कोरोनाकाले पिहितेषु मोदीसर्वकारस्य संवातकेषु निहित: नास्ति कांग्रेससर्वकार: – जगतसिंहनेगी
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
राजस्व-उद्यानमन्त्री जगतसिंहनेगी उक्तवान् यत् राज्यस्य काङ्ग्रेससर्वकारः कोरोनाकाले पिहितस्य मोदी-सर्वकारस्य संवातके अर्थात् वेंटिलेटर-इत्यत्र नास्ति। विपक्षनेतारं जयरामठाकुरं प्रति प्रहारं कुर्वन् नेगी इत्यनेन उक्तं यत् सुक्खुसर्वकारः मुक्तवायुः श्वसितुम् समर्थः अस्ति। नेगी भाजपापक्षस्य मण्डी-प्रत्याशीं अभिनेत्रीं च कङ्गनारानौतं पृष्टवान् यत् मण्डी-कुल्लूनगरे प्राकृतिक-आपदायाः समये, यदा सा राज्यस्य ब्राण्ड-एम्बेसडर-भवितुं धनं याचते स्म, तदा सा हिमाचलस्य पुत्री नासीत् वा इति। नेगी काङ्ग्रेसविद्रोहिणः लोभयित्वा भयभीतान् च नियन्त्रयति इति भाजपायै आरोपः अपि अकरोत्। बुधवासरे शिमलानगरे राज्यकाङ्ग्रेसमुख्यालयस्य राजीवभवने पत्रकारसम्मेलनं सम्बोधयन् जगतसिंहनेगी अवदत् यत् बालुगञ्जपुलिसस्थाने पञ्जीकृतस्य एफआईआर-इत्यस्य अन्वेषणप्रतिवेदनात् स्पष्टं जातं यत् भाजपया धनशक्तेः प्रेरणायाश्च आधारेण राज्यसर्वकारस्य अस्थिरीकरणस्य असफलप्रयासः कृतः।
षट् काङ्ग्रेसविधायकानां त्रयाणां स्वतन्त्रविधायकानां च कृते कोटिरूप्यकाणि व्ययितानि। ते चक्रविमानेन आनीय अपहृता:। मासाधिकं यावत् ते बन्धकरूपेण स्थापिताः आसन्, यत् पूर्णतया अपराधः भवति। जगतसिंह नेगी इत्यनेन उक्तं यत् पूर्वमुख्यमन्त्री जयरामठाकुरः, प्रदेशाध्यक्ष: राजीवबिन्दलः इत्यादयः भाजपानेतारः २७ फरवरीदिनाङ्के राज्यसभानिर्वाचने काङ्ग्रेसप्रत्याशिन: मतदान- अभिकर्तृणां सह दुर्व्यवहारं कृत्वा निर्वाचनं बाधितवन्तः। सभासङ्कुलस्य द्वारं भङ्गयितुं प्रयत्नः कृतः। एतत् सर्वं काङ्ग्रेसेन निर्वाचन-आयोगाय उपालम्भ: कृत: किन्तु आयोगेन अद्यापि किमपि न कृतम्। सः अवदत् यत् भाजपा राज्ये उपनिर्वाचनम् आरोप्य विकासस्य गतिं प्रभावितवती। आदिवासीक्षेत्रेषु यत्र प्रचण्डहिमपातस्य कारणेन विकासकार्यनिर्माणाय अत्यल्पः समयः भवति तत्र एतत् कार्यं सर्वथा स्थगितम् अस्ति। सः अवदत् यत् भाजपायाः अपि च दलस्य च द्रोहं कुर्वन्तं केभ्यचित् नेतृभ्य: राज्यस्य जनाः कदापि न क्षमिष्यन्ति।
निर्दलीयानां त्यागपत्रं स्वीकर्तुं राजभवनम् अपि कर्षति भाजपा
जगतनेगी इत्यनेन उक्तं यत्, त्रयाणां स्वतन्त्रविधायकानां विषये भाजपायाः भयं, महत् प्रभावः च वर्तते। स्वतन्त्रविधायकाः स्वेच्छया त्यागपत्रं न दत्तवन्तः। विधानसभाध्यक्षः तस्य सम्यक् अन्वेषणं कुर्वन् अस्ति, तदनन्तरं एव निर्णयः भविष्यति। सः अवदत् यत् भाजपा अपि राजभवनं कर्षति यत् निर्दलीयानां त्यागपत्राणि स्वीकृतानि भवेयुः।