By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Election : काङ्ग्रेस-परीक्षणसमितिः विधानसभा- उपनिर्वाचनानां सम्भाव्यप्रत्याशिनां लघुसूची निर्मितवती
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Election : काङ्ग्रेस-परीक्षणसमितिः विधानसभा- उपनिर्वाचनानां सम्भाव्यप्रत्याशिनां लघुसूची निर्मितवती
राजनैतिकवार्ताहिमाचलवार्ता

HP Election : काङ्ग्रेस-परीक्षणसमितिः विधानसभा- उपनिर्वाचनानां सम्भाव्यप्रत्याशिनां लघुसूची निर्मितवती

डॉ मनोज शैल
Last updated: 2024/04/12 at 4:32 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Election : काङ्ग्रेस-परीक्षणसमितिः विधानसभा- उपनिर्वाचनानां सम्भाव्यप्रत्याशिनां लघुसूची निर्मितवती

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

बुधवासरे काङ्ग्रेसस्य परीक्षणसमितिः दिल्लीनगरे एकां गोष्ठीं कृत्वा हिमाचलप्रदेशे भवितुं शक्नुवन्तः षट्विधानसभा उपनिर्वाचनानां सम्भाव्यप्रत्याशिनां नामानि सूचीबद्धं कृतवन्तः। लोकसभाप्रत्याशिभि: सह उपनिर्वाचनप्रत्याशिनां नाम १३ अप्रैल दिनाङ्के घोषितं भवितुम् अर्हति। केन्द्रीयनिर्वाचनसमित्याः सभा १३ एप्रिल दिनाङ्के दिल्लीनगरे दलस्य राष्ट्रियाध्यक्षस्य मल्लिकार्जुनखड़गे इत्यस्य अध्यक्षतायां प्रस्ताविता अस्ति। कुटलैहड़त: विवेकशर्मा, धर्मशालातः देवेन्द्रजग्गी च नाम प्रायः निश्चिते एव । अद्यापि सुजानपुरस्य विषये दुविधा वर्तते। गगरेट, लाहौल-स्पीति:, बड़सर: इत्येतेभ्य: द्वयोः त्रयाणां वा सम्भाव्यप्रत्याशिनां नाम सूची मध्ये अस्ति ।

बुधवासरे परीक्षणसमितिः ब्लाककाङ्ग्रेससमित्याः सर्वेक्षणप्रतिवेदनात् च प्राप्तानां नामानां विषये विचारं कृतवती। दलस्य सूत्रेषु उक्तं यत्, दिल्लीनगरे आयोजितायां समन्वयसमित्याः परीक्षणसमित्याः च सद्यैव गोष्ठ्यां लोकसभाप्रत्याशिनां नाम अन्तिमरूपेण निर्धारणेन सह विधानसभा उपनिर्वाचनस्य अभ्यर्थीनां विषये चर्चा कृता। सभायां राज्यकाङ्ग्रेसेन खण्डकाङ्ग्रेससमित्याः नामानि गृहीत्वा सर्वेक्षणं करणीयम् इति निर्णयः कृतः आसीत् तथा च केषाञ्चन आसनानाम् अभ्यर्थीनां विषये सहमतिः प्राप्ता आसीत्।

बुधवासरे पूर्वरेलराज्यमन्त्री भक्तचरणदासस्य अध्यक्षतायां आयोजितायां स्क्रीनिंगसमित्याः सभायां सम्भावितप्रत्याशिनां नामानां समूहं सज्जीकृत्य केन्द्रीयनिर्वाचनसमित्याः समीपं प्रेषयितुं निर्णयः कृतः। अधुना लोकसभा-विधानसभा उपनिर्वाचनयोः प्रत्याशिन: १३ अप्रैल दिनाङ्के एकत्रैव घोषितुं शक्यन्ते। अस्याः सभायाः कृते मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः, प्रदेशकाङ्ग्रेसस्य अध्यक्षा प्रतिभासिंह, उपमुख्यमन्त्री मुकेश अग्निहोत्री च दिल्लीं गमिष्यन्ति।

बड़सरतः मञ्जीत डोगरा, गग्रेटतः राकेश कालिया अभ्यर्थी भवितुमर्हत:

बड़सरविधानसभाक्षेत्रात् पूर्वविधायक: मंजीतसिंह: डोगरा, गग्रेटत: राकेशकालिया प्रत्याशिनौ भवितुमर्हत:। पूर्वप्रदेशाध्यक्षस्य कुलदीपकुमारस्य, गग्रेटस्य रमणजसवालस्य च नाम्नि अपि चर्चा क्रियते। बड़सरतः ज्ञानचन्दस्य, संजीवशर्मण: च नाम अपि सूची मध्ये अस्ति। काङ्गड़ासहकारीबैंकस्य अध्यक्षः कुलदीप पठानिया, सुजानपुरतः नरेश ठाकुरः, रविन्द्र वर्मा च नाम अपि सूची मध्ये अस्ति।

लाहौल-स्पीतितः मार्कण्डाविषये सहमतिः नास्ति

दलस्रोतानां अनुसारं भाजपायाः जयरामसर्वकारे मन्त्री आसीत् रामलाल मार्कण्डा लाहौल-स्पीतितः काङ्ग्रेस-प्रत्याशी इति दलनेतृणां मध्ये कोऽपि सहमतिः नास्ति। ब्लाककाङ्ग्रेसेन भाजपापक्षस्य एकं नेतारं समावेश्य काङ्ग्रेसस्य नामपत्रं दातुं विरोधः कृतः। लाहौल-स्पितीतः काङ्ग्रेसनेतृणां अनेकानि प्रतिनिधिमण्डलानि अपि अद्यैव मुख्यमन्त्रीं मिलित्वा स्वविरोधं पञ्जीकृतवन्तः। स्थानीयनेतारः केवलं काङ्ग्रेस-सम्बद्धं नेतारं प्रत्याशीं कर्तुं प्रस्तावम् अयच्छन् । एतादृशे स्थितिः लाहौलतः पूर्वविधायिक: रघुवीरसिंहः, जिलापरिषदः सदस्या अनुराधा राणा, युवानेता दोर्जे लार्जे च इत्येतेषां नामानि चर्चायां सन्ति।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: Congress, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal Congress, Himachal news, Himachal Pradesh, himachal update, Himsanskritnews, HP Congress, कांग्रेस, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल कांग्रेस
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article यदि मम मुख्यमन्त्रित्वे एवम् राज्यसभासनं पराजितं अभविष्यत् तर्हि अहं पदात् त्यागपत्रं अदास्यम्- जयरामठाकुरः
Next Article Kangana Ranaut : मनालीं प्राप्ता भाजपाप्रत्याशी एवं अभिनेत्री कंगनारणौत, प्रशंसकानां सम्मर्द:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?