यक्षयुधिष्ठिरसंवादगीतम्
देहि उत्तराणि युधिष्ठिर ! नो ध्रुवं ते मरणम् ।
के सन्ति ते प्रश्ना: पृच्छ यक्षराज शीघ्रम् ।।
गुरुतरा का भूमेरुक्ता, उच्चतर: क: खात्
जननी भूमे: गुरुतरा पिता महत्तरो गगनात्
क: सुखीजनो जगति यस्य सत्कार्ये ध्यानम्
के सन्ति ते प्रश्ना: ……………
तृणाद् व्यापकं किं वायो:, द्रुततरं गन्ता
मनश्शीघ्रं वायोस्तृणाद् , बहुतरी चिन्ता
वद मरिष्यतो धर्म: श्रुयते तद्दानम्
के सन्ति ते प्रश्ना: ……………
कोऽस्माकं परमश्शत्रु: को नरोऽधम:
क्रोधो हि न: परमश्शत्रु: लोभी च अधम:
दमस्य वद परिभाषां दमो मनसो हि दमनम्
के सन्ति ते प्रश्ना: ……………
गृहे मित्रं किम्भवति अथ च वद प्रवासे
भार्या मित्रं भवति गेहे सा विद्या प्रवासे
महदाश्चर्यं किंल्लोके न मरणेच्छा दृष्टम्
के सन्ति ते प्रश्ना: ……………
तवोत्तरैस्तुष्टो याचस्व भ्रातरमेकम्
यक्षेश जीवयतु नकुलम् तं माद्रीसुतमनुजम्
पञ्चैव पाण्डवा: जीविता: जयभगवता हि श्रुतम्
के सन्ति ते प्रश्ना: ……………
रचयिता:- पं० जय भगवान् शास्त्री ‘कैथल’ हरियाणा
संस्कृताध्यापक:,राजकीय वरिष्ठ माध्यमिक विद्यालय: कठवाड़: (कैथलनगरम्)
दूरवाणीसंख्या-9991829095