By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कांगड़ाया: सर्वाणि शक्तिपीठानि वंदेभारतरेलयानेन सम्बद्धानि भवेयु: – डॉ राजीव: भारद्वाज:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > कांगड़ाया: सर्वाणि शक्तिपीठानि वंदेभारतरेलयानेन सम्बद्धानि भवेयु: – डॉ राजीव: भारद्वाज:
हिमाचलवार्ता

कांगड़ाया: सर्वाणि शक्तिपीठानि वंदेभारतरेलयानेन सम्बद्धानि भवेयु: – डॉ राजीव: भारद्वाज:

डॉ मनोज शैल
Last updated: 2024/12/05 at 9:30 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

कांगड़ाया: सर्वाणि शक्तिपीठानि वंदेभारतरेलयानेन सम्बद्धानि भवेयु: – डॉ राजीव: भारद्वाज:

हिमसंस्कृतवार्ता: – धर्मशाला।

काङ्गड़ासंसदीयक्षेत्रस्य सांसद: डॉ. राजीव: भारद्वाजः संसदि रेलसंशोधनविधेयकं २०२४ विषये वदन् काङ्गड़ामण्डलस्य सर्वाणि शक्तिपीठानि वंदेभारतरेलयानेन सह सम्बद्धानि भवेयुः इति आग्रहं कृतवान्। विधेयकस्य समर्थने वदन् सः अवदत् यत् सम्प्रति वन्देभारत-रेलयानं दिल्लीतः अम्ब- अन्दौरापर्यन्तं गच्छति, केवलम् एकं पर्वतं खनित्वा काङ्गड़ामण्डलस्य अन्यानि धार्मिकस्थानानि बृजवेश्वरीदेवी, ज्वालाजी, चामुण्डादेवी एतानि शक्तिपीठानि च वन्देभारतरेलयानेन सह सम्बद्धानि भविष्यन्ति। एतेन देशस्य विदेशेभ्यः च भक्तानां पर्यटकानां च सुविधा भविष्यति। लोकसभायां वदन् सः अवदत् यत् धर्मशाला अन्ताराष्ट्रीय- पर्यटनस्थलं यत्र तिब्बतीधर्मनेता दलाईलामा निवसति, एतदतिरिक्तं डलसरोवर: इत्यादीनि पर्यटनस्थानानि सन्ति यत्र विश्वस्य सर्वेभ्यः जनाः भ्रमणार्थम् आगच्छन्ति। धर्मशालापर्यन्तं वंदेभारतरेलयानस्य चालनेन क्षेत्रं समृद्धं भविष्यति, रोजगारस्य अवसराः च वर्धन्ते इति उक्तवान्। सः अवदत् यत् काङ्गड़ामण्डलं सम्बद्धीकरोति एकमात्ररेलमार्गः अधिकतया बाधित: भवति। अतः एतद् पठानकोट- जोगिन्दरनगर-रेलमार्गं व्यापकमापकं कर्तुमपि आग्रहं कृतवान्। अस्य रेलमार्गस्य व्यापकमापनार्थम् अन्तिमभौतिकसर्वेक्षणस्य केन्द्रसर्वकारस्य निर्णयस्य स्वागतं कृतवान्। सः अवदत् यत् डलहौजी, चम्बा, खज्जियार इत्यादीनि अन्ताराष्ट्रीयपर्यटनस्थानानि काङ्गड़ा लोकसभाक्षेत्रस्य अन्तर्गतानि आगच्छन्ति, चम्बा- करवस्त्रस्य, चौगानस्य, स्थालिका: च विश्वप्रसिद्धाः सन्ति किन्तु इदं क्षेत्रम् अद्यापि रेलजालेन सह न सम्बद्धः इति अवदत्। सः आगामिनि रेलबजटे चम्बानगरं पठानकोटनगरेण रेलमार्गेण सम्बद्धं कर्तुं अनुरोधं कृतवान्। सः अस्मिन् अधिनियमे रेलवेमण्डलस्य भूमिकां वर्धयितुं स्वागतं कृतवान्, अनेन रोजगारस्य अवसराः वर्धयिष्यन्ति इति च अवदत्। कवच-रेलयानस्य चालनार्थं रेलमन्त्रिणः प्रशंसाम् अकरोत्, एतेन यात्रिकाणां सुरक्षायाः प्रति रेलवे-प्रतिबद्धतां दर्शयति इति च अवदत्। विगतदशवर्षेषु रेलविद्युत्करणे प्राप्तानां असाधारणानां उपलब्धीनां कृते रेलमन्त्रिण: अभिनन्दनं धन्यवादं च दत्तवान्।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, Kangra News, Rajiv Bhardwaj, कांगड़ा के समाचार, कांगड़ा मन्दिर, कांगड़ा समाचार, दिव्य हिमाचल समाचार, राजीव भारद्वाज, संसद सत्र, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP NEWS : हिमाचले २२ उद्योगाः अनुमोदिताः, ९२१ जना: जीविकां प्राप्स्यन्ति
Next Article CM Sukhu : अन्ताराष्ट्रीयक्रीडकानां सम्मानम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?