By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : पूर्व-प्रधानमन्त्रिणः डॉ. मनमोहनसिंहस्य अंतिमसंस्कारः दिल्ल्याः निगम-बोध-घाटे पूर्ण-राजकीय-सम्मानेन सम्पन्नः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > National News : पूर्व-प्रधानमन्त्रिणः डॉ. मनमोहनसिंहस्य अंतिमसंस्कारः दिल्ल्याः निगम-बोध-घाटे पूर्ण-राजकीय-सम्मानेन सम्पन्नः
दिवसविशेषःप्रादेशिकवार्ताराष्ट्रीयवार्ताः

National News : पूर्व-प्रधानमन्त्रिणः डॉ. मनमोहनसिंहस्य अंतिमसंस्कारः दिल्ल्याः निगम-बोध-घाटे पूर्ण-राजकीय-सम्मानेन सम्पन्नः

डॉ मनोज शैल
Last updated: 2024/12/29 at 6:35 AM
डॉ मनोज शैल
Share
4 Min Read
SHARE

National News : पूर्व-प्रधानमन्त्रिणः डॉ. मनमोहनसिंहस्य अंतिमसंस्कारः दिल्ल्याः निगम-बोध-घाटे पूर्ण-राजकीय-सम्मानेन सम्पन्नः

 

हिमसंस्कृतवार्ताः। पूर्व-प्रधानमन्त्रिणे डॉ. मनमोहनसिंहाय नवदिल्ल्यां निगम-बोध-घाट-स्थले पूर्ण-राजकीय-सम्मानेन श्रद्धाञ्जलिः समर्पिता। सिख-ग्रन्थिभिः, डॉ. मनमोहन सिंहस्य परिजनैश्च अन्तिम संस्कारात् प्राक् गुरबानी-पाठं कृतम्। औपचारिक-सम्मानानन्तरं राष्ट्रपतिना द्रौपदी मुर्मु, उप-राष्ट्रपतिना जगदीप धनखड़ेन, प्रधानमन्त्रिणा नरेन्द्र मोदिना, केन्द्रीय-मन्त्रिणा राजनाथ सिंहेन, अमितशाहेन, जगतप्रकाश-नड्डा, लोकसभाध्यक्षेण ओम-बिड़ला वर्येण डॉ. सिंहाय श्रद्धाकुसुमानि समर्पितानि। एतदतिरिच्य कांग्रेसाध्यक्षेण मल्लिकार्जुनखरगे, सोनिया गान्धिनं, राहुल गान्धिनं समेत्य कांग्रेस-दलीय नेतृभिः तस्मै श्रद्धाञ्जलिः अर्पिता। थलसेना प्रमुखेण जनरल-उपेन्द्र द्विवेदी-नौसेना प्रमुखेण अमरप्रीत सिंहेन, भूटान-नरेशेन जिग्मे-खेसर-नामग्याल-वांगचुक, मॉरीशस-विदेश-मन्त्रिणा धनंजय-रामफलेनापि डॉ. सिंहाय श्रद्धाञ्जलिः समर्पिता। पूर्व-प्रधानमन्त्रिणः मनमोहन सिंहस्य बृहस्पतिवासरं नवदिल्ल्यां निधनं जातम्। असौ द्विनवतिः वर्षीयः आसीत्, अथ दीर्घ-समयात् च रूग्णः आसीत्।

 

डॉ.मनमोहनसिंहस्य भविष्यति स्मारकम्

गृहमन्त्रालयेन प्रतिपादितं यत् प्रशासनं पूर्व-प्रधानमन्त्रिणः डॉ. मनमोहनसिंहाय स्मारकं विनिर्मातुं भूमिः आवंटविष्यति। एकस्मिन् वक्तव्ये मन्त्रालयेनोक्तं यत् प्रशासनं प्रकरणेऽस्मिन् कांग्रेस अध्यक्ष-मल्लिकार्जुन खरगे पक्षतः अनुरोधः अधिगतः। मन्त्रालयेन प्रकाशितं यत् केन्द्रीय-मन्त्रिमण्डलस्य उपवेशाननन्तरं गृहमन्त्रिणा अमित-शाहेन, श्री खरगेण च डॉ. मनमोहनसिंहस्य परिवारं एतदर्थं सूचितम्।

पूर्वप्रधानमन्त्रिणं मनमोहनसिंहम् उचितसम्मानं प्रदानाय पूर्णतया प्रतिबद्धः अस्ति केन्द्रसर्वकारः- सुधांशुत्रिवेदी

