By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Politics : काङ्ग्रेसस्य सन्त्रासेण (फोबिया) पीडितः अस्ति जयरामठाकुरः – स्वास्थ्य मंत्री
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Politics : काङ्ग्रेसस्य सन्त्रासेण (फोबिया) पीडितः अस्ति जयरामठाकुरः – स्वास्थ्य मंत्री
राजनैतिकवार्ताहिमाचलवार्ता

HP Politics : काङ्ग्रेसस्य सन्त्रासेण (फोबिया) पीडितः अस्ति जयरामठाकुरः – स्वास्थ्य मंत्री

डॉ मनोज शैल
Last updated: 2024/04/18 at 9:37 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Politics : काङ्ग्रेसस्य सन्त्रासेण (फोबिया) पीडितः अस्ति जयरामठाकुरः – स्वास्थ्य मंत्री

हिमसंस्कृतवार्ता –  शिमला। 

स्वास्थ्यमन्त्री कर्णल: धनीरामशाण्डिलः उक्तवान् यत् विपक्षनेता जयरामठाकुरः काङ्ग्रेसस्य सन्त्रासेण पीडितः अस्ति । मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः, काङ्ग्रेसनेतारः च तस्य निद्रायां अपि दृश्यन्ते। काङ्ग्रेसपक्षे दलवाद: नास्ति, सम्पूर्णं काङ्ग्रेसदलं मुख्यमन्त्रिणा सह शिला इव तिष्ठति। काङ्ग्रेससर्वकारेण १५ मासस्य कार्यकाले १० मध्ये ५ प्रतिज्ञा: पूर्णाः कृताः, विपक्षनेता तानि किमर्थं न पश्यति? विपक्षस्य कार्यं केवलं विरोधं न भवति, विपक्षपक्षेण अपि सत्कार्यस्य प्रशंसा कर्तव्या। शाण्डिलः अवदत् यत् विपक्षनेतुः स्मृतिः अपि दुर्बलः अस्ति। सः कथं विस्मृतवान् यत् तस्य सर्वकारेण कर्मचारिणः यदा ओपीएस-इत्येतत् याचन्ते स्म तदा तेषां उपरि यष्ट्यः, जलतोपाः च प्रयुक्ताः आसन्? जयराम ठाकुरः विधानसभायां उक्तवान् आसीत् यत् यदि कर्मचारीः पुरातनवृत्तिं इच्छन्ति तर्हि ते कार्यात् त्यागपत्रं दत्त्वा निर्वाचनं स्पर्धयन्तु। कथं विपक्षनेता वदति यत् सः पुरातनवृत्ते: विरोधं न कृतवान् इति? यदि जयरामः कर्मचारिणां शुभचिन्तकः अस्ति तर्हि केन्द्रसर्वकारात् एनपीएस-योगदानस्य ९००० कोटिरूप्यकाणि पुनः प्राप्तुं तस्य सहायतां कुर्वन्तु। विपक्षनेत्रा ग्राहस्य अश्रुपातं न कर्तव्यम्, जनसमूहः जानाति यत् मुद्राया: आधारेण मतदानद्वारा निर्वाचितं सर्वकारं पातयितुम् केन प्रयत्नः कृतः। स्वास्थ्यमन्त्री उक्तवान् यत् जयरामठाकुरस्य गणितं वास्तवमेव दुर्बलम् अस्ति। ६८ विधायकसभायां काङ्ग्रेसपक्षे ४० विधायकाः, निर्दलीयानां त्रयाणां समर्थनं च आसीत् । तदा अपि सर्वकारस्य निरपेक्षबहुमतम् आसीत्, अधुना विधानसभायां ६२ विधायकाः, काङ्ग्रेसस्य ३४ विधायकाः, सर्वकारस्य स्पष्टबहुमतं च अस्ति । तर्हि कथं जयरामः वदति यत् सर्वकारस्य सत्तायां स्थातुं अधिकारः नास्ति? विपक्षीदलं भाजपा अश्वव्यापारेण राज्यसभासनं जित्वा जनसामान्यं प्रति क्षमायाचनां कर्तव्या। जनसामान्यस्य सम्मुखे भाजपामुखस्य मुखावरणं निवृत्तमस्ति

शाण्डिलः अवदत् यत् बजटस्य अनन्तरं इन्दिरागान्धी-प्रियभगिनी-सुखसम्माननिधियोजनायाः घोषणा कृता, तस्याः मन्त्रिमण्डलस्य अनुमोदनं दत्तं, बजटे ८०० कोटिरूप्यकाणां प्रावधानमपि कृतम्। योजनायाः अधिसूचना प्रसारिता अस्ति। लाहौल-स्पीति-क्षेत्रयोः प्रथमांश: पूर्वमेव महिलानां लेखेषु स्थापितः अस्ति । यदा निर्वाचन आचारसंहिता कार्यान्वयनात् पूर्वमपि योजना प्रचलति स्म, तदा भाजपा विपक्षनेता च किमर्थं तां निवारयितुं प्रयतन्ते।

जयरामः महिलाभ्य:  कथयेत् यत् सः किमर्थं योजनां निरन्तरं न इच्छति ? जयरामठाकुरः कार्यकाले किमपि न कृतवान्, अधुना काङ्ग्रेससर्वकारेण सुखाश्रययोजना,युवानां कृते ६८० कोटिरुप्यकाणां  स्टार्टअप-योजना, दुग्धविषये न्यूनतमसमर्थनमूल्यं, मनरेगाकार्यकर्तॄणां दैनिकवेतने ६० रुप्यकाणां एकवारं वृद्धिः इत्यादीनि अनेका: जनकल्याणयोजना: बजटे आनीता:  सन्ति अतः भाजपा स्वराजनैतिकभूमे: स्खलनं पश्यति।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: bjp, BJP Himachal, Congress, him sanskrit varta, HIM SASNSKRIT VARTA, Himachal news, himachal update, Himsanskritnews, HP Congress, HP Election, HP NEWS, HP Politics, कांग्रेस, भाजपा, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल कांग्रेस
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Lok Sabha Election 2024 :  जातिसमीकरणं निर्धारयति पर्वतीयराजनीतिः, जातिवादस्य नामधेयेन बहु ध्रुवीकरणं भवति
Next Article HP Meteorological Centre  : अद्यारभ्य: प्रदेशे नारङ्गवर्णीयसचेतना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?