By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राज्यसभायां प्रधानमन्त्रिणः धन्यवाद-प्रस्तावः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राज्यसभायां प्रधानमन्त्रिणः धन्यवाद-प्रस्तावः
राष्ट्रीयवार्ताः

राज्यसभायां प्रधानमन्त्रिणः धन्यवाद-प्रस्तावः

डॉ.अमनदीप शर्मा
Last updated: 2024/02/08 at 8:34 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

राज्यसभायां प्रधानमन्त्रिणः धन्यवाद-प्रस्तावः
भारत-सर्वकारेण साहसिकाः बृहद्-नीतिगताः च निर्णयाः नीताः, येन भारतं विश्वस्य पञ्चतमी बृहद-अर्थव्यवस्था सञ्जाता- प्रधानमन्त्री।
प्रधानमन्त्रिणा नरेन्द्रमोदिना राज्यसभायाम् उक्तं यत् तस्य सर्वकारेण साहसिकाः बृहद्-नीतिगताः च निर्णयाः नीताः, यस्य परिणामस्वरूपं भारतं विश्वस्य पञ्चतमीं बृहद-अर्थव्यवस्था सञ्जाता। प्रधानमन्त्री संसदः द्वयोः सदनयोः संयुक्तोपवेशने राष्ट्रपति द्रौपदी मुर्मुवर्यायाः अभिभाषणे धन्यवाद-प्रस्तावे चर्चायां राज्यसभायाम् उत्तरं प्रददन् आसीत्। कांग्रेसेति दले आक्रमणं कुर्वता मोदिना उक्तं यत् कांग्रेस-दलं उत्तरदक्षिण- भारतेति विषये चर्चायाः माध्यमेन देशं विभाजितुं प्रयासं करोतीति। तेन विपक्षी दलानां उपरि कटाक्षं कुर्वता उक्तं यत् कांग्रेस-दलस्य पार्श्वे स्वकीयनेतृणां नीतीनां च प्रत्याभूतिः नास्ति, परञ्च सर्वकारस्य प्रत्याभूतिषु प्रश्नम् उत्थापयति। मोदिना पश्चिमबंगालस्य मुख्यमन्त्री ममताबनर्जी इत्यस्याः वाक्यस्य उल्लेखं कुर्वता उक्तं यत् सा प्रोक्तवती आसीत् यत् कांग्रेसदलं आगामिनिर्वाचने चत्वारिंशदपि स्थानानि न प्राप्स्यति, परञ्च अहं प्रार्थनां करोमि यत् कांग्रेसदलं चत्वारिंशत् यावत् पदानि अवश्यमेव अर्जयेदिति। प्रधानमन्त्रिणा उक्तं यत् कांग्रेस-दलं लोकतन्त्रस्य हननं कृत्वा सम्प्रति लोकतन्त्रस्य संघवादस्य च प्रचारं करोति।
सर्वकारः राष्ट्रियराजमार्गेषु उपग्रह-आधारितं जी.पी. एस. टोल संग्रहणमिति प्रणाल्याः संचालनाय सज्जः -नितिनगडकरी

सर्वकारः राष्ट्रियराजमार्गेषु उपग्रह-आधारितं जी.पी. एस. टोल संग्रहणमिति प्रणाल्याः संचालनाय सज्जः वर्तते। राज्यसभायां प्रश्नकालावधौ पूरक प्रश्नस्योत्तरे मार्गपरिवहन राजमार्ग मंत्रिणा नितिन गडकरिणा उक्तं यत् लोकसभा निर्वाचनात् पूर्वमेव उपग्रहाधारितं- टोल-संग्रह-कार्यस्य संचालनस्यारम्भः भविष्यति । तेनोक्तं यत् नवप्रणाल्यान्तर्गतं वाहन- अंकानां माध्यमेनैव मार्गशुल्कं बैंकादेव स्वीकरिष्यते। श्री गडकरिणा प्रतिपादितं यत् नवटोल संग्रह-प्रणाल्या टोल संग्रह भवनानां द्वाराणां च अपसारणं भविष्यति येन राजमार्गे यात्रा सरला सुलभा च भविष्यति । तेनोक्तं यत् अधुनायावत् त्रयोदशलक्षाधिक अष्टकोट्यावत् द्रुतचिटिकानां प्रयोगं क्रियते अपि च प्रतिदिनं सप्तत्यधिकैकशतात् अशीत्यधिकैकशतं कोटि रुप्यकाणां संग्रहः क्रियते।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

TAGGED: राज्यसभा में कांग्रेस पर गरजे मोदी, राज्यसभा में मोदी, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article उत्तराखण्डे फलकेषु सर्वत्र प्रसरिष्यति संस्कृतम्
Next Article लोकसभा निर्वाचनम्: हिमाचले सर्वेक्षणमाध्यमेन भविष्यति काङ्ग्रेसदलस्य प्रत्याशीनां चयनम् 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?