By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: सुप्रसिद्ध–गज़लगायकस्य पंकजउधासस्य निधनम्। ७२ वयसि स्वीकृता: अन्तिमश्वासा: ।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > सुप्रसिद्ध–गज़लगायकस्य पंकजउधासस्य निधनम्। ७२ वयसि स्वीकृता: अन्तिमश्वासा: ।
राष्ट्रीयवार्ताः

सुप्रसिद्ध–गज़लगायकस्य पंकजउधासस्य निधनम्। ७२ वयसि स्वीकृता: अन्तिमश्वासा: ।

डॉ. नरेन्द्र राणा
Last updated: 2024/02/26 at 6:13 PM
डॉ. नरेन्द्र राणा
Share
1 Min Read
SHARE

सुप्रसिद्ध–गज़लगायकस्य पंकजउधासस्य निधनम्। ७२ वयसि स्वीकृता: अन्तिमश्वासा: ।
(हिमसंस्कृतवार्ता शिवा शर्मा)

सुप्रसिद्ध–गज़लगायकस्य पंकजउधासस्य निधनम् जातम् । असौ ७२ वयसि अन्तिमश्वासान् स्वीकृतवान्।
तस्य जन्म १९५१ तमे वर्षे मई मासस्य १७ दिनाङ्के गुजरातराज्यस्य जेटपुरनगरे अभवत् । पंकजउधासस्य पुत्री नायाबउधासः स्वकीये इंस्टाग्रामपटले विलिख्य स्वपितुः निधनस्य पुष्टिं कृतवती।
अनया लिखितं यत् ” सखेदं संसूच्यते यत् पद्मश्रीपङ्कजउधासस्य दीर्घकालीनरोगेण 26 फरवरी 2024 दिनाङ्के दैवलोकप्रस्थानमभवत्।”

प्राप्तवार्तानुसारं पङ्कज–उधासस्य निधनं २६ फरवरीदिनाङ्के प्रातः ११ वादने ब्रीचकैण्डीचिकित्सालये अभवत् । गायकः चिरकालाद् रुग्ण: आसीत् । विगतदिवसेभ्य: तस्य स्वास्थ्यं समीचीनं नासीत् । गायकस्य निधनस्य वार्तया चलच्चित्रजगति सर्वत्र शोकतरङ्गा: वर्तन्ते। तस्य प्रशंसकाः स्तब्धाः सन्ति । प्रशंसकाः सामाजिकसंचारमाध्यमेषु तस्य स्मरणं संकृत्य तस्मै श्रद्धाञ्जलिम् यच्छन्ति।

You Might Also Like

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

दिल्ली- राज्यसर्वकारेण केन्द्रसर्वकाराय ३००० विद्युत्बसक्रयणार्थं प्रस्तावः प्रेषितः

जलमार्गमन्त्री सर्वानन्दसोनोवालः विशाखापत्तनम-बन्दरगाह-प्राधिकरणस्य अनेक-परियोजनानां आधारशिलाम् अस्थापयत्

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

विदेशमन्त्री डा. एस्. जयश‌ङ्करः फ्रान्स-देशस्य राष्ट्रपतिना इमेनुएल मैक्रों इत्यनेन सह मिलितवान्

TAGGED: Films, Singer
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ. नरेन्द्र राणा
Follow:
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ता: माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Previous Article सिरमौरजनपदस्य जिलाप्रशिक्षणसंस्थाने नाहने प्रारम्भिकस्तरीय- सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: शुभारम्भ:।
Next Article हिमाचलस्य साक्षरता दरः ८८ प्रतिशताधिकः, शिक्षामन्त्री सर्वकारीयविद्यालयेभ्यः श्रेयः दत्तवान्
4 Comments 4 Comments
  • Vinod Sharma says:
    February 26, 2024 at 6:18 pm

    अति उत्तम।

    Reply
  • Mukul Lohumi says:
    February 26, 2024 at 6:25 pm

    नमो नमः श्रीमन् , पत्रमिदं प्रतिनित्यमपेक्ष्यते कथं प्राप्तुं शक्यते ? कृपया बोध्यताम्

    Reply
    • Dr.Amandeep Sharma says:
      March 5, 2024 at 7:02 am

      Himsanskritam.com

      Reply
    • डॉ मनोज शैल says:
      May 17, 2024 at 2:38 pm

      अन्तर्जालपुटे प्रतिदिनं स्थापितं भवति

      Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?