी. द्वारा बी.बी.ए.यू., लखनऊ विश्वविद्यालयाय अर्पिता 16 लक्षात्मिका विशेषपरियोजना
वार्ताप्रेषक:- रिपुदमनपण्डितः
भारतीय-विश्वविद्यालय-अनुदान-आयोगेन (UGC) “स्वयम (SWAYAM) वेब-पोर्टल” माध्यमेन उत्कृष्टस्तरीय-संस्कृतपाठ्यक्रमनिर्माणाय निर्धारितयोजनाक्रमे लखनऊस्थितस्य बाबासाहेब-भीमराव-अम्बेडकर-केन्द्रीय-विश्वविद्यालयस्य संस्कृत-वैदिकाध्ययनविभागाय “सौन्दर्यशास्त्रस्य संस्कृत-काव्यशास्त्रपरिप्रेक्ष्ये” इति विषयमाश्रित्य एकं नूतनं एम्.ओ.ओ.सी.एस् (MOOCs) पाठ्यक्रमं निर्मातुं प्रायः षोषशलक्षरूप्यकपरमितं धनं स्वीकृतमिति महत्प्रमोदविषयः।
अस्य पाठ्यक्रमस्य समन्वयकः डॉ. बिपिन कुमार झा महोदयः, तथा सह-समन्वयिका IKS Cell केन्द्रीयसंस्कृतविश्वविद्यालयीयाः डॉ. दीपिका दीक्षित महोदया नियुक्ता अस्ति।
एषः पाठ्यक्रमः सौन्दर्यशास्त्रस्य मूलस्वरूपं, भारतीयकाव्यशास्त्रस्य वैशिष्ट्यं, तथा सौन्दर्य एवं काव्यानन्दस्य विविधविमर्शान् समाहितुं प्रकल्पितः अस्ति। “सौन्दर्यं किम्?”, “भारतीयकाव्यशास्त्रं किमर्थं विशिष्टम्?” इत्यादयः प्रश्नाः अस्मिन पाठ्यक्रमे स्पष्टतया विवेचयिष्यन्ते।
एषः पाठ्यक्रमः न केवलं पारम्परिक-काव्यविमर्शाय उपयोगी भविष्यति, अपि तु चलचित्रनिर्माणे अपि सौंदर्यबोधदृष्ट्या सन्दर्भोपयोगितायाः प्रमुखं साधनं भविष्यति। पाठ्यक्रमः संस्कृतभाषया च अंग्रेजीभाषया च संयुक्तरूपेण निर्मीयते। एषः पाठ्यक्रमः आगामी जुलैमासे २०२६ वर्षे सार्वजनिकरूपेण ऑनलाइन-माध्यमेन उपलब्धः भविष्यति।
पाठ्यवस्तुनिर्देशः:
‘सौन्दर्यशास्त्र’ इत्याख्यया यद्यपि पाश्चात्यचिन्तनपरम्परायामेव विशेषरूपेण “Aesthetics” इत्याख्यं दर्शनशाखा विकसितमस्ति, तथापि भारतीयपरम्परायां एषः चिन्तनविषयः संस्कृतकाव्यशास्त्रे अन्तर्निहितरूपेण समाहितः अस्ति। काव्ये रमणीयता, रस-बोधः, अलंकारसंपन्नता, रीतिलालित्यम्, वक्रोक्ति-चमत्कारः, ध्वन्यर्थव्यञ्जना, औचित्यचिन्तनं च—एते सर्वे अपि भारतीय-सौन्दर्यदृष्टेः प्रमुखनिमित्तानि सन्ति।
रस-परम्परा (भरतमुनिः), अलंकार-परम्परा (भामहः, दण्डी), रीति-परम्परा (वामनः), ध्वनि-परम्परा (आनन्दवर्धनः), वक्रोक्ति-सिद्धान्तः (कुंतकः), औचित्य-सिद्धान्तः (क्षेमेन्द्रः) च काव्यसौन्दर्यस्य विभिन्नदृष्टयः अवबोधयन्ति।
एवं एषः पाठ्यक्रमः केवलं सौन्दर्यशास्त्रस्य विवेचनं न करिष्यति, अपि तु आधुनिक-सृजनात्मकविज्ञानानाम् (सिनेमा, रंगमंच, दृश्यकला इत्यादीनाम्) संदर्भे अपि बहुप्रयुक्तव्यः भविष्यति।
एषः MOOCs पाठ्यक्रमः पारम्परिकभारतीयकाव्यदृशा आधुनिकमाध्यमेषु सौन्दर्यविमर्शस्य प्रचारप्रसाराय एकं महत्वपूर्णं पङ्क्तिस्थापनं करिष्यति।