By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: पाकिस्तानः भारते विहितेभ्यः आत‌ङ्कगतिविधिभ्यः उत्तरदायि सम्भूय तन्निमितं मूल्यं दास्यति-प्रधानमन्त्री मोदी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > पाकिस्तानः भारते विहितेभ्यः आत‌ङ्कगतिविधिभ्यः उत्तरदायि सम्भूय तन्निमितं मूल्यं दास्यति-प्रधानमन्त्री मोदी
राष्ट्रीयवार्ताः

पाकिस्तानः भारते विहितेभ्यः आत‌ङ्कगतिविधिभ्यः उत्तरदायि सम्भूय तन्निमितं मूल्यं दास्यति-प्रधानमन्त्री मोदी

डॉ.अमनदीप शर्मा
Last updated: 2025/05/23 at 7:13 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
5 Min Read
SHARE

पाकिस्तानः भारते विहितेभ्यः आत‌ङ्कगतिविधिभ्यः उत्तरदायि सम्भूय तन्निमितं मूल्यं दास्यति-प्रधानमन्त्री मोदी
हिमसंस्कृतवार्ता: – प्रधानमन्त्रिणा नरेन्द्रमोदिना सिंदूराभियानस्य सफलतायै भारतीय-सशस्त्र बलानां प्रशंसा कृता अस्ति। तेन प्रोदीरितम् यत् तेषां पराक्रमेण पाकिस्तानः पराजयमुखम् अपश्यत् । श्रीमोदी अकथयत् यत् पाकिस्तानः भारते विहितेभ्यः आत‌ङ्कगतिविधिभ्यः उत्तरदायि सम्भूय तन्निमितं मूल्यं दास्यति। सः प्रोक्तवान् यत् पाकिस्तानः कदापि भारतं विरुध्य जाते साक्षात्युद्धे विजेतुं न शक्नोति अतः तेन भारतं विरुध्य योद्धं आतङ्कवादः शस्त्ररूपेण स्वीकृतः अस्ति । नरेन्द्रमोदी राजस्थानस्य बीकानेरक्षेत्रे षड्विंशति-सहस्र-कोटिरुप्यकाणां विभिन्न-विकास-परियोजनानां शिलान्यासम् उद्घाटनं च कृतवान् ।। श्रीमोदी राजस्थानस्य बीकानेरक्षेत्रं निकषा पलाना-क्षेत्रे षड्विंशति-सहस्र-कोटिरुप्यकाणां विभिन्न-विकास-परियोजनानां शिलान्यासम् उद्घाटनं च विधाय समारोहं संबोधयति स्म । श्रीमोदी प्रोक्तवान् यत् पाकिस्तानः स्वतन्त्रताप्राप्त्यानन्तरं निरन्तरं आतङ्कवादं तनोति परञ्च अधुनी एतादृशं कार्याचरणं विरुध्य पाकिस्तानः भीषणमूल्यं दास्यति यस्य वहनं तस्य सेनाः अर्थव्यवस्था च करिष्यति । नरेन्द्रमोदी अकथयत् अधुना पाकिस्तानेन सह व्यापाराविषयिकी कापि वार्ता न भविष्यति अपितु केवलं पाकिस्तानाधिकृतस्य कश्मीरस्य विषये एव वार्ता भविष्यति । सः प्रोक्तवान् यत् एषः सङ्कल्पः भारतस्य अस्ति अपि च विश्वस्य कापि शक्तिः एतं सङ्कल्पं विखण्डितुं न शक्नोति । श्रीमोदी प्रोक्तवान् यत् सिंदूराभियानेन आतंकवादस्य निवारणाय त्रयः सिद्धांताः निर्धारिताः । तेषु प्रथमः अस्ति यदि भारते कीदृशोऽपि आतंकिप्रहारः भविष्यति तर्हि तद्विरुद्धं उचितोत्तरं प्रदास्यते । इतः पूर्वं बीकानेरस्य पलानाक्षेत्रे एकस्मिन् सार्वजनिक-कार्यक्रमे प्रधानमन्त्री नरेंद्रमोदी अकथयत् यत् देशनिर्माणाय षड्विंशति-सहस्र-कोटिरूप्यकाणां विविधविकास-परियोजनाः समर्पिताः सन्ति । विगतवर्षेषु देशे सुदृढाधारभूततन्त्र-निर्माणाय कृतानां कार्ययोजनानां विषये प्रकाशयन् प्रधानमन्त्री प्रोक्तवान् यत् आधुनिकमार्गाणां रेलविकासतन्त्राणां च निर्माणाय विविधाः पदक्षेपाः स्वीकृताः सन्ति । सः प्रोक्तवान् यत् अमृत-भारतम्, नमो भारतम्, वंदे-भारतम् चेत्यादीनि रेलयान-सौविध्यानि देशस्य विकासगतिं प्रगतिं च अग्रे नयन्ति । सः प्रोक्तवान् यत् बुलेट-ट्रेन-परियोजना अपि विकासपथि प्रचलति अपि च सर्वकारः सम्पूर्ण देशे त्रयोदश-शतं रेल-स्थात्राणि अमृत-भारत-स्थात्राणां रूपेण पुनः विकसितुं कार्यं करोति । राजस्थानस्य बीकानेर-नगरे, प्रधानमंत्री नरेन्द्रमोदी अष्टादश-राज्याणां केंद्र-शासित प्रदेशानां च षडशीति-जनपदेषु अवस्थितानां त्रयोत्तर-शतं पुनर्विकास-अमृत-स्थात्राणाम् उद्घाटनम् अकरोत्। एतानि स्थात्राणि एकादश-शत-कोटि-रुप्यकाणां व्ययेन विकसितानि सन्ति। त्रयोदशशततोऽधिकानां रेलस्थात्राणाम् पुनर्विकासकार्यं आधुनिक-सौविध्यैः सह क्रियते ।

