उत्तराखण्डवार्ता-: चक्रवर्तीराजाभरतस्य जन्मस्थल्यां स्वयंसेवकै: स्वच्छताया: संकल्पः सेवाभियाने स्वीकृत:
हिमसंस्कृतवार्ता:- कुलदीपमैन्दोला। कण्वनगरी कोटद्वारम्।
यत्र दक्षिणे हिमालयस्य, उत्तरे च समुद्रस्य, अस्ति भारतवर्षम्, यत्र भारतीयाः वसन्ति। अद्य तस्मिन् पावने स्थले उपस्थिताः स्मः, यत्र हस्तिनापुरस्य राजा दुष्यन्तः शकुन्तलायाः च गन्धर्वविवाहानन्तरं भरतः जन्म लब्धवान्। कालान्तरे चक्रवर्तिन: राजान: भरतनाम्ना देशस्य नाम “भारतं” जातम्।
तत्र वेद-ऋचानां घोषैः गुंजायमानं विशुद्धं वातावरणम्, पवित्रस्य होमधूमेन व्याप्तः सघनवनः, विद्यार्थिनाम् अध्ययनक्रियाभिः संस्कृतयः सभ्यतायश्च संरक्षिताः। मालिनी-नद्याः उभयतटे लघ्वाश्रमाः दृश्यन्ते, यत्र ऋषिमुनयः परम्परागतरीत्या शिक्षाप्रदानं कुर्वन्ति। तत्रैव कण्वाश्रमगुरुकुले अद्यापि तादृशी शिक्षापद्धतिः दृश्यते।
कण्वाश्रमः उत्तराखण्डराज्यस्य गढ़वालजनपदे कोटद्वारक्षेत्रे शिवालिकपर्वतश्रेणौ स्थितः अस्ति। सः हेमकूट-मणिकूट-पर्वतयोः मध्ये स्थितः, पुरातात्त्विक- ऐतिहासिकदृष्ट्या महत्त्वपूर्णः पर्यटनस्थलः अस्ति। मालिनी-नद्याः तीरे घनवनानां मध्ये स्थितः अयम् आश्रमः पवित्रः एवं प्राचीनः इति मन्यते। अत्र ऋषिः कण्वः विश्वामित्रश्च ध्यानमभवताम्। कण्वाश्रमे वेदानां चत्वारः, व्याकरणं, छन्दः, निरुक्तं, ज्योतिषं, आयुर्वेदः, कर्मकाण्डश्च पाठ्यन्ते स्म।
वसन्तपञ्चमीपर्वणि, त्रिदिवसीयकण्वाश्रम- महोत्सवस्य समापनानन्तरं, अनेकैः राष्ट्रियसेवायोजनास्वयंसेवकैः, पर्यावरणमित्रैः, समाजसेविभिश्च सह वृहद-स्वच्छता-अभियानं सञ्चालितम्। तस्मिन् पवित्रक्षेत्रस्य स्वच्छतायै सर्वैः अमूल्यं योगदानं प्रदत्तम्।

महोत्सवसमितेः पदाधिकारीगणाः, एम.के.वी.एन. कलालघाटी कोटद्वारं, राजकीय- इंटर- कॉलेज- झंडीचौड़, कन्याविद्यालय- कलालघाटी कोटद्वारम् इत्येताभ्यः विद्यालयेभ्यः स्वयंसेवकाः, ग्रीन- आर्मी- देवभूमिः उत्तराखण्डः इत्यस्य सदस्याः च अस्मिन् अभियाने भागं गृहीतवन्तः।
अस्मिन् कार्यक्रमे, महोत्सवसमितेः अध्यक्षः कण्वाश्रमस्य ऐतिहासिक-पौराणिक-महत्त्वं स्वयंसेवकेभ्यः अवगतं कृतवान्। सः सर्वेभ्यः आवाहनं कृतवान्- स्वच्छताया: संकल्पः, सेवा अभियानम् इति स्वीकरणीयम्। इत्येतं ध्येयं पूरयित्वा, महोत्सवस्य समापनानन्तरं, पतितपावनी मालिनी-नद्याः तटे स्थितः एषः कण्वाश्रमः राष्ट्रीयधरोहरः अस्ति अतः सर्वे आगन्तुकाः स्वच्छतायाः विशेषं ध्यानं कुर्वन्तु। प्लास्टिक-कच्रं च न क्षिपन्तु। अस्माकं गौरवविषयं मलिनीकृत्य शर्मयन्तु मा। अस्मिन् स्वच्छताभियाने राष्ट्रीयसेवायोजनाकार्यक्रमाधिकारी नीतेशवर्य: (एम. के. वी. एन. कलालघाटी कोटद्वारं), ऋतुसिंह:, भावना पाण्डेय: (राजकीय- कन्या- इंटर- कॉलेज- कलालघाटी- कोटद्वारं), ग्रीन- आर्मी- देवभूमेः अध्यक्षः शिवम नेगी, महोत्सवसमितेः अध्यक्षः राजगौरवनौटियाल:, सहसंयोजकौ वीरेंद्रभारद्वाज:, जगमोहनरावत:, सदस्याः मोहितकंडवाल:, आशुनेगी, मनीषभट्ट:, जगतरामडबराल:, राजेंद्रप्रसाद:, शशिकांतजोशी, प्रमोदजोशी, विजयप्रकाश: ध्यानी, रजनीशबेबनी, आशीषरौतेला, गौरवरावत: इत्येते पर्यावरणमित्राः स्वयंसेवकाः च उपस्थिताः आसन्।
उत्तराखण्डवार्ता-: चक्रवर्तीराजाभरतस्य जन्मस्थल्यां स्वयंसेवकै: स्वच्छताया: संकल्पः सेवाभियाने स्वीकृत:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
