Himachal Bye Election: २,५९,३४० मतदातारः मतदानं करिष्यन्ति, देहरायां १,८२६, हमीरपुरे १,१७३, नालागढे च ९२४ सेवामतदातारः
हिमसंस्कृतवार्ता: – शिमला।
देहरा- हमीरपुर- नालागढ़विधानसभाक्षेत्राणाम् उपनिर्वाचने आहत्य २५५४१७ सामान्यमतदातार: ३९२३ सेवामतदातारः मतदानं करिष्यन्ति। त्रिषु विधानसभाक्षेत्रेषु उपनिर्वाचनार्थं निर्मितायां नवीनतममतदातासूचौ २५९३४० मतदातॄणां नामानि समाविष्टानि सन्ति। राज्यस्य मुख्यनिर्वाचनाधिकारिणा मनीषगर्गेण सूचनां यच्छन् उक्तं यत् नालागढ़विधानसभाक्षेत्रे सर्वाधिका: ९३८३१, देहरायां ८४६९४, हमीरपुरे च ७६८९२ सामान्यमतदातार: सन्ति। तथैव देहरायां सर्वाधिका: १८२६ हमीरपुरे ११७४ नालागढ़े च ९२४ सेवामतदातार: सन्ति। त्रयोऽपि विधानसभाक्षेत्रेषु ६५२३ मतदातारः १८ तः १९ वर्षपर्यन्तम् आयुवर्गे सन्ति। ८५ वर्षाणाम् उपरि आयुवर्गस्य संख्या ३३३४, शताब्दीमतदातॄणां संख्या ७२, विकलाङ्गमतदातॄणां संख्या २३९० च अस्ति। सः अवदत् यत् आगामिविधानसभा उपनिर्वाचनार्थं तिसृस्वपि विधानसभाक्षेत्रेषु ८५ वर्षाणाम् उपरि १५७६ मतदातारः, ४२३ विकलाङ्गमतदातारः च फार्म १२ डी मार्गेण गृहमतदानार्थम् आवेदनं कृतवन्तः। सः अवदत् यत् आगामिनां उपनिर्वाचनानां कृते आहत्य ३१५ मतदानकेन्द्रेषु नालागढे १२१, देहरानगरे १००, हमीरपुरे ९४ केन्द्राणि स्थापितानि भविष्यन्ति।