भारतेन स्वकीयः सङ्कल्पः पुनरुच्चारितः अस्ति यत् भारत-पाकिस्तानयोः मध्ये कापि वार्ता द्विपक्षीया भवितव्या – विदेशमन्त्रालयः-विवरणम्
हिमसंसकृतवार्ता: – भारतेन स्वकीयः सङ्कल्पः पुनरुच्चारितः अस्ति यत् भारत-पाकिस्तानयोः मध्ये कापि वार्ता द्विपक्षीया भवितव्या । विदेश मंत्रालयस्य प्रवक्ता रणधीर-जायसवालः अकथयत् यत् सम्वादः आतङ्कवादश्च परस्परं नैव भवितुं शक्नुतः । सः प्रोक्तवान् यत् नवदिल्ली तेषां उल्लेखनीयानाम् आतंकवादिनां भारतप्रत्यार्पण-विषये चर्चायै सज्जम् अस्ति, येषां सूचिः कानिचन् वर्षाणि पूर्वं पाकिस्तानाय प्रदत्ता आसीत्। सः प्रोक्तवान् यत् जम्मू-कश्मीरस्य विषये कीदृशोऽपि द्वैपाक्षिक-सम्वादः केवलं पाकिस्तानेन अवैधरूपेण अधिगृहीतस्य भारतीय क्षेत्रस्य मुक्तिविषये एव भविष्यति । सिंधु जल संधिविषये, श्रीरणधीरः अकथयत् यत् एषा सन्धिः तावत् पर्यन्तं स्थगिता भविष्यति यावत् पाकिस्तानः विश्वसनीय-रूपेण अपरिवर्तनीय-रूपेण च सीम्न: पारं आतंकवादम् अधिकृत्य स्वकीयं समर्थनं च परित्यजति ।

सिंदूराभियानान्तर्गतं एकेन महत्वपूर्णेन पदक्षेपेन सर्वदलीय-प्रतिनिधिमंडलं टोक्यो-नगरे, संयुक्त अरब अमीरात इत्यत्र च अगच्छत्
हिमसंस्कृतवार्ता: – जदयूदलस्य सांसदः सञ्जयकुमारना इत्यस्य नेतृत्वे एकं बहुदलीय-प्रतिनिधिमंडलं टोक्यो-नगरे जापानस्य प्रमुख-विचारक-मण्डलेन सह वार्ता विहाय आतंकवादं विरुध्य भारतस्य शून्य-सहिष्णुतायाः विषये सूचनां प्रायच्छत्। स्वकीयायाः पञ्चदेशानां यात्रायाः प्रथमे चरणे टोक्योनगरं सम्प्राप्य प्रतिनिधिमंडलं राज्य-समर्थितं आतंकवादं समेत्य क्षेत्रीय-सुरक्षायाः विषये चर्चाम् अकरोत्। संवादात्मक-सत्रावधौ, प्रतिभागिभिः दुरापन्नतां विरुध्य भारतस्य युद्धम् अधिकृत्य दृढसमर्थनं व्यक्तीकृतम्। अस्मिन् एव मध्ये एकं भारतीय-सर्वदलीय प्रतिनिधिमण्डलं संयुक्त अरब अमीरात इत्यत्र अगच्छत् । एषः सिंदूराभियानान्तर्गतं एकः महत्वपूर्णः पदक्षेपः अस्ति।

