By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रीयवार्ताः- पाकिस्तानस्य हस्तयोः परमाणु अस्त्रं सुरक्षितं नास्ति,
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राष्ट्रीयवार्ताः- पाकिस्तानस्य हस्तयोः परमाणु अस्त्रं सुरक्षितं नास्ति,
राष्ट्रीयवार्ताः

राष्ट्रीयवार्ताः- पाकिस्तानस्य हस्तयोः परमाणु अस्त्रं सुरक्षितं नास्ति,

डॉ.अमनदीप शर्मा
Last updated: 2025/05/16 at 6:19 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
4 Min Read
SHARE

राष्ट्रीयवार्ताः- पाकिस्तानस्य हस्तयोः परमाणु अस्त्रं सुरक्षितं नास्ति,
आई.ए.ई.ए. इति ऊर्जाभिकरणेन एतत् स्वस्य निरीक्षणे स्वी-कर्तव्यम्-रक्षामन्त्री राजनाथसिंहः
हिमसंस्कृतवार्ता: – रक्षामन्त्री राजनाथसिंहः अवोचत् यत् सिन्दूराभियानं विगतेभ्यः दशकेभ्यः पाकिस्तानात् अथ पाकिस्तानाधिकृत-कश्मीरात् प्रसृतातङ्क-वादं विरुध्य भारतस्य कठोर-कार्याचरणं वर्तते। रक्षामन्त्री श्रीनगरे सैनिकान् सम्बोधयन् सिन्दूराभियानस्य सफलतायै भारतीयसेनायाः शौर्यं कुशलतापूर्वकं विहितं कार्याचरणं च श्लाघितवान्। अमुनोक्तं यत् राष्ट्रं तेषां शौर्ये स‌ङ्कल्पे समर्पणे च गौरवमनुभवति। रक्षामन्त्रिणा उक्तं यत् विश्वेन दृष्टं यत् कथं पाकिस्तानेन भारतं विरुध्य दायित्वरहितम् आचरणं विहितम्। तेनोक्तं यत् पाकिस्तानस्य हस्तयोः परमाणु अस्त्रं सुरक्षितम् नास्ति। अथ च पाकिस्तानस्य परमाणु अस्त्रं अन्ताराष्ट्रिय परमाणु ऊर्जाभिकरणेन स्वस्य निरीक्षणे स्वीकर्तव्यम्। अवधेयमस्ति यत् सिन्दूराभियानस्य आरम्भानन्तरं रक्षामन्त्रिणः राजनाथ सिंहस्य प्रथमेयं जम्मू-कश्मीर-यात्रा वर्तते। पहलगाम-स्थाने अप्रैल-मासस्य द्वाविंशतिः दिनांके दुरापन्नस्य आतङ्क्याक्रमणस्य प्रत्युत्तरे सिन्दूराभियानस्य अन्तर्गतं पाकिस्ताने अथ पाकिस्तानाधिकृत-कश्मीरे आङ्क-शिबिराणि लक्ष्यीकृतानि । अत्रावसरे राज्यपालः मनोजसिन्हा, मुख्यमन्त्री उमर-अब्दुल्ला सैन्यप्रमुखः जनरल-विपिन-द्विवेदी अन्ये च वरिष्ठा सैन्याधिकारिणः उपस्थिताः अवर्तन्त ।

विदेश-मन्त्रिणा डॉ. एस. जयशङ्करेण भारत-पाकिस्तानयोः मध्ये संवादाय कस्यापि तृतीय-पक्षस्य मध्यस्थता निराकृता
हिमसंस्कृतवार्ता: – विदेश-मन्त्रिणा डॉ. एस. जयश‌ङ्करेण भारत-पाकिस्तानयोः मध्ये संवादाय कस्यापि तृतीय-पक्षस्य मध्यस्थता निराकृता । तेन उक्तं यत् पाकिस्तानेन सह कस्मिन् अपि विषये संवादः केवलं द्विपक्षीयाधारेण एव भविष्यति। राजधान्यां नवदेहल्याम् एकस्मिन् वार्ताहर-सम्मेलने सम्बोधयन् विदेशमन्त्री अवोचत् यत् पाकिस्तानेन सह अवशिष्ट-विषयेषु केवलं तेनाधिकृत-भारतीय-कश्मीर-क्षेत्रस्य विमोचनम् एव वर्तते। विदेशमन्त्री सबलम् अवोचत् यत् वर्षेभ्यः अयं राष्ट्रिय सहमतेः विषयः वर्तते। भारतस्य दृष्टिकोणे किमपि परिवर्तनं नैव आगतम्। तेन उक्तं यत् पाकिस्तानेन सह संवादः केवलम् आतङ्वाद-विषये एव भविष्यति। मन्त्रिणा उक्तं यत् पाकिस्तानाय तेषाम् आतिङ्कनां सूचिः प्रदत्ता ये तेन भारताय समर्पणीयाः सन्ति। विदेशमन्त्री अवोचत् यत् सिन्धु जल सन्धिः तावत् स्थगिता भविष्यति यावत् पाकिस्तानं पारेसीम्नः आतङ्कवादे विश्वसनीयम् अवरोधं नैव स्थापष्यति।

