पूर्वसर्वकारे ‘विक्रये कार्यम्’ इत्यस्य आधारेण कार्याणि प्रदत्तानि आसन् : संजय: अवस्थी
हिमसंस्कृतवार्ता:- शिमला।
मुख्यसंसदीयसचिवः राज्यकाङ्ग्रेसस्य कार्याध्यक्षः च संजय अवस्थी विपक्षनेतृणामुपरी्इ लक्ष्यं कृत्वा अवदत् यत् हिमाचलप्रदेशे जायमान: विकासः भाजपानेतृभ्यः न रोचते। अस्य कारणात् ते धनस्य शक्तिं प्रयुज्य लोकतान्त्रिकरूपेण निर्वाचितं सर्वकारं पातयिर्तुं षड्यंत्रं कृतवन्तः। एकवर्षस्य विकासस्य लेखानुरूपं काङ्ग्रेससर्वकारात् आग्रहं कृतवन्तः भाजपानेतारः स्वकार्यकाले राज्ये अराजकता आसीत् इति विस्मृतवन्तः। सः अवदत् यत् काङ्ग्रेस-सर्वकारः राज्यस्य जनेभ्यः दत्ताः सर्वाः प्रतिज्ञाः चरणबद्धरूपेण पूर्णां कुर्वन् अस्ति। पूर्वभाजपासर्वकारः केवलं रोजगारस्य नाम्ना राज्यस्य युवानां वञ्चनाय एव कार्यं करोति स्म। भाजपा- सर्वकारस्य कार्यकाले युवानां कृते ‘विक्रय- विक्री- आधारेण’ कार्याणि प्रदत्तानि आसन्। यत्र काङ्ग्रेस- सर्वकारेण अस्यां व्यवस्थायां परिवर्तनं कृत्वा युनां कृते पारदर्शितरूपेण जीविकाया: स्वजीविकाया: च अवसराः प्रदत्ताः। सः अवदत् यत् मुख्यमन्त्री सुखविन्दरसिंह: सुक्खु: राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरस्य राज्यस्य यूनां कृते रोजगारस्य, स्वरोजगारस्य च अवसरान् प्रदातुं प्रतिबद्धतया सह कार्यं कृतवान्। युवभ्य: ६८० कोटिरुप्यकाणां राजीवगांधी- स्टार्टअप- योजना आरब्धा। हिमाचलं हरित ऊर्जाराज्यं कर्तुं युनां सहभागितां सुनिश्चित्य निजीभूमौ १०० तः ५०० किलोवाट् सौरपटलानां स्थापनार्थं ५० प्रतिशतं अनुदानस्य प्रावधानमपि कृतम् अस्ति। सः अवदत् यत् भाजपानेतारः सर्वदा यूनां राज्यस्य जनानां हितस्य अवहेलनां कृतवन्तः, यदा तु काङ्ग्रेससर्वकारेण राज्यस्य जनानां कृते भ्रष्टाचारमुक्तं, संवेदनशीलम्, उत्तरदायी च प्रशासनं सुनिश्चितं कृतम्।