By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Shimla News : – आन्दोलनरतै: व्यावसायिकशिक्षकै: सह मिलितवान् मन्त्री विक्रमादित्यः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Shimla News : – आन्दोलनरतै: व्यावसायिकशिक्षकै: सह मिलितवान् मन्त्री विक्रमादित्यः
हिमाचलवार्ता

Shimla News : – आन्दोलनरतै: व्यावसायिकशिक्षकै: सह मिलितवान् मन्त्री विक्रमादित्यः

डॉ मनोज शैल
Last updated: 2024/11/11 at 10:00 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

Shimla News : – आन्दोलनरतै: व्यावसायिकशिक्षकै: सह मिलितवान् मन्त्री विक्रमादित्यः, मन्त्रिमण्डले तेषां याचनानाम् उत्थापनस्य आश्वासनं दत्तवान्

 

हिमसंस्कृतवार्ता: – शिमला।

व्यावसायिकशिक्षकाणां विषयः मन्त्रिमण्डले उत्थापितः भविष्यति। लोकनिर्माणमन्त्री विक्रमादित्यसिंहः सोमवासरे चौडा़ मैदानं गत्वा आन्दोलनरतै: शिक्षकै: मिलित्वा एतत् आश्वासनं दत्तवान्। राजधानी शिमलानगरस्य चौड़ामैदाने सोमवासरे व्यावसायिकशिक्षकाणां प्रदर्शनं अष्टमदिनं यावत् अचलत्। लोकनिर्माणमन्त्री विक्रमादित्यसिंह: चौडामैदानं गत्वा शिक्षकान् मिलितवान्। शिक्षका: तस्य समक्षं स्वप्रार्थना: प्रस्तुतवन्त:। मन्त्री विक्रमादित्यसिंहः शिक्षकाणां कृते सर्वसम्भवसहकार्यस्य आश्वासनं दत्तवान्। मन्त्रिमण्डलसभायां व्यावसायिकशिक्षकाणां विषयः उत्थापितः भविष्यति इति सः अवदत्। तेषां आग्रहाणां पूर्तये यथाशक्ति प्रयत्नः क्रियते।

अपरपक्षे मंगलवासरे शिक्षामन्त्री रोहितठाकुरः अपि व्यावसायिकशिक्षकान् वार्तालापार्थं आहूतवान्। गतसप्ताहे समग्रशिक्षायाः परियोजनानिदेशकेन राजेशशर्मा इत्यनेन सह शिक्षकानां समागमः अभवत्। अस्मिन् विषये सहमतिः नासीत् । शिक्षकाः केवलं मन्त्रिणा रोहितठाकुरेण सह मेलितुं तटस्था: आसन्। व्यावसायिकशिक्षकाः निजीकम्पनीनां निष्कासनं कृत्वा हरियाणापङ्क्तौ नीतिं निर्मातुं आग्रहं कुर्वन्ति। शिक्षकाः अपि अवशिष्टस्य वेतनस्य शीघ्रं मुक्तिं कर्तुं आग्रहं कुर्वन्ति। राजधानी शिमलानगरस्य चौड़ामैदाने प्रदर्शनस्य कारणेन विद्यालयेषु व्यावसायिकशिक्षा सर्वथा स्थगिता अस्ति। व्यावसायिकशिक्षकसङ्घस्य अध्यक्ष: अश्वनीढटवालिया इत्यनेन उक्तं यत् विगतेभ्य: वर्षेभ्यः शिक्षकाः नवमीतः द्वादशीकक्षापर्यन्तं छात्रान् पाठयन्ति। राज्ये व्यावसायिकशिक्षां प्राप्यमाणानां छात्राणां संख्या अपि निरन्तरं वर्धमाना अस्ति। एतादृशे सति सर्वकारेण अपि एतस्य विषयस्य सहानुभूतिपूर्वकं विचारः करणीयः।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, Shimla News, दिव्य हिमाचल समाचार, शिमला समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article ट्रम्पेन टॉम-होमनः सीमा-निर्वासन-नीति-मुख्यत्वेन नियुक्तः
Next Article International Lavi Fair: अन्ताराष्ट्रीय- लवीमेलापकस्य राज्यपालेन कृतमुद्घाटनम्
1 Comment 1 Comment
  • रवि कुमार says:
    November 19, 2024 at 3:04 pm

    प्रसंशनीयोsयमध्यवसाय:।
    वयमनुमोदामहे।

    Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?