IPL 2025 – पाकिस्तानेन सह द्वन्द्वस्य क्रिकेटक्रीडायां किमपि प्रभावः न अभवत्, पञ्जाब- हरियाणा- सहितेभ्य: अन्येभ्यः राज्येभ्यः प्रेक्षकाः आगताः
हिमसंस्कृतवार्ता: – धर्मशाला।
पाकिस्तानेन सह प्रचलत: द्वन्द्वस्य मध्ये गुरुवासरे धर्मशालायां आईपीएल-क्रीडायाः उन्मादः न्यूनः न अभवत्। पञ्जाब- दिल्ली- दलयोः प्रतिस्पर्धार्थं पञ्जाब- हरियाणा- चण्डीगढ- जम्मूकश्मीरसहितानाम् अन्यराज्यानां प्रेक्षकाः धर्मशालानगरं प्राप्तवन्तः। समीपस्थदेशेन सह विवादं विमानप्रहारं च दृष्ट्वा हिमाचलपुलिससहिताः केन्द्रीयराज्यसुरक्षासंस्थाः सजगाः एव आसन्। सुरक्षादृष्ट्या शङ्कितानां कार्याणां निरीक्षणं कृतम्। तथैव क्रीडाङ्गणे अपि द्विस्तरीय- परीक्षणव्यवस्थायाः अनन्तरमेव प्रेक्षकेभ्य: प्रवेशः दत्तः। अस्मिन् प्रवेशद्वारस्य प्रथमबिन्दौ पुलिसकर्मचारिभिः प्रेक्षकाणां निरीक्षणं कृतं, द्वितीयबिन्दौ तु धातुविज्ञापकयन्त्रेण परीक्षितानां प्रेक्षकाणां प्रवेशः अनुमतः आसीत्।
क्रीडाया: आरम्भात् पूर्वं एनडीआरएफ- एसडीआरएफ इत्येतयो: अभ्यासः
धर्मशाला क्रिकेट-क्रीडाङ्गणे क्रीडायाः आरम्भात् पूर्वं आपत्काले आश्रय- उद्धार- व्यवस्थायाः निरीक्षणार्थम् अनुकृत-अभ्यासः अपि कृतः। अस्मिन् काले एनडीआरएफ, एसडीआरएफ इत्येतयोः दलयो: क्रीडाङ्गणे पूर्वाभ्यासः अभवत्। वर्तमानस्थितिं मनसि कृत्वा जिलाप्रशासनेन सर्वेषु पक्षेषु निकटतया निरीक्षणं कृतम्, हिमाचलपुलिसारक्षकानाम् अतिरिक्तं क्रीडाङ्गणे कमाण्डोः अपि नियोजिताः आसन्। तस्मिन् एव काले डीआइजी नॉर्थ रेन्ज अभिषेक दुल्लर: इत्यादयः पुलिस-अधिकारिणः अपि सम्पूर्णे क्रीडाङ्गणे सुरक्षा-स्थानानां निरीक्षणं कुर्वन्तः आसन्।
भ्रात:! पुनः पाकिस्तानस्य उपरि आक्रमणं कृतम्
भारतेन पाकिस्तानविरुद्धं क्रियमाणा कार्यविधि: गुरुवासरे पञ्जाब-दिल्ली-दलयोः मध्ये आईपीएलक्रीडां द्रष्टुं आगतानां प्रेक्षकाणां मध्ये अपि चर्चा अभवत्। पञ्जाबतः प्रेक्षकाः ये प्रतिस्पर्धां द्रष्टुम् आगताः आसन् ते चर्चां कुर्वन्ति स्म यत् नायकाः पुनः पाकिस्तानस्य उपरि आक्रमणं करिष्यन्ति, अधुना रावलपिण्डी-क्रीडाङ्गणे विस्फोटका: क्षिप्यन्ते। भारतेन क्रियमाणानां आक्रमणानां प्रतिक्रियां दातुं पाकिस्तानमपि प्रयतते इति अपि प्रेक्षकाणां मध्ये चर्चा अभवत्। सः अवदत् यत् पाकिस्तानं भारतस्य पुरतः किमपि नास्ति, अस्माकं भारतीयसेना तस्य योग्यम् उत्तरं कथं दातव्यम् इति सम्यक् जानाति। अपि च भारतेन पाकिस्तानविरुद्धं क्रियमाणायाः कार्यविधिविषये दर्शकाः निमेष- निमेष- सूचनाः प्राप्नुवन्ति स्म।