By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal Tourism : मनाली पर्यटकैः परिपूर्णा, कुल्लुनगरे कक्षं अन्विष्यमाणाः पर्यटकाः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal Tourism : मनाली पर्यटकैः परिपूर्णा, कुल्लुनगरे कक्षं अन्विष्यमाणाः पर्यटकाः
हिमाचलवार्ता

Himachal Tourism : मनाली पर्यटकैः परिपूर्णा, कुल्लुनगरे कक्षं अन्विष्यमाणाः पर्यटकाः

डॉ.अमनदीप शर्मा
Last updated: 2024/06/01 at 5:06 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

Himachal Tourism : मनाली पर्यटकैः परिपूर्णा, कुल्लुनगरे कक्षं अन्विष्यमाणाः पर्यटकाः
हिमसंस्कृतवार्ता- मनाली। समतलक्षेत्रेषु तप्ततापस्य, तापतरङ्गस्य च मध्ये पर्यटकाः पर्वतीयक्षेत्राणि प्रति गच्छन्ति। सप्ताहान्ते मनालीनगरस्य अतिथिगृहाणि पूर्णानि भवन्ति। पर्यटननिगमस्य अतिथिगृहाणि अपि पूर्णानि सन्ति। अधुना पर्यटकाः कुल्लु-नगरं प्रति गतवन्तः। कुल्लुनगरे पर्यटकाः अतिथिगृहाणि आरक्षितं कुर्वन्ति। कुल्लू-नगरस्य अतिथिगृहेषु अपि ५० तः ६० प्रतिशतं यावत् कक्ष्याः आरक्षिता: क्रियन्ते। सामान्यतया पर्यटकाः अत्र न्यूनाः तिष्ठन्ति। पर्यटन-ऋतुतः पूर्वं कुल्लूनगरस्य होटलेषु २० तः २५ प्रतिशतं यावत् कक्ष्याः एव आरक्षिता: भवन्ति।
अधिकांशः पर्यटकाः मनालीं, कसोलं मणिकर्णं प्रति गच्छन्ति। अधुना पर्यटनस्थलेषु होटेलानां आरक्षणस्य कारणात् कुल्लुनगरस्य होटेलानां भाग्यं सुदृढं जातम्। केचन पर्यटकाः मनालीनगरं प्राप्तुं पूर्वमपि कुल्लुनगरे स्थातुं योजनां कुर्वन्ति, केचन तु पूर्णदिनं मनालीनगरे भ्रमणं कृत्वा रात्रौ कुल्लुनगरे एव स्थातुं योजनां कुर्वन्ति कसोल्-मणिकर्ण-क्षेत्रेषु अपि कक्षेषु अग्रिम-आरक्षणं क्रियते। उष्णतायाः आश्रयं प्राप्तुं भारतात् विदेशेभ्यः च पर्यटकाः कुल्लू-मनाली-नगरस्य शीतल-उपत्यका: द्रष्टुं आगच्छन्ति।
अद्यत्वे कुल्लू-मनाली-नगरस्य पर्यटनस्थलेषु पर्यटनमेला आयोज्यते। अटल-कन्दरामार्गेण, रोहताङ्गस्य मार्गेण अपि शतशः पर्यटकाः लाहौलस्य उपत्यका: द्रष्टुं गच्छन्ति। समतलक्षेत्रेषु यथा तापतरङ्गः प्रचलति तस्य कारणात् जूनमासे कुल्लू-मनाली-नगरम् आगच्छन्तानां पर्यटकानां संख्या अधिका वर्धते इति अपेक्षा अस्ति। पर्यटकानां जनसमूहं दृष्ट्वा कुल्लूमण्डलस्य पर्यटनव्यापारिणः निःश्वासं गृहीतवन्तः।

होटलेषु आरक्षणं वर्धमानम् अस्ति
कुल्लूनगरात् प्रायः द्विकिलोमीटर दूरे स्थिते राष्ट्रियराजमार्गे-३ कुल्लू-मनाली इत्यत्र स्थितस्य होटेलसरयालस्य निदेशकः विशालशर्मा अवदत् यत् होटल-आरक्षणं वर्धमानम् अस्ति। सप्ताहान्ते अतिथिगृहाणि आरक्षितं भवन्ति। पर्यटन-ऋतुमध्ये पर्यटकाः कक्ष्याः पृच्छन्ति।

You Might Also Like

चालानस्य स्थाने एव ‘रियल-टाइम’-अङ्कीय-भुक्ति:, ‘एचआरटीसी’-संस्थायै लप्स्यन्ते १५०० विद्युत्-बस-यानानि — मुख्यमन्त्री सुक्खू

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

एशियाई-क्रीडायाः स्वर्ण-विजेतृभ्यः कन्याभ्यः राजकीय-सेवा प्रत्येकं च एक-कोटि-रूप्यकाणां पुरस्कारः

राजकीय-उच्च-विद्यालय-धारस्य छात्रः अभिनवराणा देशे विद्यालयस्य नाम उज्ज्वलीकृतवान्

रेणुकाक्षेत्रे दशवर्षान्तरं भूयः व्याघ्रस्य गर्जनं श्रुतम्, अक्तूबरमासस्य द्वितीयादिनादारभ्य पयर्टकाः द्रष्टुं शक्ष्यन्ति

TAGGED: HIMACHAL TOURISM, मनाली
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article विश्व-तम्बाकू-निषेध-दिवसः
Next Article विश्वस्य सर्वोच्च- मतदानकेन्द्रम्- जलस्य, जीविकाया: च कृते संघर्षं कुर्वन् हिमालयस्य लघुग्राम: टशीगङ्ग:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?