By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: भारतस्य सैन्यत्रयस्य प्रमुखैश्च च साकम् एकम् उच्च-स्तरीयम् उपवेशनम् अकरोत् प्रधानमन्त्री
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > भारतस्य सैन्यत्रयस्य प्रमुखैश्च च साकम् एकम् उच्च-स्तरीयम् उपवेशनम् अकरोत् प्रधानमन्त्री
संस्कृतगतिविधयः

भारतस्य सैन्यत्रयस्य प्रमुखैश्च च साकम् एकम् उच्च-स्तरीयम् उपवेशनम् अकरोत् प्रधानमन्त्री

डॉ.अमनदीप शर्मा
Last updated: 2025/05/12 at 6:24 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
3 Min Read
SHARE

भारतस्य सैन्यत्रयस्य प्रमुखैश्च च साकम् एकम् उच्च-स्तरीयम् उपवेशनम् अकरोत् प्रधानमन्त्री
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी नवदिल्लीस्थिते निजावासे एकम् उच्च-स्तरीयम् उपवेशनम् अकरोत्। अस्मिन् उपवेशने रक्षामन्त्री राजनाथसिंह:, विदेशमन्त्री सुब्रह्मण्यम-जयशङ्करः, राष्ट्रिय-सुरक्षा-परामर्शदः अजीत डोभालः, रक्षाप्रमुखः जनरल अनिल-चौहानः, थल-सेना-प्रमुखः जनरल उपेन्द्र द्विवेदी, नौसेना प्रमुखः एडमिरल दिनेश-त्रिपाठी, वायुसेना-प्रमुखः एयर चीफ मार्शल अमर प्रीत-सिंहः च उपस्थिताः अवर्तन्त। इदम् उपवेशनम् देशद्वयस्य सैन्याभियान-महानिदेशकयोः परस्पर-संवादस्य अनन्तरं सङ्घर्ष-विरामं निध्याय आसीत्। इतः पूर्वं विदेश-सचिवः विक्रम-मिस्त्री नवदिल्ल्यां वार्ताहरान् अवोचत् यत् भारतं पाकिस्तान-द्वारा सङ्घर्ष-विरामोल्लङ्घनं गभीरतया स्वीकरोति । तेनोक्तं यत् सशस्त्र-बलानि स्थितिम् निरीक्षन्ते। अथ च अन्ताराष्ट्रिय सीमया सह नियन्त्रण-रेखायामपि उल्लङ्घनस्य कस्याः अपि घटनायाः काठोर्येण समाधानस्य निर्देशाः तेभ्यः प्रदत्ताः।

सैन्यप्रमुखेण जनरल् उपेन्द्र-द्विवेदिना युद्धविरामस्य वायुक्षेत्रस्य च उल्लङ्घनस्य अनन्तरं पश्चिमसीम्नः सेनापतिभिः सह सुरक्षास्थितिः समीक्षिता
हिमसंस्कृतवार्ता: – सैन्यप्रमुखेण जनरल् उपेन्द्र-द्विवेदिना युद्धविरामस्य वायुक्षेत्रस्य च उल्लङ्घनस्य अनन्तरं पश्चिमसीम्नः सेनापतिभिः सह सुरक्षास्थितिः समीक्षिता। भारतीय-सेनायाः कथनमस्ति यत् सेनाप्रमुखेन डी.जी.एम.ओ स्तरीय वार्तायाः अनन्तरं प्रोक्तं कीदृशमपि उल्लङ्घने सति गतिक्षेत्रे प्रतिकारार्थं सेनापतयः पूर्णाधिकारैः सह स्वतन्त्राः सन्ति।

भारतीयवायुसेनया उक्तं यत्, सिन्दूराभियाने तस्यै चिह्नितानि कार्याणि, सटीकतया व्यावसायिकतया च सफलतापूर्वकं निष्पादितानि
हिमसंस्कृतवार्ता: – भारतीयवायुसेनया उक्तं यत्, सिन्दूराभियाने तस्यै चिह्नितानि कार्याणि, सटीकतया व्यावसायिकतया च सफलतापूर्वकं निष्पादितानि। सामाजिक-संचार-पटलेषु एकस्मिन् सन्देशे आई.ए.एफ् इत्यनेन उक्तं यत् राष्ट्रिय उद्देश्यानामनुरूपम् विचार-पूर्वकं विवेकपूर्वकं च कार्याणि संचालितानि। तत्रोक्तं यत् अद्यापि कार्याचरणं सम्पाद्यते। समये च विस्तृतं वृत्तान्तं प्रदास्यते। असत्यापित-सूचनानाम् अनुमानात् प्रसारणात् वा दूरेव तिष्ठन्तु इति सेनया सर्वेभ्यः आग्रहः कृतः ।