भाजपेति दलस्य सांसदः प्रवक्ता च सुधांशु त्रिवेदी उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वस्य भाजपा- एनडीए संयुतेः सर्वकारः देशस्य आर्थिकविकासस्य आधारशिलासंस्थापकं पूर्वप्रधानमन्त्रिणं मनमोहनसिंहम् उचितसम्मानं प्रदानाय पूर्णतया प्रतिबद्धः अस्ति। डॉ. सिंहस्य स्मारक-स्थलाय स्थानाबन्टनस्य प्रकरणे श्रीत्रिवेदिना उक्तं यत् केन्द्रिय मन्त्रिमण्डलेन ह्यः जाते उपवेशने निर्णयः कृतः यत् पूर्वप्रधानमन्त्रिणः स्मृतौ एकस्य स्मारकस्य निर्माणं भविष्यति, सूचनैषा कांग्रेसदलाय अपि प्रदत्तास्ति।

 

पालघर-रेलर्घटनाः-रेलयानेन संघट्टानात् जनद्वयं मृतम्

हिमसंस्कृतवार्ताः। महाराष्ट्रे विगतरात्रौ पालघर-रेल स्थानकं निकषा रेलयानेन संघट्टानात् जनद्वयं मृतम्। एकः अन्यश्च गंभीर-रूपेण व्रणितो जातः । त्रयः एव जनाः यदा रेल-यात्रापथं पारितुमुद्यताः आसन्, तदौ एव जयपुर-सुपर-फास्ट-एक्सप्रेस-रेलयानं पट्टिकोपरि समागतम्। मृतकौ जनौ भ्रातारौ आस्ताम्। तृतीयः जनः उपचाराधीनो वर्तते।

 

मध्य-प्रदेशे ओला-वृष्टिः अनुमानः-भारतीय-ऋतु-विज्ञान-विभागः

हिमसंस्कृतवार्ताः। भारतीय-ऋतु-विज्ञान-विभागेन मध्य-प्रदेशे ओला-वृष्टिः अनुमानः अभिव्यक्तः। पञ्जाब-हरियाणा-चण्डीगढ़, उत्तर प्रदेश-राजस्थाने च वृष्टेः सम्भावना प्रकटिता। ऋतुविभागेन विदर्भ-महाराष्ट्र-गुजरात-सदृशेषु क्षेत्रेषु यथावत् स्थितिः अनुमानिता। राजस्थान-हिमाचल प्रदेश-पञ्जाब-हरियाणा-चण्डीगढ़-उत्तर प्रदेशे च आगामि दिवसेषु भीषण- कुञ्झिटिका अनुमानिता।

 

राष्ट्रिय-महिला-आयोगः-अन्ना-विश्वविद्यालये कथित-यौनोत्पीड़न- घटनायाः अन्वीक्षणाय समितिरेका संरचिता

हिमसंस्कृतवार्ताः। राष्ट्रिय-महिला-आयोगस्य अध्यक्षया विजयारहाटकरण चैन्नईनगरस्य अन्ना-विश्वविद्यालये कथित-यौनोत्पीड़न- घटनायाः अन्वीक्षणाय समितिरेका संरचिता। आयोगेन एकस्मिन् वक्तव्ये सूचितं यत् द्वि-सदस्यतात्मीकायाः समित्याः अस्याः संरचनं परिस्थिनां अन्वीक्षणाय सञ्जातम्। समितिः प्रकरणे अस्मिन् सम्बद्ध-अधिकारिभिः, पीडित पारिवारिक-जन मित्र प्रशासनतराधिकारिभिस्साकं विचार-विमर्शोऽपिविधास्यति ।

 

अद्य आकाशवाण्याः भविष्यति मन की बात कार्यक्रमः

हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरद्रमोदी अद्य आकाशवाण्याः ‘मन की बात’ इत्यस्मिन् कार्यक्रमे जनैः सह स्वविचारान् विनिमय-करिष्यति। द मासिक-रडियो-कार्यक्रमस्य सप्तदशाधिकं एकशततमं संस्करणं भविष्यति। कार्यक्रमस्य प्रसारणम् आकाशवाण्यां, दूरदर्शन AIR News व फलक, Newsonair इति दूरभाष-तन्त्रांशे च भविष्यति। अयं कार्यक्रमः आकाशवाणी-दूरदर्शन-प्रधानमन्त्री कार्यालय-सूचनाप्रसारण-मन्त्रालयानां यूट्यूब- वाहिनीष्वपि द्रष्टुं शक्यते। हिन्दी प्रसारणानन्तरं क्षेत्रीयभाषासु च अस्य कार्यक्रमस्य प्रसारणं भविष्यति ।