विदेश-सचिवः विक्रम-मिसरी जापानस्य विदेश-प्रकरणानां उप-मंत्रिणा ताकेहिरो-फुनाकोशी इत्यनेन सह टोक्यो-नगरे मेलनम् अकरोत्।
हिमसंस्कृतवार्ता: – विदेश-सचिवः विक्रम-मिसरी जापानस्य विदेश-प्रकरणानां उप-मंत्रिणा ताकेहिरो-फुनाकोशी इत्यनेन सह टोक्यो-नगरे मेलनम् अकरोत्। विदेश-सचिव-उपमंत्रिणोः वार्तायां भागं भजता, श्रीमिसरी-वर्येण आतंकवादं विरुध्य भारतस्य शून्य-सहिष्णुतायाः संदेशः प्रदत्तः । चर्चायां भारत-जापानयोः मध्ये विशिष्ट-रणनीतिक-वैश्विक-सामञ्जस्यानां वरिवर्धनादि-विषयाः सम्मिलिताः आसन् । श्री-मिसरी-वर्यः जापानस्य वरिष्ठ उप-विदेश मंत्रिणा हिरोयुकी नमजु इत्यनेन सह अपि उपवेशनम् अकरोत् ।

ट्रम्पः दक्षिण आफ्रिकाराष्ट्रपतिना सह संघर्षं कृतवान्, श्वेतवर्णीयकृषकाणां नरसंहारस्य चलचित्रं दर्शितवान्, रामाफोसा तत् न अङ्गीकृतवान्
हिमसंस्कृतवार्ताः। दक्षिण आफ्रिकादेशस्य राष्ट्रपतिः सिरिल रामाफोसा, अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः च व्हाइट हाउस् इत्यत्र एकस्मिन् समागमे तयोर्मध्ये तनावपूर्णा स्थितिः उत्पन्ना। श्वेतभवने पत्रकाराणां सम्मुखे तयोः मध्ये उष्णविमर्शः अभवत्। दक्षिण आफ्रिकादेशे श्वेतवर्णीयकृषकाणां नरसंहारः क्रियते इति ट्रम्पः आरोपितवान् । ट्रम्पः दक्षिण आफ्रिकादेशे श्वेतवर्णीयानाम् आफ्रिकादेशस्य कृषकाणां विरुद्धं कथितं नरसंहारस्य पुष्टिं कृत्वा सभायां भ्रामकं चलचित्रं दर्शितवान्, केचन वार्तालेखाः च दर्शितवान्। अस्य कारणात् जनाः स्वसुरक्षायै दक्षिण आफ्रिकादेशात् पलायिताः सन्ति । तेषां भूमिः हरिता भवति, बहुषु च, ते हन्ति च।
तेनोक्तं यत् अस्य विरुद्धं रामाफोसां कार्याचरणं कर्तव्यम्, परन्तु रामाफोसा एतां पुष्टिं
न अङ्गीकृत्य नरसंहारस्य आरोपाः मिथ्या इति अवदत् । सः अवदत् यत् दक्षिण आफ्रिकासर्वकारस्य नीतिः नास्ति तथा च हिंसा सर्वेषां नागरिकानां कृते सामान्यसमस्या अस्ति, न केवलं श्वेतवर्णीयसमुदायस्य कृते। न केवलं श्वेतवर्णीयाः जनाः एव तत्र उत्पीडिताः भवन्ति।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

TAGGED: पाकिस्तान
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article 23/05/2025 विद्यालयप्रार्थनासभायां वाचनार्थं प्रमुखहिमाचलवार्ता: ।
Next Article 24/05/2025 विद्यालयप्रार्थनासभायां वाचनार्थं प्रमुखहिमाचलवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?