संस्कृतभारती,उज्जयिनी द्वारा अंबेडकरजयन्ती आचरिता
डॉ. दिनेश चौबे, उज्जयिनी (प्रेषक:)
भारतरत्न संस्कृतस्य प्रवलसमर्थकस्य बाबासाहेबभीमराव अंबेडकरवर्यस्य जयन्त्यवसरे संस्कृतभारती,उज्जयिनी, मालवा द्वारा अप्रैलमासस्य १४ तमे दिनांके भीमराव-जयन्त्युत्सवस्य आयोजनम् उज्जयिन्या: ग्रामीणक्षेत्रे कृतम् आसीत्। कार्यक्रमस्य आदौ संविधाननिर्माता अम्बेडकर-महोदयस्य चित्रोपरि मल्यार्पणं कृत्वा संस्कृतस्य प्रति तस्य योगदानस्य स्मरणं श्रद्धाजलि: च अर्पिता। कार्यक्रमे प्रान्तगीताशिक्षणप्रमुखः रमेशशुक्लवर्य:
,विभागसहसंयोजकः, अपूर्वपौराणिकवर्य:,
जनपदाध्यक्षः, रमेशनागरवर्य:, राकेशसोलंकी,विजयत्रिवेदी, हेमन्तशर्मा,बाबूलालबामनिया, कुमारदीपकः, कृपारामः,रतनसोलंकी,जितेंद्रशर्मा,गोपालसिंह:, सोहनलालः,गौरवपाराशरः एवं च वसत्याः जनाः उपस्थिताः आसन्।