HP Election: लोकसभायै एकेन, विधानसभा उपनिर्वाचनार्थं च चतुर्भि: नामाङ्कनं पूरितम्
हिमसंस्कृतवार्ता:- शिमला ।
हिमाचले भाव्य- लोकसभानिर्वाचनस्य, विधानसभाया: उपनिर्वाचनस्य च नामाङ्कनं करणस्य प्रक्रिया आरब्धा अस्ति। बुधवासरे नामनिर्देशस्य द्वितीयदिने एकः अभ्यर्थी संसदीयक्षेत्रेभ्यः नामाङ्कनं कृतवान्, उपनिर्वाचनार्थं चत्वारः अभ्यर्थिनः नामाङ्कनं पूरितवन्तः। अस्य विषये सूचनां दत्त्वा निर्वाचनविभागस्य प्रवक्ता अवदत् यत् लाहौल-स्पीतितः अनुराधा (31) पुत्री रोशनलाल:, ग्राम रंगचा, पत्रालय: कोक्सर, तहसील लाहौल तथा अनिलकुमार: (53) पुत्रः स्वयमराम:, ग्राम तथा पत्रालय: मालंग:, तहसील लाहौलम् जिला लाहौल-स्पीति: भारतीयराष्ट्रीयकांग्रेसस्य प्रत्याशित्वेन नामांकनं कृतवन्तौ। एतदतिरिक्तं गगरेटविधानसभायै मनोहरलाल: (44) पुत्र: मुल्कराज: ग्राम: पत्रालयश्च डंगोहखास:, तहसील घनारी, जिला ऊना निर्दलीय-प्रत्याशित्वेन नामांकनं कृतवान्। धर्मशाला- विधानसभाक्षेत्रात् सतीशकुमार: (36) पुत्र: किशोरीलाल: ग्राम: बलेहड़: पत्रालय: टंगनरवाणा तहसील धर्मशाला जिला कांगड़ा निर्दलीयरूपेण नामांकनम् अकरोत्।
निर्वाचनविभागस्य प्रवक्ता अवदत् यत् मंडीसंसदीयक्षेत्राय बहुजनसमाजपार्टी इत्यस्य प्रत्याशीरुपेण प्रकाशचन्द भारद्वाज: सुपुत्र: सैनराम:, ग्राम: गधयानी, पत्रालय: रखोह:, तहसील: सरकाघाटम् जिला मण्डी नामांकनं पूरितवान्। सः अवदत् यत् नामाङ्कनस्य द्वितीयदिने काङ्गड़ा, हमीरपुर- शिमला- संसदीयक्षेत्रेषु कोऽपि नामाङ्कनं नाभवत्। तथैव कुटलहैड़- बड़सर- सुजानपुरक्षेत्रेषु भवितुम् उपनिर्वाचनेषु कोऽपि नामाङ्कनं न जातम्।