प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्रिय प्रौद्योगिकी दिवसावसरे शुभकामना प्रकटिता
हिमसंस्कृतवार्ता: – प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्रिय प्रौद्योगिकी दिवसावसरे शुभकामना प्रकटिता। एकस्मिन् सामाज-सञ्चार-सन्देशे प्रधानमन्त्रिणा उक्तं यत् एषः दिवसः देशस्य वैज्ञानिकानां प्रति गौरवं कृतज्ञतां च प्रकटयितुं अथ अष्टनवत्यधिक ऊनविंशतितमे वर्षे पोखरणपरीक्षणस्य स्मरणार्थं च आचर्यते। सः अवदत् यत् परमाणु परीक्षणं भारतस्य विकासपथि एका महत्त्वपूर्णा घटना आसीत्। विशेषतः देशस्य आत्मनिर्भरतायाः अन्वेषणदिशि।

रक्षामन्त्री राजनाथसिंहः लखनऊनगरे ब्रह्मोस एरोस्पेस्-एकीकरण-परीक्षण-सौविध्यस्य उद्घाटनम् अकरोत्
हिमसंस्कृतवार्ता: – रक्षामन्त्री राजनाथसिंहः उक्तवान् यत् सिन्दूराभियानं केवलं सैन्यकार्यं नैव अपितु भारतस्य राजनैतिक-सामाजिक रणनीतिकेच्छायाश्च प्रतीकम् अस्ति। गतदिवसे लखनऊनगरे ब्रह्मोस-एरोस्पेस्-एकीकरण-परीक्षण-सौविध्यस्यय उद्घाटनं कुर्वन् श्रीसिंहः अवदत् यत्, अभियानमिदम् आतङ्कवाद-विरुद्धं भारतस्य दृढ इच्छायाः, सैन्यशक्तेः क्षमतायाः दृढनिश्चयस्य च प्रदर्शनम् अस्ति। सः अवदत् यत् यदा कदापि भारतम् आतङ्कवादविरुद्धं किमपि कार्यं करोति तदा पारेसीम्नः भूमिरपि आतङ्कवादिभ्यः तेषां स्वामिभ्यश्व सुरक्षिता न भविष्यति। श्रीसिंहः अवदत् यत्, भारतीयसैनिकाः पाकिस्ताने आतङ्कवादीनां आधारभूत संरचनानां विनाशमुद्दिश्य सिन्दूराभियानम् आरब्धवन्तः, तत्रत्य नागरिकान् कदापि न लक्षितवन्तः। परञ्च पाकिस्तानं न केवलं भारतस्य नागरिक क्षेत्राणि अपितु मन्दिराणि, गुरुद्वाराणि, चर्चेति गिरिजागृहाणि च लक्षितवान् । सः अवदत् यत्, ब्राह्मोस एकीकरणस्य परीक्षण-सौविध्यस्य च उद्घाटनं भारतस्य रक्षा-पराक्रमम् अधिकं सुदृढीकर्तुं सहाय्यं करिष्यति । सः अवदत्, अस्य सौविध्यस्य उद्घाटनम् अपि महत्त्वपूर्णम् अस्ति यतोहि अद्य राष्ट्रिय-प्रौद्योगिकीदिवसः अस्ति। सः अवदत् यत् गतशताब्दस्य अष्टनवतितमे वर्षे अस्मिन्नेव दिने अटलबिहारी वाजपेयीवर्यस्य नेतृत्वे वैज्ञानिकाः पोखरणे परमाणुपरीक्षणं कृत्वा भारतस्य सामर्थ्य जगति प्रदर्शितवन्तः। रक्षामन्त्री अवदत्, तत् परीक्षणं वैज्ञानिकानां, अभियन्तृणां, रक्षाकर्मिणाम् अन्येषां च हितधारकाणां अथकप्रयत्नस्य परिणामः आसीत्। सः अवदत्, ब्रह्मोस् विश्वस्य द्रुततमेषु, अतिध्वनियुतेषु क्रूज-क्षेपास्त्रेषु अन्यतमः अस्ति । श्रीसिंहः अवदत्, एतत् केवलं शस्त्रं नैवास्ति अपितु सन्देशः अस्ति। भारतीयसशस्त्रसैन्य बलस्य सन्देशः, शत्रूणां प्रतिरोधस्य सन्देशः, सीम-संरक्षण-प्रतिबद्धतायाः सन्देशः चास्ति। रक्षामन्त्री उक्तवान्, अद्य भारतं विश्वस्य शक्तिशालिसु राष्ट्रेषु अन्यतमम् अस्ति।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

TAGGED: भारत
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article बॉबी देओल: रानी मुखर्जी च इत्येतयोः बिच्छू चलच्चित्रस्य ‘उत्तरकथा’ इत्यस्य निर्माणं भविष्यति
Next Article पाकिस्तानसेना, सर्वकारः च यथा आतङ्कवादं प्रोत्साहयन्ति, तथैव एकस्मिन् दिने तेषां नाशः भविष्यति-प्रधानमन्त्री मोदी
1 Comment 1 Comment
  • Tek Chand says:
    May 12, 2025 at 9:15 pm

    This is a very good application

    Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?