सिरमौरजनपदस्य जिलाप्रशिक्षणसंस्थाने नाहने प्रारम्भिकस्तरीय- सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: शुभारम्भ:।
(हिमसंस्कृतवार्ता-प्रवीण कुमार:, सिरमौर:)
प्रदेशे शिक्षाक्षेत्रे गुणवत्ताम् आनेतुं सर्वकारेण नैका: प्रयासा: क्रियन्ते। विविधजनपदेषु शिक्षकाणां प्रशिक्षणकार्यशालानाञ्च आयोजनम् क्रियते। तत्रैव सिरमौरजनपदस्य जिलाप्रशिक्षणसंस्थाने नाहनम्–इत्यत्र संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: आयोजनम् अभवत् । अस्मिन् अवसरे कार्यशालाया: संयोजक: सन्तरामशर्मा महोदय: शिक्षकान् सम्बोधयन् उक्तं यत् विश्वस्य प्राचीनतमा भाषा संस्कृतं वर्त्तते । अत: अस्माकं सौभाग्यं वर्त्तते यत् संस्कृतशिक्षका: अत्र प्रशिक्षणं प्राप्स्यन्ति ।एतदतिरिक्तं स: उक्तवान् यत् अस्या: कार्यशालाया: आयोजनम् 26 फरवरीत: 1 मार्च पर्यन्तम् भविष्यति ।
कार्यशालायामस्यां सिरमौरजनपदस्य पञ्चाशताधिकसंस्कृतशिक्षका: प्रशिक्षणं प्राप्स्यन्ति। पञ्चदिवसीयकार्यशालायां शिक्षकै: शिक्षणाधिगमस्य प्रविधिनां विषये, भाषाकौशलानां विषये, भाषिकतत्त्वानां विषये, मूल्याङ्कनस्य विषये, नवशिक्षानीति: २०२० इत्यस्या: विषये, भाषाशिक्षणस्य साधनानां विषये च प्रशिक्षणं प्राप्स्यन्ति । कार्यशालायां आचार्यराधेश्याम: , प्रवीण: शर्मा , चंबेल:, अर्चना च स्रोतव्यक्तिरूपेण समुपस्थिता: भविष्यन्ति। ध्यातव्यं वर्तते यत् कार्यशालायांमस्यां शिक्षणप्रशिक्षणकार्यं संस्कृतमाध्यमेन एव भविष्यति ।