By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: गणतंत्रदिवस – 2024  :- हिमाचलस्य जनपदेषु सोत्साहेन मानित: गणतंत्रदिवस: 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > गणतंत्रदिवस – 2024  :- हिमाचलस्य जनपदेषु सोत्साहेन मानित: गणतंत्रदिवस: 
हिमाचलवार्ताप्रादेशिकवार्ता

गणतंत्रदिवस – 2024  :- हिमाचलस्य जनपदेषु सोत्साहेन मानित: गणतंत्रदिवस: 

डॉ मनोज शैल
Last updated: 2024/01/27 at 9:53 AM
डॉ मनोज शैल
Share
4 Min Read
SHARE

गणतंत्रदिवस – 2024  :- हिमाचलस्य जनपदेषु सोत्साहेन मानित: गणतंत्रदिवस: 

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

७५ तम: गणतंत्रदिवसस्य समारोह: हिमाचलस्य सर्वेषु जनपदेषु सोत्साहेन मानित:। 

किन्नौरम् – पंचायती राजमंत्री अनिरुद्धसिंह: रिकोंगपियो इत्यत्र ध्वजोत्तोलनं कृतवान्

किन्नौरजनपदस्य जिलास्तरीय: गणतंत्रदिवससमारोह: जनपदमुख्यालये रिकोंगपियो इत्यत्र मानित:। अस्मिन्नवसरे  पंचायतीराज मंत्री अनिरुद्धसिंह: त्रिवर्णध्वजं उत्तोलय पथसंचलनं स्वीकृतवान्।  पुलिस, आईटीबीपी, होमगार्ड, एनएसएस, एससीसी इत्यादीनां दलै: भव्यं पथसंचलनं कृतम्। 

कुल्लू: – गणतन्त्रदिने कुल्लौ भव्यं पथसंचलनम्

तत्रैव शुक्रवासरे ७५ तमे गणतन्त्रदिने मण्डलमुख्यालये कुल्लौ भव्यपथसंचलनस्य आयोजनं कृतम् । तस्मिन् पुलिस, आईटीबीपी, होमगार्ड, एनएसएस, एससीसी सहित नव दलानि भागं गृहीतवन्तः। मुख्यसंसदीयसचिव: (सीपीएस) सुन्दरठाकुरः त्रिवर्णध्वजं उत्थाप्य पथसंचलनं स्वीकृतवान्। कार्यक्रमं द्रष्टुं मण्डलस्य विभिन्नक्षेत्रेभ्यः जनानां विशालः समूहः एकत्रितः आसीत् । अस्मिन् काले आकर्षकसांस्कृतिककार्यक्रमाः अपि आकर्षणस्य केन्द्रं अभवन्। 

लाहौल-स्पीति –  राजस्व मंत्री जगतसिंहनेगी केलांगे ध्वजोत्तोलनं कृतवान्

 अपरपक्षे राजस्वमन्त्री जगतसिंहनेगी लाहौल-स्पीतिजनपदस्य केलाङ्गे कठोरशीते त्रिवर्णध्वजं उत्तोलितवान्। सः पथसंचलनं स्वीकृतवान्।

काङ्गड़ा- धर्मशालायां आयोजित: गणतंत्र- दिवससमारोह:

धर्मशालायां जिलास्तरीये आयोजिते गणतंत्रदिवससमारोहे विधानसभाध्यक्ष: कुलदीपसिंहपठानिया मुख्यातिथिरूपेण भागं स्वीकृतवान्।  अस्मिन् समये सः राष्ट्रध्वजं उत्थाप्य भव्यपथसंचलनस्य अभिवादनं कृतवान् । तस्मिन् एव काले गणतन्त्रदिने गग्गलविमानस्थानके भव्यसमारोहस्य आयोजनं कृतम् । भारतीय विमानस्थानक-प्राधिकरण़ सिविलविमानस्थानकस्य निदेशक: धीरेन्द्रसिंह: राष्ट्रीयध्वजोत्तोलनं कृतवान् । गग्गलविमानस्थानके सुरक्षायै नियुक्तै: हिमाचलप्रदेशपुलिसकर्मचारिभिः गार्ड आफ् ऑनर प्रदत्तम्। तदनन्तरं केन्द्रीयविद्यालय भनाला (गोजु) तथा माउण्ट् कार्मेल विद्यालय: गगल इत्येतयोः छात्रैः सांस्कृतिककार्यक्रमाः प्रस्तुताः। केन्द्रीय विद्यालय भनला गोजू इत्यस्य बालकै: देशभक्तिगीतानामुपरि  नृत्यं कृतम् ।  अपरपक्षे माउण्ट् कार्मेल् विद्यालयस्य बालकैः कृताः शैक्षिकप्रस्तुतयः सर्वान् मोहितवन्तः ।

