त्रिपुरायाः तपोवन-आश्रमे संस्कृतस्य चतुर्दिवसीय-अभ्यासवर्गः सम्पन्नः
हिमसंसकृतवार्ता, अगरतला । केन्द्रीयसंस्कृतविश्वविद्यालयस्य संस्कृताध्ययनकेन्द्रम् अगरतलायाः एवं संस्कृतभारती, सिपाहिजलाजनपदस्य द्वैतोद्योगेन तथा तपोवन-आश्रमस्य साहायेन गतः ९ मे, २०२५तः १२ मे २०२५पर्यन्तं सिपाहीजलाजनपदस्य गोकुलनगरे तपोवन-आश्रमे एकः चतुर्दिवसीय-संस्कृताभ्यासवर्गः सम्पन्नः। ९ मे, २०२५ इति दिनाङ्के वर्गस्यास्य उद्घाटनकार्यक्रमे अध्यक्षरूपेन उपस्थितमासीत् तपोवन-आश्रमस्य महाराजः श्री श्री सच्चिदानन्दपुरिवर्यः। तत्र इतोऽपि मुख्यातिथिरूपेण उपस्थितमासीत् कमलासागर-विधानसभायाः विधायिका श्रीमतिअन्तरादेवसरकारमहोदया, मुख्यवक्तृरूपेन उपस्थितम् आसीत् संस्कृतभारती पश्चिमत्रिपुराजनपदस्य अध्यक्षः श्रीमान् योगेशदेवनाथवर्यः, विशिष्टातिथिरूपेण समुपस्थितमासीत् विश्व-हिन्दू-परिषदः त्रिपुराप्रान्तस्य सङ्घटनमन्त्री श्रीमान् शचिकान्तपाण्डेजी, विशालगड सि. डाव्लिउ. सि. एइस्. इत्यस्याः अध्यक्षा सुमितारायश्च।
सम्पूर्णतया आवासीयरूपेन अनुस्थिते अस्मिन् अभ्यासवर्गे संस्कृताध्ययनकेन्द्रस्य तपोवन-आश्रमस्य च २० संख्यकाः शिक्षार्थिनः उपस्थितमासन्। शिक्षकत्वेन समुपस्थिताः आसन् संस्कृताध्ययनकेन्द्रं रामठाकुरमहाविद्यालयस्य शिक्षकः नयनज्योतिशर्मा, संस्कृतभारत्याः त्रिपुराप्रान्तस्य बालकेन्द्रप्रमुखा शीप्राघोषः, संस्कृतभारत्याः अगरतला-विभागमस्य संयोजकः राजुचक्रवर्तीमहोदयश्च। वर्गेस्मिन् वर्गाधिकारीरूपेन आसीत् तपोवन-आश्रमस्य महाराजः श्री श्री सच्चिदानन्दपुरिवर्यः तथा वर्गपोषकत्वेन दायित्वं नीतवान् श्रीमान् नयनज्योतिशर्मावर्यः। कार्यालयस्य दायित्वे सम्पूर्णवर्गे उपस्थितमासीत् संस्कृतभारती, सिपाहिजलाजनपदस्य संयोजकः लिटनपालः। सम्पूर्णवर्गस्य भोजन-निवासादि-व्यवस्थायाम् तपोवन-आश्रमस्य सम्पूर्णपरिवारस्य सहयोगमासीत्।
आश्रमस्य प्राकृतिकी एवम् आधुनिकीवातावरणे सञ्जातः अयम् अभ्यासवर्गं द्रष्टुं प्रतिदिनं समाजस्य विशिष्टजनानाम् आगमनम् अभवत् येन तेषु अनेकाः संस्कृतभाषां प्रति आकर्षितं भुत्वा आगामिकाले स्वकुटुम्वान् स्ववान्धवान् च संस्कृतभाषायाः प्रशिक्षणं प्रति प्रेषयितु सङ्कल्पम् अकुर्वन् । १२ मे, २०२५ दिनाङ्के सायङ्काले ६:००वादनतः अस्य वर्गस्य समापनकार्यक्रमः प्रारब्धः। कार्यक्रमेऽस्मिन् शिविरशिक्षार्थिभिः संस्कृतगीतानि नाटकं श्लोकानि च प्रदर्शितानि। तस्मिन् सभायाम् विशिष्टातिथिरूपेण उपस्थितमासन् सिपाहीजलाजनपदस्य जनपदः सभाधिपतिः सुश्री सुप्रीयादासदत्तः, मुख्यवक्तृरूपेन विशिष्टराष्ट्रसेवकः श्रीमान् रञ्जित-करः, प्रमुखः मार्गदर्शकः संस्कृतभारत्याः त्रिपुराप्रान्तस्य सङ्घटनमन्त्री श्रीमान् विक्रमविश्वासवर्यः, कमलासागरमण्डलसभापतिः काजलसरप्रभृतयः जनाः । समारोपकार्यक्रमे सभापते आसन्दमधिकरोत् तपोवन-आश्रमस्य महाराजः श्री श्री सच्चिदानन्दपुरिवर्यः। कमलासागर-विधानसभायाः विधायिका श्रीमतिअन्तरादेवसरकारमहोदयया समापनकार्यक्रमे श्रीमद्भगवद्गीतापुस्तकानामपि शिक्षार्थीनां कृते वितरणम् अकरोत्।आश्रमपरतया शिक्षकान् प्रति मानधनं वस्त्रं उत्तरीयं चित्रचिह्नञ्च प्रदत्तम्। एवं १३ दिनाङ्के प्रातः-काले सर्वे वर्गस्थानात् स्वगृहं प्रति प्रस्थानं कृतवन्तः। शिविरनिमित्तं संस्कृताध्ययनकेन्द्रस्य केचनशिक्षार्थिभिः मानधनैः अपि साहाय्यम् अकुर्वन्। विशेषतः साजिकस्तरे अस्य वर्गस्य प्रभावः विशेषरूपेण प्रतिफलितम् अभवत्।
त्रिपुरायाः तपोवन-आश्रमे संस्कृतस्य चतुर्दिवसीय-अभ्यासवर्गः सम्पन्नः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