राष्ट्रपतिः द्रौपदीमुर्मुः – सर्वोच्चन्यायालयेन राज्यपालेभ्यः समय-सीमा निर्धारिता भवितुं शक्यते न वा ?
हिमसंस्कृतवार्ता: – तमिलनाडु-विधेयक-प्रकरणे सर्वोच्चन्यायालयस्य निर्णयानन्तरं राष्ट्रपतिः द्रौपदी मुर्मुः न्यायालयात् प्रश्नान् अपृच्छत्। तयोक्तं यत् संविधाने निर्धारित-समय-सीमायाः व्यवस्था न विद्यते सत्यपि विधेयकानां स्वीकृतये राज्यपालेभ्यः समय-सीमा निर्धारिता भवितुं शक्यते न वा? संविधानस्य त्रिचत्वारिंशदुत्तरैकशततमस्य अनुच्छेदस्य प्रथम-भागस्य अन्तर्गतं राष्ट्रपतिं प्रति विधि-लोक-महत्वस्य विषयेषु सर्वोच्च न्यायालयस्य परामर्शाधिकारो वर्तते। राष्ट्रपतिना मुर्मु-वर्यया चतुर्दश-प्रश्नेषु न्यायालयस्य अभिमतं पृष्टम्। अस्मिन् उक्तं यत् संविधानस्य द्विशतम् एकोत्तर-द्विशतम् अनयोः अनुच्छेदयोः राज्यपालैः राष्ट्रपतिना च विधेयकानां स्वीकृतेः प्रक्रिया निर्धारिता विद्यते तस्याः अन्तर्गतं कस्याः अपि समय-सीमायाः विशेष-प्रक्रियायाः सम्बद्धावश्यकतानाम् उल्लेखो न वर्तते। शीर्ष-न्यायालयः प्रोक्तं यत् संविधानस्य द्विशतानुच्छेदस्य अन्तर्गतं यदा राज्यपालं प्रति विधेयकानुमोदनाय प्रेष्यते तदा तस्य पार्श्वे कः सांवैधानिकः विकल्पो भवति । एतदतिरिच्य इदमपि पृष्टं यत् यदि विधेयकेषु राज्यपालैः संविधानस्य अनुसारं स्वीकृतः निर्णयः न्यायसंगतः भवेत् तदा संविधानस्य एकषष्टधिकत्रिशतम् अनुच्छेदस्य अन्तर्गतं तेषां निर्णयेषु कदा न्यायिक-समीक्षा पूर्णता अवरोधुं शक्यते। राष्ट्रपतिना मुर्मु इत्यनया सर्वोच्च न्यायालयस्य तस्मिन् निर्देशे प्रश्नोत्थापितः यस्मिन् उक्तमस्ति यत् विधेयकेषु निर्धारितावधौ स्वीकृतिः न प्रदानस्य स्थितौ तत् विधेयकं स्वतः स्वीकृतम् इति मन्यते।

जम्मू-कश्मीरस्य पुलवामा जनपदस्य नादर-गांव इत्यत्र सुरक्षा-बलैः सह सङ्घर्षे त्रयः आतङ्कवादिनो व्यापादिताः
हिमसंस्कृतवार्ता: – जम्मू-कश्मीरस्य पुलवामा-जनपदस्य नादर-गांव इत्यत्र सुरक्षा-बलैः सह सङ्घर्षे त्रयः आतङ्कवादिनो व्यापादिताः। अयं सङ्घर्षः प्रातः एव आरब्धः। कश्मीरस्य आरक्षि महानिदेशकः वी.के.बिरदी इत्येषः अवोचत् यत् आभियानावधौ त्रयः आततायिनः व्यापादिताः। घटनास्थलात् तेषां शरीराणि गृहीतानि ।

भारतीय-सैन्य-बलेन मणिपुरे दशोग्रवादिनो व्यापादिताः
हिमसंस्कृतवार्ता: – भारतीय-सैन्य-बलेन मणिपुरस्य चन्देल जनपदे सन्दिग्धोग्रवाद-समूहस्य दश-सदस्याः व्यापादिताः। पूर्व-भागस्थेन सैन्यबलेन एकस्मिन् सामाजिक-सञ्चार-पटले प्रोक्तं यत् विशेष-गोपनीय-प्रतिवेदनाधारेण सैन्यदलेन क्षेत्रे एकम् अभियानम् आरब्धम्। अभियानावधौ उग्रवादिभिः सैन्यबले प्रहारो विहितः प्रत्युत्तरिते गोलिकाप्रहारे दशोग्रवादिनः व्यापादिताः। ततः सेनया बृहन्मात्रायाम् अस्त्राणि विस्फोटकानि च प्राप्तानि । इम्फाल-नगरात् अस्माकं वार्ताहरेण सूचित यत् कार्याचरणम् इदानीम् अपि प्रवर्तते।

खेलो इंडिया यूथ गेम्स इति युव-क्रीडा-महोत्सवस्य समापन समारोहः पटना नगरे अभवत्
हिमसंस्कृतवार्ता: – खेलो इंडिया यूथ गेम्स इति युवक्रीडामहोत्सवः सम्पन्नम् । समापनसमारोहः बिहारस्य पटना-नगरे कङ्‌ङ्कड़-बागस्थे पाटलिपुत्र-क्रीडा परिसरे अभवत् । अवधेयमस्ति यत् पदक-तालिकायां नवचत्वारिंशदुत्तरैकशतं पदकैः सह महाराष्ट्रं शीर्षस्थं वर्तते। सप्तोत्तरैकशतं पदकैः सह हरियाणा द्वितीये स्थाने पञ्च पञ्चाशत् पदकानि विजित्य राजस्थानं तृतीये स्थाने वर्तते। केन्द्रीय-युवप्रकरण-क्रीडा-राज्यमन्त्री रक्षा-निखिल-खड़से अथ बिहारस्य उपमुख्यन्त्री सम्राट-चौधरी अन्ये च गणमान्याः अस्मिन् समापन समारोहे उपस्थिताः अभवन् ।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article
Next Article त्रिपुरायाः तपोवन-आश्रमे संस्कृतस्य चतुर्दिवसीय-अभ्यासवर्गः सम्पन्नः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?