मण्डी- ऐतिहासिकसेरीमञ्चे ७५ तमस्य  गणतन्त्रदिवसस्य उत्सवः आचरितः

मण्डीनगरस्य ऐतिहासिकसेरीमञ्चे ७५ तमस्य गणतन्त्रदिवसस्य जिलास्तरस्य उत्सवस्य आयोजनं कृतम्। यस्य अध्यक्षता उद्योगमन्त्री हर्षवर्धनचौहान: अकरोत् । सर्वप्रथमं राष्ट्रपितुः महात्मागान्धी-प्रतिमायाः मालाकरणं कृत्वा ततः राष्ट्रध्वजस्य उत्थापनेन भव्यपथसंचलनस्य अभिवादनं स्वीकृतवान् । हिमाचलपुलिस:, गृहरक्षकदलम्,पुलिसवाद्यदलं, विद्यालयस्य बालकाः च पथसंचलनं कृतवन्तः । सः स्वसम्बोधने देशस्य स्वातन्त्र्यार्थं बलिदानं कृतवन्तः हुतात्मनां स्मरणं कृत्वा श्रद्धांजलिम् अयच्छत् । हर्षवर्धनचौहान: इत्यनेन उक्तं यत् राज्यसर्वकारः राज्यं स्वनिर्भरं राज्यं कर्तुं निरन्तरं प्रयत्नाः कुर्वन् अस्ति, आगामिषु १० वर्षेषु राज्यं स्वनिर्भररूपेण उद्भवति।

चम्बा – चम्बायां मन्त्री यादविन्दरगोमा राष्ट्रध्वजं उत्तोलितवान्

चम्बा-नगरस्य ऐतिहासिक-चौगान-स्थले जिला-स्तरीय-गणतन्त्र-दिवस-उत्सवः अतीव उत्साहेन आचरितः । समारोहस्य अध्यक्षतां आयुष-युवा-क्रीडामन्त्री यादविन्दरगोमा अकरोत् । अस्मिन् काले सः ध्वजं उत्तोलय पुलिस:, गृहरक्षक:, एनसीसी, एनएसएस इत्येतेषां दलै: प्रस्तूतस्य पथसंचलनस्य अभिवादनं गृहीतवान्।। समारोहे सदरविधायक: नीरजनैय्यर: गणमान्या: उपस्थिता: आसन् । अस्मिन्नवसरे विद्यालयस्य बालकैः विविधैः समूहैः च सांस्कृतिककार्यक्रमाः अपि प्रस्तुताः कर्मचारिणः मेधावीबाला: च उत्कृष्टकार्यस्य कृते प्रमाणपत्रैः सम्मानिताः।

सिरमौरम्- मन्त्री धनीराम शाण्डिलः नाहाने गणतंत्रदिवसस्य समारोहे अध्यक्षतां कृतवान्

सिरमौर-जनपदस्य जिलास्तरीय: गणतंत्रदिवससमारोह: जनपदस्य मुख्यालये नाहने हर्षोल्लासेन अभवत्। स्वास्थ्य एवं सामाजिक न्याय तथा अधिकारिता मंत्री डॉ. कर्नल: धनीरामशाण्डिल  मुख्यातिथिरूपेण भागं स्वीकृतवान्।  अस्मिन् समये सः ध्वजोत्तोलनं कृत्वा भव्यपथसंचलनस्य अभिवादनं स्वीकृतवान्।  अस्मिन् अवसरे सः जनान् अपि सम्बोधितवान् । स्वास्थ्यमन्त्रिणा सह हिमाचलप्रदेशविधानसभायाः उपाध्यक्ष: विनयकुमारः विधायकः नाहन अजयसोलंकी च उपस्थिताः आसन्। जिलास्तरस्य समारोहस्य अवसरे नगरस्य विभिन्नैः सर्वकारीय-निजी-विद्यालयैः, संस्थाभिः च आकर्षका: सांस्कृतिक-कार्यक्रमा: अपि प्रस्तुता: । एतस्मिन् समये मन्त्री कर्णल धनीराम शाण्डिल इत्यादयः कलाकारैः सह नृत्यं कृतवन्तः ।

बिलासपुरम्- मन्त्री राजेशधर्माणी अकरोत् कार्यक्रमस्य अध्यक्षता

बिलासपुरजनपदस्य जिलास्तरीय: गणतंत्रदिवससमारोह: राजकीय-वरिष्ठ-माध्यमिक-विद्यालय: (छात्र:) इत्यस्य क्रीड़ाङ्गणे अभवत्। समारोहस्य अध्यक्षता तकनीकी शिक्षा मंत्री राजेशधर्माणी अकरोत्। अस्मिन्नवसरे स: विभिन्नदलानां पथसंचलनस्य अभिवादनं स्वीकृतवान्। विविधै: सांस्कृतिकदलै: सांस्कृतिका: कार्यक्रमा: अपि प्रस्तूता:। अस्मिन्नवसरे मुख्यातिथि: समाजे उत्कृष्टकार्यकर्तृभ्य: पुरस्कृतवान्।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: Himachal government, Himachal news, Himachal Pradesh, Himsanskrit news, Himsanskritvarta, hpgovt, Republic day, गणतंत्र दिवस, मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल प्रदेश, हिमाचल प्रदेश सरकार, हिमाचल सरकार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article गणतंत्रदिवसः 2024 : शिमलायां राज्यपालः त्रिवर्णध्वजं उत्तोलितवान्
Next Article सोलनस्य भगिनी-भ्रातरौ ऑस्ट्रेलियादेशे मृतौ, समुद्रे मज्जनेन अभवत् मृत्यु:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?