Lok Sabha Election 2024 : काङ्गड़ातः आनन्दशर्मा, हमीरपुरतः सतपालरायजादा च काङ्ग्रेसस्य प्रत्याशिनौ
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
मंगलवासरे अखिलभारतीयकाङ्ग्रेससमित्या हिमाचलप्रदेशस्य अवशिष्टयोः आसनयो: अपि प्रत्याशिनो घोषितौ। अस्यां सूचौ काङ्ग्रेसपक्षेण काङ्गड़ा लोकसभासनात् आनन्दशर्मा इत्यस्य नाम घोषितम्। सहैव हमीरपुरत: लोकसभासनाय सतपालरायजादा प्रत्याशी घोषित: अस्ति। सम्प्रति आनंदशर्मा भाजपाप्रत्याशिन: डॉ. राजीवभारद्वाजस्य विरुद्धं निर्वाचनं स्पर्धयिष्यति। राजीव: भारद्वाजः आनन्दशर्मा च ब्राह्मणसमुदायस्य नेतारः सन्ति । तस्मिन् एव काले काङ्ग्रेसेन सतपाल रायजादा इत्यस्मै केन्द्रीयमन्त्री अनुरागठाकुरेण सह प्रतिस्पर्धां कर्तुं नामपत्रं दत्तम् अस्ति। ज्ञातव्यं यत् २०२२ तमे वर्षे सतपालरायजादा भारतीयजनतापक्षस्य सतपालसिंहसत्ती इत्यनेन निर्वाचने पराजितः आसीत् । अवधेयं वर्तते यत् हमीरपुरस्य लोकसभासनतः भाजपा प्रत्याशी अनुरागठाकुरः अस्ति तथा च काङ्ग्रेसस्य अधुना सतपाल रायजादा अस्ति। कांगड़ा लोकसभासनस्य विषये चर्चां कुर्वन् अत्र भाजपाया: प्रत्याशी राजीव भारद्वाजः, काङ्ग्रेसस्य आनन्दशर्मा च अस्ति। शिमला लोकसभासने भाजपाप्रत्याशी सुरेशकश्यप: तथा कांग्रेसस्य विनोद: सुल्तानपुरी अस्ति। मण्डी लोकसभासनस्य भाजपाप्रत्याशी कङ्गनारनौत तथा काङ्ग्रेसस्य विक्रमादित्यसिंहः अस्ति।