विजय देवराकोंडा इत्यस्य ‘किंगडम’ चलच्चित्रस्य विज्ञापन पुटकं प्रसारितं जातम्, जासूसस्य भूमिकायां दृश्यते
वार्ताहर: – जगदीश डाभी
मुम्बई । दक्षिणतारकः विजयदेवराकोंडा गतवर्षे ‘द फैमिली स्टार” इत्यमिन् चलच्चित्रे दृष्टः आसीत् । विजयस्य एतत् चलच्चित्रं निष्फलम् अभवत् । अस्य चलच्चित्रस्य अनन्तरं विजयः अधुना किंगडम चलच्चित्रे दृश्यते । इदं चलच्चित्रं ‘सम्राज्य’ नाम्ना हिन्दीभाषायां प्रदर्शितं भविष्यति। विजय: जासूसस्य भूमिकायां दृश्यते। एतत् चलच्चित्रं सम्पूर्णे भारते जूलाई मासस्य ३१-दिनाङ्के अनेकभाषासु प्रदर्शितं भविष्यति। विजयस्य अस्य चलच्चित्रस्य प्रदर्शनाय बहुदिनानि अवशिष्टानि न सन्ति। एतादृशे सति अद्य निर्मातारः चलच्चित्रस्य पुटकं प्रकाशितवन्तः। पुटके विजय देवराकोंडा भ्रातुः कृते युद्धं कुर्वन् दृश्यते । किञ्चित्कालपूर्वं पुटकं प्रदर्शितम् आसीत् । विज्ञापन पुटकस्य प्रकाशनमात्रेण तस्य प्रतिक्रिया उत्तमा अभवत् । परन्तु हिन्दी-पुटकस्य बहु उत्तमं प्रतिसादं न प्राप्तम् । पुटकस्य आरम्भः स्वरेण भवति। ट्रेलरः एक्शनैः परिपूर्णः अस्ति। विजयः अपि पुटके एक्शनं कुर्वन् दृश्यते । पुटकं प्रभावशाली अस्ति। पुटकं दृष्ट्वा इदं चलच्चित्रं अपि प्रभावशाली भविष्यति इति भाति।