By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : लाओस-देशस्य द्वि-दिवसीय यात्रायां गमिष्यति प्रधानमन्त्री
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > National News : लाओस-देशस्य द्वि-दिवसीय यात्रायां गमिष्यति प्रधानमन्त्री
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताः

National News : लाओस-देशस्य द्वि-दिवसीय यात्रायां गमिष्यति प्रधानमन्त्री

डॉ मनोज शैल
Last updated: 2024/10/10 at 7:44 AM
डॉ मनोज शैल
Share
6 Min Read
SHARE

National News :

लाओस-देशस्य द्वि-दिवसीय यात्रायां गमिष्यति प्रधानमन्त्री

हिमसंस्कृतवार्ताः। प्रधानमन्त्री-नरेन्द्र मोदी अद्य लाओस-देशस्य द्वि-दिवसीय यात्रायां गमिष्यति। विदेश- मन्त्रालयस्य सचिवः जयदीप-मजूमदारः नव-दिल्ल्यां वार्ताहार-सम्मेलनं सम्बोधयन् प्रोक्तवान् यत् यात्रावधौ श्रीमोदी विंशति-तम आसियान-भारत-शिखर सम्मेलने, नवदशतम पूर्वी एशिया- शिखर सम्मेलने च सहभागं करिष्यति। श्री मजूमदारः सूचितवान् यत् आसियान-भारत-शिखर- सम्मेलने प्रधानमन्त्री उपस्थितः भविष्यति। तेन प्रोक्तं यत् प्रधानमन्त्री-मोदी लाओस-देशस्य प्रधानमन्त्रिणः सोनेक्से-सिफंडोन वर्यस्य आमन्त्रणे लाओस् यात्रां करिष्यति। श्री मजूमदारः अवदत् यत् प्रधानमन्त्री-मोदी अन्यैः आसियान-राष्ट्रप्रमुखैः सह भारत-आसियान् देशयोः मध्ये द्विपक्षीय विषयेषु चर्चाम् अपि करिष्यति।

 

 

महाराष्ट्रे ७६०० कोटिः रुप्यकाणां विकासात्मकपरियोजनानामाधारशिलां स्थापितवान् प्रधानमन्त्री

हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्र मोदी वीडियो कॉन्फ्रेंसिंग इति दृश्याङ्कन-माध्यमेन महाराष्ट्र षड्- शतोत्तर-सप्त-सहस्र-कोटि-रूप्यकाधिक-विकास- परियोजनानाम् आधारशिलां स्थापितवान्। नागपुरे डॉ. बाबासाहेब अम्बेडकर अन्ताराष्ट्रिय-विमान-पत्तनस्य उन्नयनं शिरडी विमान-पत्तने च नूतन- एकीकृत-टर्मिनल इति भवनस्य निर्माणम् एतासु परियोजनासु सम्मिलितः। प्रधानमन्त्री समेभ्यः अल्पमूल्ये सुलभ-स्वास्थ्य-सेवा-वर्धनोद्देश्येन मुम्बई- नासिक-जालना- अमरावती-गढ़चिरौली-बुलढाणा-वाशिम-भंडारा-हिंगोली-ठाणे-जनपदस्य अम्बरनाथ-स्थलेषु सर्वकारीय-चिकित्सा-महाविद्यालयानाम् उद्घाटनं कृतवान्। श्रीमोदी उद्योग-क्षेत्राय सन्नद्धं कार्यबलं निर्मातुम् उद्देश्येन भारतीय-कौशल-संस्थान- आईआईएस, मुंबई इत्यस्य अपि उद्घाटन् अकरोत्। एतत् संस्थानं सार्वजनिक-निजी- सहभागितादर्शस्य अन्तर्गतं स्थापितं टाटा-एजुकेशन-एंड-डेवलपमेंट ट्रस्ट इत्यस्य सहयोगेन मेकाट्रानिक्स, कृत्रिम बुद्धिमत्ता, डेटा एनालिटिक्स, औद्योगिकस्वचालन, रोबोटिक्स चेति अत्याधिक-विशिष्ट-क्षेत्रेषु प्रशिक्षणं प्रदातुं योजनां निर्माति । प्रधानमन्त्री मोदी विद्या-समीक्षा-केन्द्रस्य अपि उद्घाटनं कृतवान्। येन छात्रेभ्यः शिक्षकेभ्यः प्रशासकेभ्यश्व स्मार्ट उपस्थिति स्वाध्याय सदृश लाइव चैट बॉट इत्यस्य माध्यमेन महत्वपूर्ण- शैक्षणिक-प्रशासनिक-विवरणं यावत् गति-प्रदानस्य आशा विद्यते।

