By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Lok Sabha Election 2024- भाजपायाः निर्देशकः सम्यक् नास्ति, जूनमासस्य प्रथमे दिने पूर्णतः असफलं भविष्यति चलचित्रम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > Lok Sabha Election 2024- भाजपायाः निर्देशकः सम्यक् नास्ति, जूनमासस्य प्रथमे दिने पूर्णतः असफलं भविष्यति चलचित्रम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
राजनैतिकवार्ताहिमाचलवार्ता

Lok Sabha Election 2024- भाजपायाः निर्देशकः सम्यक् नास्ति, जूनमासस्य प्रथमे दिने पूर्णतः असफलं भविष्यति चलचित्रम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

डॉ मनोज शैल
Last updated: 2024/05/04 at 9:16 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Lok Sabha Election 2024- भाजपायाः निर्देशकः सम्यक् नास्ति, जूनमासस्य प्रथमे दिने पूर्णतः असफलं भविष्यति चलचित्रम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

लोकसभानिर्वाचनसमये (२०२४) भाजपाद्वारा एषा पटकथा लिखिता अस्ति। अस्य निर्देशनं जयरामठाकुरेण क्रियते। यत्र कङ्गना संवादं वदति। परन्तु, कियत् अपि उत्तमं चलचित्रं भवतु, यदि तस्य निर्देशकः सम्यक् नास्ति तर्हि चलचित्रं पूर्णतः असफलं भवति। इदं चलचित्रं जूनमासस्य प्रथमदिनाङ्के अपि असफलं भविष्यति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः चम्बाजनपदस्य पाङ्गी- उपत्यकाया: मुख्यालये किलाड़े जनान् सम्बोधयन् एवम् उक्तवान्।

आपदि भाजपायाः एकोऽपि दिग्गजः अग्रे न आगतः

मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना उक्तं यत् राज्ये आपदि बालकाः अपि स्वधनकोषै: सह आपदाप्रबन्धने साहाय्यं कर्तुम् आगच्छन्ति स्म। परन्तु, भाजपायाः एतादृशः एकोऽपि दिग्गजः अग्रे न आगतः। प्रत्युत ते सभासत्रम् आहूय कथयन्ति स्म। यदा मण्डी- कुल्लू- जनपदयोः आपदा अभवत् तदा अस्माकं सर्वकारेण प्रभावितपरिवाराणाम् आपदाप्रबन्धनस्य राशिः एकलक्षपञ्चाशत्सहस्ररूप्यकात् ७ लक्षरूप्यकाणि यावत् वर्धिता।

निराश्रित-बालकेभ्य: आश्रय: प्रदत्त:- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

ग्रामे येषां गृहाणि क्षतिग्रस्तानि आसन्, ये च वितानेषु निवसन्ति स्म। तेषां भाटकाय ग्रामे पञ्चसहस्ररूप्यकाणि नगरे १० सहस्ररूप्यकाणि च दत्तवन्तः। मुख्यमन्त्री उक्तवान् यत् प्रथममन्त्रिमण्डले तस्य सर्वकारेण सुखाश्रययोजना निर्माय २७ वर्षाणि यावत् निराश्रितबालानां सर्वव्ययस्य वहनार्थं विधानम् अकरोत्। पशुपालकाः दुग्धस्य योग्यं मूल्यं प्राप्नुयुः। अस्य कृते सर्वकारेण दुग्धस्य मूल्यं निर्धारितम्। गोदुग्धस्य मूल्यं ४५ रुप्यकाणि, महिषदुग्धस्य मूल्यं ५५ रुप्यकाणि प्रतिसेटकम् कृतम्।

सर्वासां महिलानां वित्तकोषसंख्यासु धनं निक्षिप्तं भविष्यति- मुख्यमन्त्री

मुख्यमन्त्री उक्तवान् यत् यदा काङ्ग्रेससर्वकारः सत्तां स्वीकृतवान् तदा राज्यस्य आर्थिककोषः शून्यः आसीत्। धनं चोरद्वारेण बहिः गच्छति स्म। सः तत् पिधाय पृष्ठद्वारेण बहिः गच्छन्तं धनं स्थगयित्वा काङ्ग्रेससर्वकारेण २२ कोटिरूप्यकाणि सङ्गृहीतानि। आपदाग्रस्तानां जनानां कृते दत्तम् आसीत्। अस्मात् अष्टकोटिरुप्यकाणि अवशिष्टाणि सन्ति। एतेन धनेन महिलाभ्यः १५०० रुप्यकाणि प्रदत्तानि भविष्यन्ति। जूनमासस्य ४ दिनाङ्कात् परं १८ वर्षाणाम् उपरि सर्वासां महिलानां वित्तकोषसंख्यासु धनं निक्षिप्तं भविष्यति।

सुक्खुः अवदत् यत् राज्यसर्वकारः निर्धनसहितानां सर्वेषां वर्गानां जनानां कृते उत्तमयोजनासु निरन्तरं कार्यं कुर्वन् अस्ति। आपदाया: हाने: क्षतिपूर्त्या सह विकासकार्येभ्य: अपि गति: दीयते, येन राज्यस्य जनाः विकासकार्यस्य लाभ: प्राप्नुयु:। सः अवदत् यत् अस्मिन् समये राज्यस्य सर्वेषु लोकसभासनेषु काङ्ग्रेसः विजयी भविष्यति। अस्मिन् अवसरे सर्वे काङ्ग्रेसकार्यकर्तारः, अधिकारिणः, जनाः च उपस्थिताः आसन्।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, Congress, him sanskrit varta, HIM SASNSKRIT VARTA, himachal abhi abhi, Himachal Congress, Himsanskritnews, HP Congress, HP Election, HPCM, Lok Sabha Election, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, लोकसभा चुनाव, लोकसभा चुनाव 2024, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article SPU Mandi : १८ प्रवेशपरीक्षाणां समयसूची निर्धारिता, ९ जूनतः १९ पर्यन्तं भविष्यति परीक्षा:
Next Article HP Congress : काङ्ग्रेसस्य महती सज्जता, दलाय समर्पितम् उत्तरदायित्वम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?