By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Lok Sabha Election 2024 : हिमाचले लोकसभानिर्वाचनस्य, विधानसभा- उपनिर्वाचनस्य च नामाङ्कनप्रक्रिया आरब्धा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > Lok Sabha Election 2024 : हिमाचले लोकसभानिर्वाचनस्य, विधानसभा- उपनिर्वाचनस्य च नामाङ्कनप्रक्रिया आरब्धा
राजनैतिकवार्ताहिमाचलवार्ता

Lok Sabha Election 2024 : हिमाचले लोकसभानिर्वाचनस्य, विधानसभा- उपनिर्वाचनस्य च नामाङ्कनप्रक्रिया आरब्धा

डॉ मनोज शैल
Last updated: 2024/05/08 at 9:29 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Lok Sabha Election 2024 : हिमाचले लोकसभानिर्वाचनस्य, विधानसभा- उपनिर्वाचनस्य च नामाङ्कनप्रक्रिया आरब्धा

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

हिमाचलप्रदेशे जूनमासस्य प्रथमदिनाङ्के भवितुं शक्नुवन्तः लोकसभायाः उपनिर्वाचनानां च कृते मंगलवासरे अधिसूचना निर्गता अस्ति। अनेन सह राज्ये नामाङ्कनप्रक्रिया आरब्धा अस्ति। नामाङ्कनस्य अन्तिमा तिथिः मई १४ इति निर्धारिता अस्ति। नामाङ्कनपत्राणां निरीक्षणं मई १५ दिनाङ्के (बुधवासरे) प्रातः ११:०० वादने भविष्यति। तदनन्तरं कोऽपि अभ्यर्थी मई १७ दिनाङ्के अपराह्णे ३:०० वादनात् पूर्वं नामाङ्कनं निवृत्त्यर्थं आवेदनं कर्तुं शक्नोति।  जूनमासस्य प्रथमदिनाङ्के शनिवासरे प्रातः ७:०० वादनतः सायं ६:०० वादनपर्यन्तं मतदानं भविष्यति। नामाङ्कनस्य प्रथमदिने निर्दलीय: प्रत्याशी रमेशचन्दसारथी हमीरपुरसंसदीयनिर्वाचनक्षेत्रात् नामांकनपत्रं प्रस्तुतवान्। रमेशचन्द सारथी ऊनामण्डलस्य तहसीलभरवाईं ग्रामगिन्दपुरस्य निवासी अस्ति। तत्रैव शिमलासंसदीयक्षेत्रात् बहुजन- समाज- पार्टी- इत्यस्य प्रत्याशी अनिलकुमार: मंगेट: निर्वाचनाधिकारिण: समक्षं नामाङ्कनं कृतवान्। अस्मिन् काले निर्वाचनाधिकारिणा अनिलकुमारमङ्गेटाय निर्वाचनसम्बद्धं शपथमपि प्रदत्तम्।  

नामाङ्कनस्य आरम्भमात्रेण प्रचारभियानं गतिं प्राप्स्यति

हिमाचलप्रदेशे निर्वाचनप्रचारस्य गतिः भविष्यति यतः भाजपा-काङ्ग्रेस-अभ्यर्थीनां नामाङ्कनपत्रं ९ मईतः आरभ्यते। ९ मई दिनाङ्के विक्रमादित्यसिंहः मण्डीनगरे, आनन्दशर्मा च काङ्गड़ानगरे नामाङ्कनं दास्यत:। हमीरपुरस्य सतपालरायजादा १० दिनाङ्के, विनोदसुल्तानपुरी च १३ मई दिनाङ्के शिमलाक्षेत्रात् नामाङ्कनं  करिष्यत:। अस्मिन् कालखण्डे मुख्यमन्त्री सुखविन्दरसिंहसुक्खु:, उपमुख्यमन्त्री मुकेश अग्निहोत्री, राज्यकाङ्ग्रेसाध्यक्षा प्रतिभासिंह अपि प्रत्येकस्मिन् संसदीयक्षेत्रे उपस्थिताः भविष्यन्ति। नामाङ्कनपत्राणि प्रवेश्य प्रत्येकस्मिन् संसदीयासने काङ्ग्रेसद्वारा निर्वाचनजनसभाः भविष्यन्ति।

कांगड़ात: भाजपाप्रत्याशी राजीव भारद्वाज: १० दिनाङ्के, हमीरपुरे अनुरागठाकुर, शिमलायां सुरेशकश्यप: च १३ दिनाङ्के  नामांकनं करिष्यत:।  कङ्गनारणौत मई १४ दिनाङ्के मण्डीनगरे नामाङ्कनपत्रं प्रस्तौस्यति। भाजपादलमपि नामांकनस्य दिने जनसभानामायोजनं करिष्यति। उभे राजनैतिकदले अपि नामाङ्कनानन्तरं स्वशक्तिं दर्शयितुं निर्वाचनजनसभासु स्वबृहत्नेतृन् आहूतुं सज्जे स्तः। अपरपक्षे उभयोः दलयोः अभ्यर्थिनः विधानसभा- उपनिर्वाचनार्थं नामाङ्कनपत्राणि दातुं तिथयः निर्धारयितुं व्यस्ताः सन्ति।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, HP Election, HP NEWS, Lok Sabha Election, लोकसभा चुनाव, लोकसभा चुनाव 2024, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Board 10th Result: दशमीकक्षाया: परिणामे अपि शीर्षस्थाने बालिकानां वर्चस्वम् राजकीयकन्याविद्यालयस्य नादौनस्य रिद्धिमा प्रथमं स्थानं प्राप्नोत्
Next Article Pong Dam: गोवातः न्यूनः नास्ति पौंगजलबन्धः- ओंकारशर्मा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?