Lok Sabha Election : मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, विक्रमादित्यः प्रतिभासिंह च मण्ड्यां करिष्यन्ति निर्वाचनप्रचार:
हिमसंस्कृतवार्ता- शिमला।
काङ्ग्रेसदलं मण्डीसंसदीयक्षेत्रे महतीं सभां कृत्वा निर्वाचनप्रचारस्य आरम्भं करिष्यति। तस्मिन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः, दलस्य प्रदेशाध्यक्षा प्रतिभासिंह च सहितं अनेके बृहद्नेतारः उपस्थिताः भविष्यन्ति। काङ्ग्रेसनेतारः अस्याः सभायाः माध्यमेन कार्यकर्तृषु ऊर्जां पूरयितुं कार्यं करिष्यन्ति।
सर्वकारः करिष्यति १५ मासस्य उपलब्धीनां गणना
काङ्ग्रेसः अस्यां सभायां गत १५ मासेषु राज्यसर्वकारस्य उपलब्धीनां गणनां करिष्यति। आपदि केन्द्रसर्वकारेण कृतस्य प्रमादस्य विषयं कर्तुं अपि प्रयतते। मण्ड्यां सङ्घटनस्य सर्वकारस्य च प्रथमा संयुक्तसभा भविष्यति। निर्वाचने प्रवेशात् पूर्वं काङ्ग्रेसपक्षः खण्डस्तरस्य सभायाः चक्रं आरब्धवान् अस्ति। युवा काङ्ग्रेस कार्याध्यक्ष यदुपतिठाकुर: कुल्लूजनपदात् गोष्ठीनां क्रमं आरब्धवान् अस्ति। सः युवामोर्चा-अधिकारिभिः सह आनी-बञ्जार-आदिखण्डेषु कार्यकर्तृभिः सह सभाम् अकरोत् ।
अद्यतः सभायाः क्रम: आरभ्यते
बुधवासरे मण्डी-खण्डेषु सभायाः चक्रं आरभ्यते। प्रत्याशिन: निर्णयानन्तरं काङ्ग्रेसेन क्रुद्धान् कार्यकर्तॄन् प्रत्यययितुं, विद्रोहिणः स्वगृहं प्रति प्रत्यागत्य संस्थायां प्रतिनिधित्वं दातुं आरब्धम् अस्ति।
कुल्लूमण्डलस्य पूर्वाध्यक्षः बुद्धिसिंहः, आनीक्षेत्रे विद्रोहं कृत्वा निर्दलीयरूपेण निर्वाचनं कृतवान् परसरामः च स्वदेशं प्रत्यागताः। जोगेन्द्रनगरस्य पूर्वविधायक: सुरेन्द्रपालठाकुराय सङ्घटने महासचिवस्य दायित्वं प्रदत्तम् ।