 

आयुर्वेदक्षेत्रे उद्यममानां स्थापनां प्रति युवानं प्रोत्साहयितुं च बलं प्रदत्तवती राष्ट्रपतिः द्रौपदी मुर्मुः

हिमसंस्कृतवार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः देशे पारम्परिक औषधानाम् उपलब्धता वर्धितुम् आयुर्वेदक्षेत्रे उद्यममानां स्थापनां प्रति युवानं प्रोत्साहयितुं च बलं प्रदत्तवती। अद्य नवदिल्ल्याम् अखिल भारतीय- आयुर्वेद-संस्थानस्य अष्टम-स्थापनादिवस-समारोहस्य उद्घाटनावसरे राष्ट्रपतिना उक्तं यत् आयुर्वेदः सदैव जनानां जीवनस्य अभिन्न अङ्ग अवर्तत्। तया उक्तं यत् केचन जनाः भ्रामक- विज्ञापनानि छद्म औषध-वर्धनेन च जनान् पीडयन्ति। एतादृशान् विरूध्य कठोर-कार्याचरणस्य आह्वानं कुर्वती राष्ट्रपतिः उक्तवती यत् देशे योग्यानाम् आयुर्वेद-चिकित्साकानाम् आवश्यकता वर्तते। येन जनाः अयोग्य-चिकित्सकेभ्यः परामर्श न स्वीकुर्युः। राष्ट्रपतिः द्रौपदी मुर्मुः अवोचत् यत् विगतेषु कतिपय-वर्षेषु आयुर्वेद-महाविद्यालयेषु प्रवेशार्थिनां संख्यायां वृद्धिः जाता। तया विश्वासः प्रकटितः यत् आगामि दिनेषु आयुर्वेद-चिकित्सकानां सङ्ख्यायाम् उल्लेखनीया वृद्धिः भविष्यति।

अत्रावसरे राष्ट्रपतिः नवाचारोद्यमिता संस्थानस्य इन्क्यूबेशन सेंटर इत्यस्य प्रशंसाम् अकरोत्। अस्मिन् अवसरे राष्ट्रपतिना शाश्वत आयुष प्रदर्शिन्याः आयुष औषध-केन्द्रस्य च उद्घाटनमपि कृतम्। कार्यक्रमे अस्मिन् केन्द्रीय आयुषमन्त्री प्रतापराव जाधवः दिल्ल्याः उपराज्यपालः विनय- कुमार-सक्सेना च उपस्थितौ अवर्तताम्।

 