 

सूर्य-किरण इति नामधेये सैन्याभ्यासे भागं गृहीतुं भारतीयदलं नेपालं प्रस्थितम्

हिमसंस्कृतवार्ताः। भारतीय-सैन्यदलमद्य अष्टमीय-बटालियन-स्तरीय-संयुक्त सैन्याभ्यास सूर्य-किरण इति नामधेये भागं गृहीतुं प्रस्थितम्। दलेऽस्मिन् चतुस्त्रिंशदुत्तरत्रिशत-सैनिकाः समाविष्टाः सन्ति। अभ्यासस्यास्य आयोजनं नेपालस्य सलझंडी- नगरे दिसम्बर मासस्य अन्तिम-दिवसादारभ्य आगामि-मासस्य जनवरी त्रयोदश दिनाङ्कं यावत् प्रचलिष्याति। रक्षा- मन्त्रालयेन वक्तव्ये एकस्मिन् प्रतिपादितं यत् अभ्यासोऽयं वनक्षेत्रेषु पर्वतेषु आतंकरोधिगतिविधयः अपाकर्तुं पूर्ण- प्रतिबद्धः भविष्यति। मन्त्रालयेनोक्तं यत् अभ्यासः अयं भारत-नेपालयोर्मध्ये मित्रता-विश्वास-सांस्कृतिक-सम्बन्धाः च दृढ़यिष्याति ।

 

देशे प्रायः 963.11 मेट्रिकटन परिमितं यावत् कृष्णाङ्गारस्य आपूर्तिः कृता अस्ति।

हिमसंस्कृतवार्ताः। भारतेन त्रयोविंशत्यधिकद्विसहस्र-चतुर्विंशत्यधिकद्विसहस्रतमवर्षयोः अधुनापर्यन्तं सर्वाधिकं कृष्णाङ्गारोत्पादनं कृतम्। त्रयोविंशत्यधिकद्विसहस्र-चतुर्विंशत्यधिक द्विसहस्रतम वर्षयोः अखिले हि भारते कृष्णा‌ङ्गारस्य उत्पादनं सप्तनवत्यधिक नवशत दशमलव षड्विंशत्यधिक अष्टशतं मिलियन टन परिमितम् आसीत्, तत्रैव विगतवर्षे त्रिणवत्यधिकाष्टशतदशमलव-एक -नवत्यधिकैकशतं मिलियनटनपरिमितम् आसीत् यस्मिन् प्रायः एकादशदशमलवएकसप्ततिः प्रतिशतं यावत् वृद्धिः जाता। कृष्णाङ्गारमन्त्रालयेन सूचितं यत् देशेन अस्य मासस्य पञ्चदशदिनाङ्कपर्यन्तं देशे प्रायः त्रिषष्ठ्युत्तर नवशत-दशमलव-एकादश-मेट्रिकटन परिमितं यावत् कृष्णाङ्गारस्यआपूर्तिः कृता अस्ति।

 

 

You Might Also Like

भारतीयज्ञानपरम्परायां महाशिवरात्रिपर्व आध्यात्मिकं वैज्ञानिकं च दृष्टिकोणम्-डॉ. खुशेन्द्रदेवचतुर्वेदी

आधुनिकभारतदेशस्य निर्माणे स्वामीदयानन्दस्य योगदानम्

संसदस्य बजट-सत्रस्य प्रथमचरणस्य समापनम्

देहल्यां सेवातीर्थपरिसरस्य उद्घाटनं कृतं प्रधानमन्त्रिणा

सरोजिनीनायडूमहोदयाया: व्यक्तित्वं कृतित्वं च (जयंतीविशेष:)

TAGGED: \हिमाचल के आज के समाचार, cmo himachal Pradesh. HP News, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, Himsanskrit news, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, Himsanskritvarta, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, देश विदेश की ताजा खबरें, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल समाचार, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HPRCA Hamirpur : हिमाचलप्रदेश- राज्यचयन- आयोगे नववर्षे जीविकाया: अवसरः, ८० पदकूटसंख्यायां १४२३ पदानि पूरयिष्यन्ते।
Next Article Online संस्कृतशिक्षणम् आमुखपटले जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?