भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः
भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति । यतो हि लौहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य मूर्तिनिर्माणस्य विचारधारायाः पृष्ठभूमौ लौहपुरुषस्य भारतैकतायाः विचाराः सन्ति । विनोबा भावे-महाभागस्य मते भारतीयेतिहासे लौहपुरुषस्य अमरत्वस्य बहूनि कारणानि सन्ति । परन्तु तेषु द्वे मुख्ये कारणे स्तः । एकं तु बारडोली-सत्याग्रहः (१९२८), अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम सगर्वं गृह्यते। ‘सरदार’ इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः ।
एकतामूर्तिप्रकल्पे लौहपुरुषस्य १८२ मी. उन्नतमूर्तेः निर्मिता अस्ति। सरदार वल्लभभाई पटेल-जलबन्धस्य पुरतः अस्याः एकतामूर्तेः निर्माणं जातम्। तस्मात् जलबन्धात् ३.२ कि.मी. दूरे निर्मिता भारतस्य एकताप्रतीकस्य लोहपुरुषस्य एकतामूर्तिः । भारतस्य गुजरातराज्यस्य भरुच-नगरसमीपे नर्मदानद्याः साधुद्वीप-नामके (Sadhu island of Narmada River) द्वीपे विश्वस्य अत्युन्नतायाः एकतामूर्तिः विद्यते ।
एकतामूर्तिप्रकल्पे अन्यलघुप्रकल्पानामपि समावेशो भवति । यथा – साधुसेतुः (a bridge connecting the statue on Sadhu island to the bank), सरदार-स्मारकः, अभ्यागतभवनानि (buildings for visitors), स्मारकोद्यानम्, अतिथिभवनं (a five star hotel), सम्मेलनभवनं, मनोरञ्जनवाटिका, संशोधनकेन्द्रम्, अभ्यासकेन्द्रम् इत्यादिकम्।
एकतामूर्तिप्रकल्पाय सरदार वल्लभभाई पटेल राष्ट्रियैकतासंस्थायाः – सवपरास (Sardar Vallabhbhai Patel Rashtriya Ekta Trust – SVPRET) गुजरातसर्वकारेण स्थापना कृता अस्ति ।
निर्माणम्
२०१० तमस्य वर्षस्य ‘अक्तूबर’-मासस्य सप्तमे दिनाङ्के एकतामूर्तिनिर्माणस्य घोषणा जाता आसीत् । निर्माणं च २०१८ अक्तूबर मध्ये समाप्तम्। आधारसहितमूर्तेः औन्नत्यम् आहत्य २४० मी. विद्यते। उपप्रकल्पैः सह एकतामूर्तिप्रकल्पस्य विस्तारः आहत्य १९,५०० च.कि.मी. अस्ति । तत्र १८२ मी. उन्नता एकतामूर्तिः, ५८ मी. उन्नतः मूर्त्याधारः च अस्ति। एतत् सम्पूर्णं निर्माणं सारलोहेन (with steel) क्लृप्तं (prepared) विद्यते । जलरक्षकेण वज्रचूर्णेन (reinforced cement concrete) एकतामूर्तेः, एकतामूर्त्याधारस्य च निर्माणम् अभवत् । सम्पूर्णस्य निर्माणस्य आवेष्टनं (coating) कांस्य(bronze)धातुना अभवत्।
एकतामूर्तेः सहनिर्मातारौ सम्पूर्णप्रकल्पस्य पर्यवेक्षकत्वेन (supervisors) दायित्वं वहिष्यतः । तौ Michel Graves and Associates, Meinhardt Group स्तः । एकतामूर्तेः सम्पूर्णः प्रकल्पः ५६ मासानन्तरं समाप्तिं प्रापयिष्यति । उपप्रकल्पैः सह सम्पूर्णस्य एकतामूर्तिप्रकल्पस्य समाप्त्यर्थं १२५५ सप्ताहाः अर्थात् चतुर्विंशतिः (२४) वर्षाणि भविष्यन्ति । परन्तु उपप्रकल्पैः विना एकतामूर्तिनिर्माणस्य कालः पञ्चवर्षं यावत् अनुमानितः सर्वकारेण । सम्पूर्णप्रकल्पस्य मानितराशिः २०६३ कोटिरूप्यकाणि सन्ति । लोहपुरुषविचारान् अनुसृत्य जनसाहाय्येनैव एकतामूर्तिप्रकल्पाय धनसङ्ग्रहः भविष्यति । प्रकल्पाय गुजरातराज्यस्य सर्वकारेण २०१२-१३ वर्षे १०० कोटिरूप्यकं मानधनं प्रदत्तमस्ति ।
२०१३ तमस्य वर्षस्य ‘अक्तूबर’-मासस्य एकत्रिंशत्तमे (३१) दिनाङ्के, लौहपुरुषस्य १३८ तमे जन्मजयन्त्यवसरे गुजरातराज्यस्य मुख्यमन्त्री नरेन्द्र मोदी एकतामूर्तिप्रकल्पस्य शिलान्यासमकरोत् । शिलान्यासानन्तरं लाल कृष्ण आडवाणी, नरेन्द्र मोदी च अघोषयत् यत्, एकतामूर्तेः निर्माणं न केवलं विश्वस्य अत्युन्नतमूर्तेः निर्माणम् अपि तु लौहपुरुषस्य सर्वेषां विचाराणां समग्रस्य विश्वस्य पुरतः उपस्थापनम् । तौ अघोषयतां यत्, २०१४ तमस्य वर्षस्य ‘जनवरी’-मासस्य षड्विंषति(२६)तमे दिनाङ्के अर्थात् गणतन्त्रदिवसे प्रकल्पस्य निर्माणकार्यस्य प्रारम्भं भविष्यति ।
भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment