वार्ता:
1. उद्यानपालका: वाणिज्यमन्त्रिणा सह मिलित्वा तुर्कीदेशात् सेबफलस्य आयाते पूर्णप्रतिबन्धस्य आग्रहं कृतवन्तः।
2. हिमाचले पीएमश्री योजनाया: अन्तर्गतं १८० विद्यालयानां चयनम् राज्ये पीएमश्री योजनाया: अन्तर्गतं १८० विद्यालयानां चयनम् कृतमस्ति। एतेषु विद्यालयेषु राष्ट्रियशिक्षानीति-२०२० इत्यस्य प्रावधानानाम् अनुरूपं बालकानां समग्रविकासे विशेषं बलं प्रदीयते।
3. अद्य (शनिवासरे) हिमाचलप्रदेश प्राविधिकविश्वविद्यालयहमीरपुरे नवविषयेषु प्रवेशार्थं प्रवेशपरीक्षा भविष्यति। विश्वविद्यालयेन पूर्वं मईमासस्य १०, ११ (दश एकादश) च दिनाङ्कयो: प्रवेशपरीक्षा निर्धारिता आसीत्, परन्तु भारत-पाकिस्तानयोः मध्ये वर्धमानस्य सङ्घर्षकारणेन स्थगिता । तदनन्तरं मईमासस्य १७ दिनाङ्कः इति नूतना तिथिः निर्धारिता ।
4. हिमाचलप्रदेशस्य विद्यालयशिक्षाबोर्ड–इति राज्यस्य छात्रान् हिमाचलस्य इतिहासस्य विषयेऽपि अवबोधं कारयिष्यति। अस्य कृते पाठ्यक्रमस्य संशोधनं कृत्वा हिमाचलस्य इतिहासस्य विषयाः समाविष्टाः भविष्यन्ति। शिक्षामन्त्री रोहितठाकुरः धर्मशालायां हिमाचलप्रदेशविद्यालयशिक्षामण्डलस्य समीक्षासभायाः अनन्तरं पत्रकारवार्तायाम् एतत् उक्तवान्।