भारतीय-रिजर्व-बैङ्क इत्यनेन कुशीद-दरे परिवर्तनं नैव कर्तुं निर्णयः स्वीकृतः

हिमसंस्कृतवार्ताः। भारतीय-रिजर्व-बैङ्केन अनवरतं दशमवारं कुशीद-दरे परिवर्तनं नैव कर्तुं निर्णयः स्वीकृतः। निक्षेपमितिः षड् दशमलव पञ्च- प्रतिशतन्मिता एव अनुवर्तिता। रिजर्व बैंकेन स्थायी सङ्ग्रह- सौविध्यं षड् दशमलव द्वि-पञ्च प्रतिशन्मितम् सीमान्त स्थायी सौविध्यम् अथ च बैङ्क दरः षड् दशमलव सप्त पञ्च प्रतिशन्मितम् अनुवर्तितम् । रिजर्व बैङ्कस्य मौद्रिक नीति-समित्या विकासे ध्यानकेन्द्रितं कर्तुं मुद्रास्फीतिं च लक्ष्यान्तर्गतं मौद्रिक नीतिम् ‘तटस्थ’ कर्तुं निर्णयः स्वीकृतः। रिजर्व-बैङ्केन एकस्मिन् वक्तव्ये उक्तं यत् ऐषमः वित्तीय वर्षस्य प्रथम त्रैमासिक्यां वास्तविक-सकल-गृह्योत्पादे षड् दशमलव सप्त प्रतिशन्मिता वृद्धिः जाता। या हि निवेश-प्रेरिता वर्तते।

 

हरियाणायां भाजपेति दलस्य तृतीयवारं प्रशासन विरचनस्य गतिविधयः तीव्रीभूताः

हिमसंस्कृतवार्ताः। हरियाणायां भाजपेति दलस्य विजयानन्तरं तत्र तृतीयवारं प्रशासन विरचनस्य गतिविधयः तीव्रीभूताः। अस्मिन् निर्वाचने कार्यवाहक मुख्यमन्त्री नायबसिंहसैनी भाजपादलस्य मुख्यमन्त्रि प्रत्याशित्वेन अवर्तत। निर्वाचन प्रचारस्य समये गृहमन्त्रिणा अमितशाहेन घोषणा कृतासीत् यदि हरियाणायां भाजपादलं विजयं प्राप्स्यति चेत् नायबसिंहसैनी मुख्यमन्त्री भविष्यति। नायब-सिंहेन मुख्यमन्त्री पदस्य प्रश्नोत्तरे उक्तं यत्-अयं निर्णयः संसदीय बोर्ड अथ विधायकदलं करिष्यति। अत्रान्तरे भाजपा-हरियाणाया प्रदेशाध्यक्षः मोहनसिंहः नवदिल्ल्यां प्रधानमन्त्रिणा सह मेलनम् अकरोत्। सूत्राणाम् अनुसारम् प्रशासन-विरचनस्य शपथ ग्रहणस्य च चर्चा अभवत्। अवधेयं यत् भाजपादलेन हरियाणाविधानसभा निर्वाचने नवतिः आसनेषु द्विचत्वारिंशत् आसनानि विजितानि ।

 

दिल्ली-उच्च-न्यायालयेन राहुल गांधी वर्यस्य नागरिकतां निरस्तुम् याचिकायां श्रवणं स्थगितम्

हिमसंस्कृतवार्ताः। दिल्ली-उच्च-न्यायालयेन कांग्रेस-दलस्य नेतुः राहुल गांधी वर्यस्य नागरिकतां निरस्तुम् याचिकायां श्रवणं स्थगितम्। याचिकायां स्वयमेव ब्रिटिश नागरिकः इति घोषितः राहुल-गांधी इत्यस्य भारतीय-नागरिकतां निरस्तुं गृहमन्त्रालयं प्रति निर्देशः प्रेषितः। मुख्य-न्यायाधीशस्य मनमोहनस्य नेतृत्वपीठः प्रकरणस्य वादश्रवणं नवम्बर-मासस्य षड् दिनाङ्के करिष्यति।

 

केन्द्रीयमन्त्रिमण्डलेन एनीमिया इत्यस्य समाधानाय पोषणयुक्त तण्डुलानाम् आपूर्तेः निर्णयः स्वीकृतः

