HP Election : शीघ्रमेव भविष्यति द्वयो: लोकसभाक्षेत्रयो: प्रत्याशीद्वयस्य घोषणा – प्रतिभा सिंह
हिमसंस्कृतवार्ता – शिमला। हिमाचलप्रदेशे चतुर्णां लोकसभासनानां मध्ये काङ्ग्रेसपक्षेण द्वौ प्रत्याशिनौ स्थापितौ, अन्ययोः आसनयो: प्रत्याशिनां निर्णयः अद्यापि न कृतः। एतां सूचनां दत्त्वा काङ्ग्रेसप्रदेशाध्यक्षा प्रतिभासिंह अवदत् यत् काङ्ग्रेसपक्षः शीघ्रमेव द्वयोः आसनयोः अभ्यर्थिनः चयनं करिष्यति। सर्वेक्षणप्रतिवेदनं शीर्षनेतृत्वस्य समक्षं अपि स्थापितं अस्ति। शीघ्रमेव उत्तमाः विजयी च अभ्यर्थिनः स्थापिताः भविष्यन्ति।
प्रतिभासिंह अवदत् यत् अस्मिन् समये विक्रमादित्यसिंहं मण्डीतः अभ्यर्थी कृतः अस्ति। काङ्ग्रेसः पूर्वमेव मण्डी-क्षेत्रस्य जनानां आशीर्वादं प्राप्नोति स्म । सा अवदत् यत् स्वर्गीयः वीरभद्रसिंहः अपि मण्डीतः सांसदः आसीत्, अधुना विक्रमादित्यसिंहः अपि मण्डीक्षेत्रस्य जनानां स्नेहं प्राप्स्यति।
तस्मिन् एव काले प्रतिभासिंह भारतीयजनतापक्षस्य संकल्पपत्रं निर्वाचनात्मकं इति उक्त्वा अवदत् यत् पूर्वनिर्वाचनद्वये अपि भाजपा जीविकाया: महार्घताया: च विषये जनानां कृते बहवः प्रतिज्ञाः कृतवन्तः, ये अद्यपर्यन्तं न पूर्णाः। देशस्य जनाः बुद्धिजीविनः सन्ति, कस्मै मतदानं कर्तव्यमिति सर्वे जानन्ति।