आपरेशन ‘महादेव’ इत्यस्यान्तर्गतं पहलगाम आतङ्किङ्क-आक्रमणे संलग्नाः त्रयः आतङ्कवादिनः व्यापादिताः, शततः अधिकाः आतङ्कवादिनः सिन्दूराभियाने च मारिताः – गृहमन्त्री अमितशाहः ।
हिमसंस्कृतवार्ता: – लोकसभायां आपरेशन-सिन्दूर-विषये विशेष चर्चा पुनः आरब्धा । चर्चावसरे गृहमन्त्री अमितशाहः अवदत् यत् “आपरेशन महादेव” इत्यस्यान्तर्गतं भारतीयसेना, सी. आर्. पी. एफ्., जम्मू-कश्मीर्-आरक्षकाः च पहलगाम आतङ्कि-आक्रमणे संलग्नान् त्रीन् आतङ्कवादिनः व्यापादितवन्तः। सः अवदत् यत् आतङ्कवादिभ्यः त्रीणि भुशुण्डी अस्त्राणि गृहीतानि, यानि पहलगाम-आक्रमणे प्रयुक्तानि आसन्। सुलेमान् शाहू, जिब्रान्, हम्जा अफ़्थानी च इत्येते त्रयः आतङ्कवादिनः सफलतया उन्मूलिताः । श्रीशाहः अवदत् यत् सुलेमान् एकः ‘ए’ प्रवर्गस्य आतङ्की आसीत्, यः पहलगाम-आक्रमणे गभीरतया संलग्नः आसीत् । गृहमन्त्रिणा उक्तं यत् अन्वेषणाभियानान्तर्गतम् एकशताधिकाः जनाः पृष्टाः, सङ्गृहीतानां सूचनानाम् आधारेण संमिश्र रेखाचित्राणि च निर्मितानि। सः अवदत् यत् तदनन्तरं जूनमासस्य द्वाविंशतिदिनाङ्के, बशीर् तथा च पर्वेज् इति द्वे व्यक्ती आतङ्कवादिभ्यः आश्रयं दत्तवन्तौ । सः अवदत् यत्, आपरेशन-सिन्दूर इति अभियानं मईमासस्य सप्तमे दिनाङ्के प्रातः चतुरधिकेकवादनतः चतुर्विंशत्यधिकेकवादन – पर्यन्तं सञ्चालितम्। अस्मिन् अभियाने पाकिस्तानस्य नव-आतङ्कवादिस्थलानि नष्टानि कृतानि, शततः अधिकाः आतङ्ङ्किनः व्यापादिताः च । अस्मिन् आक्रमणे पाकिस्तानस्य सामान्यनागरिकाः न मृताः, लक्ष्यानि च पाकिस्तानस्य अन्तः शतं किलोमीटर्-परिमिते दूरे आसन् । सः सबलं प्रतिपादितवान् यत् नरेन्द्रमोदी-सर्वकारस्य आतङ्कवादं विरुध्य शून्य-सहिष्णुतायाः नीतिः वर्तते। श्रीशाहवर्यः अवदत् यत् पहलगाम-आतङ्कवादि-आक्रमणे निर्दोषाः पर्यटकाः स्वपरिवारस्य पुरतः क्रूरतया मारिताः। प्रत्युत्तरे प्रधानमन्त्री नरेन्द्रमोदी अविचल-संकल्पेन कार्यं कृतवान् तथा च आपरेशन-सिन्दूर अधिकृतवान् ।
गृहमन्त्री अवदत् आपरेशन ‘महादेव’ इत्यस्यान्तर्गतं पहलगाम आतङ्किङ्क-आक्रमणे संलग्नाः त्रयः आतङ्कवादिनः व्यापादिताः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
