By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Politics : विद्रोहिणां विषये मुख्यमन्त्रिण: वक्तव्यस्य कारणेन राजनीतिः तप्ता अभवत्, राजेन्द्रराणा, सुधीरशर्मा, भुट्टो च प्रतिकारं कृतवन्तः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Politics : विद्रोहिणां विषये मुख्यमन्त्रिण: वक्तव्यस्य कारणेन राजनीतिः तप्ता अभवत्, राजेन्द्रराणा, सुधीरशर्मा, भुट्टो च प्रतिकारं कृतवन्तः
राजनैतिकवार्ताहिमाचलवार्ता

HP Politics : विद्रोहिणां विषये मुख्यमन्त्रिण: वक्तव्यस्य कारणेन राजनीतिः तप्ता अभवत्, राजेन्द्रराणा, सुधीरशर्मा, भुट्टो च प्रतिकारं कृतवन्तः

डॉ मनोज शैल
Last updated: 2024/04/06 at 4:26 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

HP Politics : विद्रोहिणां विषये मुख्यमन्त्रिण: वक्तव्यस्य कारणेन राजनीतिः तप्ता अभवत्, राजेन्द्रराणा, सुधीरशर्मा, भुट्टो च प्रतिकारं कृतवन्तः

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

गुरुवासरे कुटलैहड़-विधानसभाक्षेत्रस्य समुरकलायां निर्वाचनजनसभायां विद्रोहिणः विषये मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना दत्तं वक्तव्यं दृष्ट्वा राजनीतिः तप्ता अभवत्। विधायकानां अश्वव्यापारविषये मुख्यमन्त्री सुक्खो: वक्तव्यस्य प्रतिकारं भाजपा प्रत्याशी राजेन्द्रराणा कृतवान्। असौ उक्तवान् यत् यदि मुख्यमंत्रिण: समीपे प्रमाणानि सन्ति तर्हि तत् जनसामान्यस्य समक्षं स्थापयित्वा न्यायालये प्रस्तुतं कुर्वन्तु। सः मुख्यमन्त्रीं उत्तमवैद्येन स्वस्य निरीक्षणं कर्तुं परामर्शं दत्तवान्। शनिवासरे प्रातः १० वादनात् पूर्वं न्यायालयात् मुख्यमंत्रिणे सूचनापत्रं प्रेषितं भविष्यति इति उक्तवान्। सूचना सज्जीकृता अस्ति। इदानीं न्यायालये एव एषः विषयः युद्धं भविष्यति। अस्मिन् प्रकरणे मुख्यमन्त्रिण: विरुद्धं मानहानि-अभियोग:, आपराधिकप्रकरणं, सिविलाभियोग: च  प्रवेशितं भविष्यति। हिमाचलप्रदेशे एतादृशी संस्कृतिः नासीत् । कुटलैहड़तः पूर्वविधायकं भाजपाप्रत्याशीं च ताडयितुं चर्चा वर्तते। हिमाचलप्रदेशस्य कोऽपि विधायकः एतादृशं वक्तव्यं न दत्तवान्। इदानीं सर्वे नवविधायकाः न्यायालये एतत् युद्धं करिष्यन्ति। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः कपोल-कल्पितं आरोपं कुर्वन् अस्ति।

देवेन्द्र: भुट्टो ऊनायां मुख्यमन्त्रिणं आक्षेपं कृतवान्, अनेके आरोपाः कृता:

मुख्यमंत्री विधायक: देवेन्द्र: भुट्टो इत्यस्य विषये अपि आक्षेपार्हं वचनं कृतवान् अस्ति। मनुष्यः व्याकुलित: भवति चेत् एव तादृशानि कार्याणि करोति । सुधीरः अवदत् यत् यस्य वज्रचूर्णक: हमीरपुरे अस्ति, सः दुबई इन्वेस्टर् मीट् इति नाम्ना सर्वकारीयव्ययेन निजीकार्यक्रमे भागं ग्रहीतुं गतः। बद्दी-नगरस्य अन्तः गत-एकमासात् बहु-उद्योगानाम् क्रय-विक्रयणं मूल्यात् द्विगुणं भवति, यतः धारा ११८ इत्यस्य अन्तर्गतं एषा अनुमतिः आवश्यकी अस्ति, यस्मिन् मुख्यमन्त्री हस्ताक्षरं करोति। तस्मिन् विषये मुउ किं उत्तरं दास्यति ? राज्येन चिकित्सायन्त्रपार्ककेन्द्रात् १०० कोटिरूप्यकाणि प्राप्तानि आसन्, किमर्थं तत् प्रत्यागच्छति। अतिरिक्तं ऋणं किमर्थं गृह्यते ? एतेषु सर्वेषु विषयेषु मुख्यमंत्री-महोदयेन जनसामान्यं प्रति उत्तरं दातव्यं भविष्यति। सुधीरः अवदत् यत् प्रमाणं मुख्यमन्त्रिण: समीपे नास्ति, अपितु अस्माकं समीपे अस्ति, शीघ्रमेव सर्वेषां समक्षं प्रस्तुतं भविष्यति।