हिमसंस्कृतवार्ताः। केन्द्रीयमन्त्रिमण्डलेन एनीमिया इत्यस्य समाधानाय सूक्ष्मपोषकतत्वानां न्यूनतां अपाकर्तुम् च पोषणयुक्त तण्डुलानाम् आपूर्तेः निर्णयः स्वीकृतः। राजधान्यां नवदिल्ल्यां वार्ताहरान् सम्बोधयन् सूचनाप्रसारण-मन्त्री अश्विनी वैष्णवः अवोचत् यत् अयं हि समवेत- विकासं पोषणसुरक्षां प्रति च एकः महत्त्वपूर्ण पदक्षेपः वर्तते। तेनोक्तं यत् अस्यां योजनायां सप्तदश सहस्रकोटि-रूप्यकाणां व्ययः भविष्यति। विकास भी विरासत भी इति उपक्रमस्य विषये अश्विनी वैष्णवः अवोचत् यत् भारतस्य समृद्धं सामुद्रिकं रिक्थं वर्तते। तस्य संरक्षणस्य विकासस्य च आवश्यकता विद्यते। तेनोक्तं यत् प्रशासनेन गुजरातस्य लोथल-स्थले राष्ट्रिय- सामुद्रिक रिक्थ-संकुलकेन्द्रम् अनुमतम् । तेनोक्तं यत् प्रधानमन्त्री नरेन्द्र मोदी देशस्य सीमक्षेत्रेषु आधारभूत-संरचना विकासे बलं प्रददाति। अस्यान्तर्गतं प्रशासनेन पञ्जाब राजस्थानयोः सीमवर्ति-क्षेत्रेषु अशीत्युत्तरद्विशत् कीलोमीटर परिमितस्य मार्गस्य निर्माणम् अपि अनुमतम्।

 

दिवङ्गतः टाटा सन्स् इत्यस्य अध्यक्षः रतनटाटा महोदयः

मुम्बई – प्रसिद्धः उद्योगपतिः टाटा सन्स् इत्यस्य अध्यक्षः एमेरिटस् च पद्मविभूषणरतन-एन टाटा इत्यस्य ८६ वर्षे गतरात्रौ मुम्बईनगरे निधनं जातम्। श्री टाटा इत्यस्य जन्म १९३७ तमे वर्षे दिसेम्बर् मासस्य २८ दिनाङ्के अभवत् । अत्र अधिसूचिते वक्तव्ये एतां सूचनां दत्त्वा टाटा सन्स् अध्यक्षः एन चन्द्रसेकरनः अवदत् यत्, “अतिदुःखेन वयं टाटामहोदयस्य विदां कुर्मः, यः यथार्थतया असाधारणः नेता आसीत्, यस्य अतुलनीययोगदानेन न केवलं टाटासमूहस्य अपितु अस्माकं राष्ट्रस्य पटस्य आकारं अपि कृतवान्” इति । सः अवदत् यत् टाटामहोदयः टाटासमूहस्य अध्यक्षापेक्षया बहु अधिकः अस्ति। सः अवदत्, “मम कृते सः गुरुः, मार्गदर्शकः, मित्रं च आसीत् । सः उदाहरणेन प्रेरितवान्। “उत्कृष्टतायाः, अखण्डतायाः, नवीनतायाः च अचञ्चलप्रतिबद्धतायाः सह तस्य नेतृत्वे टाटा-समूहः स्वस्य नैतिकमानकानां प्रति सदैव सत्यं स्थित्वा स्वस्य वैश्विकपदचिह्नस्य विस्तारं कृतवान्।”.

 

You Might Also Like

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

शिक्षा-मन्त्रिणा धर्मेंद्र-प्रधानेन ‘टीचर ऐप 2.0’ इत्यस्य शुभारम्भः कृतः

गृह-मन्त्रालयेन नूतना राष्ट्रियातङ्कवाद-विरोधी नीतिः ‘प्रहार’ इति अनावरिता

गुयाना-देशस्य उपराष्ट्रमन्त्रिणा भरत-जगदेवेन उपराष्ट्रमन्त्रिणा सी.पी. राधाकृष्णन् महोदयेन सह मेलनं कृतम्

TAGGED: Himachal news, himsanskritnews headlines, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HPCM : हिमाचलप्रदेशः पर्वतीयराज्यानां एकीकरणं करिष्यति
Next Article Himachal News : हिमाचलस्य प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?