सुधीरशर्मणा मुख्यमन्त्रिणे मानहानि-सूचनापत्रं प्रेषितम्

अधुना राजनैतिकयुद्धेन सह मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना  विद्रोहीविधायकाः १५ कोटिरूप्यकै: विक्रीयन्ते इति आरोपेण वैधानिकं युद्धमपि प्रारब्धम्। धर्मशालातः पूर्वकाङ्ग्रेसविधायकः, विधानसभा उपनिर्वाचने भाजपा प्रत्याशी च सुधीरशर्मा इत्यनेन अस्य वक्तव्यस्य विषये मुख्यमन्त्रिणं प्रति मानहानि-सूचनापत्रं प्रेषितम् अस्ति। सुधीरः शुक्रवासरे एकं दृश्य-श्रव्यं विमोचयन् उक्तवान् यत् सर्वे विधायकाः १५ कोटिरूप्यकै: विक्रीताः इति मुख्यमंत्रिण: कथनं हास्यास्पदम् अस्ति। सुधीरः अवदत् यत् सः मुख्यमंत्रिणे मानहानि-वादं कृत्वा सूचनां दत्तवान्। यदि तेषां समीपे एतादृशं किमपि प्रमाणं अस्ति तर्हि तत् जनसामान्यस्य समक्षं स्थापयतु। मञ्चात् कस्यचित् विषये किमपि वक्तुं अपरीक्षणं दोषः। युवाकाङ्ग्रेसस्य प्रमुख इव वार्तालापः मुख्यमन्त्री सर्वथा न उपयुक्तः। सः अवदत् यत् मुख्यमन्त्रिणा न्यायालये उपस्थितः भूत्वा एतस्य उत्तरं दातव्यः भविष्यति।

ये वक्तव्यं कुर्वन्ति, ते एव अश्वव्यापारस्य राजनीतिं मन्यन्ते: आशीषः

विधायक: आशीषशर्मा मुख्यमन्त्रिणः वक्तव्यस्य प्रतिकारं कृत्वा अवदत् यत् मुख्यमन्त्री स्वराजनैतिकभाग्यस्य अर्जनार्थं एतादृशानि वक्तव्यानि करोति। सः अनावश्यकरूपेण १५ कोटिरूप्यकाणां ग्रहणविषये वक्तव्यं ददाति। यत्र तु वक्तव्यं कुर्वन्ति ते स्वयमेव अश्वव्यापारस्य राजनीतिं मन्यन्ते । उक्तवान् यत् यदा ते मतदानार्थं राज्यसभां गतवन्तः तदा नवभ्यः विविधा: प्रेरणा: दत्ता:। परन्तु वयं विक्रयणं कुर्वतां मध्ये न स्मः। अस्माकं क्षेत्रस्य जनाः जानन्ति यत् अस्माकं चरित्रं किम् अस्ति, केन भावनया सह वयं जनसेवां कुर्मः। एतादृशं व्यङ्ग्यं जनान् भ्रमितुं न युक्तम् । स्वक्षेत्रस्य राज्यस्य च हिताय विधायकातः त्यागपत्रं दत्तवान् अस्ति। मुख्यमन्त्री निर्वाचितविधायकानां विरुद्धं १४ मासान् यावत् भेदभावं कृत्वा मित्रेभ्यः उत्कोचं वितरितवान्। वयं लोककार्यसम्बद्धे मुख्यमन्त्रिणः समीपं गच्छन्तः आसन् किन्तु सः अस्मान् मेलितुं समयमपि न दत्तवान्। प्रातःतः सायं यावत् स्वकार्यालयस्य बहिः प्रतीक्षमाणः आसीत्। यदा मुख्यमन्त्री जनकार्यस्य अवहेलनां कृत्वा केवलं स्वमित्राणि प्रीणयति तदा सः केवलं सत्तासुखार्थं कार्यं करोति। राज्यसभानिर्वाचनानन्तरं मुख्यमन्त्रिणा नैतिकतया त्यागपत्रं दातव्यमासीत् । परन्तु सः शक्तिव्यसनं करोति, यत् सः न त्यक्तुम् इच्छति। मुख्यमन्त्रिणा कृतानां आरोपानाम् विरुद्धं शीघ्रमेव न्यायालयं गमिष्यति।

मुख्यमंत्री मृषावादस्य नोबेल-पुरस्कारं प्राप्नुयात् – होशियारसिंह:

देहरातः स्वतन्त्रः विधायकः होशियारसिंहः मुख्यमन्त्रिणः वक्तव्ये आपत्तिं कृतवान् यस्मिन् सः आरोपितवान् यत् प्रत्येकं विद्रोही विधायक: १५ कोटिरूप्यकै: विक्रीत: अस्ति। होशियारसिंहः अवदत् यत् यदि कस्मैचित् मृषावादस्य नोबेलपुरस्कारं दीयते तर्हि मुख्यमन्त्री सुक्खू: इत्यस्मै दातव्यम् इति। मुख्यमन्त्रीम् आक्रम्य सः अवदत् यत् सुक्खुः महिलाभ्यः १५००-रूप्यकाणि, प्रतिलीटरं १०० रुप्यकाणि दुग्धं, कृषकेभ्यः गोमयम् क्रीतवान्, ३०० यूनिट् निःशुल्कं विद्युत् दातुं च प्रतिज्ञां कृत्वा सत्तां प्राप्तवान्। परन्तु सार्धैकवर्षे एका अपि प्रतिज्ञा न पूर्णा अभवत् । मुख्यमन्त्री बृहत्तमं असत्यं वदति इति तात्पर्यम्।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: BJP Himachal, Cm Sukhu, CMSukhu, Congress, him sanskritam, HIM SASNSKRIT VARTA, Himachal Congress, Himachal news, Himachal Pradesh, himachal update, Himsanskritnews, HP NEWS, LokSabha Election, भाजपा, लोकसभा चुनाव 2024, संस्कृतवार्ताः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article मुख्यमन्त्री राज्ये अराजकतां प्रसारयितुम् इच्छति : राजीवबिन्दलः
Next Article १५ एप्रिल दिनाङ्के निश्चितं भविष्यति राष्ट्रपतिद्रौपदीमुर्मूवर्याया: शिमलाप्रवास:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?