By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: गणतंत्रदिवसः 2024 : शिमलायां राज्यपालः त्रिवर्णध्वजं उत्तोलितवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > गणतंत्रदिवसः 2024 : शिमलायां राज्यपालः त्रिवर्णध्वजं उत्तोलितवान्
हिमाचलवार्ताप्रादेशिकवार्ता

गणतंत्रदिवसः 2024 : शिमलायां राज्यपालः त्रिवर्णध्वजं उत्तोलितवान्

डॉ मनोज शैल
Last updated: 2024/01/27 at 9:48 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

गणतंत्रदिवसः 2024 : शिमलायां राज्यपालः त्रिवर्णध्वजं उत्तोलितवान्

प्रत्येकस्य जनपदस्य संस्कृते: दर्शनम् अभवत् 

हिमसंस्कृतवार्ता- शिमला। 

शुक्रवासरे सम्पूर्णे हिमाचलप्रदेशे ७५तमः गणतन्त्रदिवसः आनन्देन उत्साहेन च आचरितः। राज्यपालः शिवप्रतापशुक्लः राजधानीशिमलानगरस्य ऐतिहासिके रिजस्थले आयोजिते राज्यस्तरीयकार्यक्रमे राष्ट्रध्वजं उत्तोलनं कृतवान् तत: पथसंचलनस्य (परेडस्य) निरीक्षणं कृत्वा २२-जम्मू-कश्मीरराइफलस्य परेडसेनापतिलेफ्टिनेंट करणगोगना इत्यस्य नेतृत्वे आकर्षकमार्चपास्ट इति स्वीकृतवान् ‌। अस्मिन्नवसरे मुख्यमंत्री सुखविन्दरसिंहसुक्खुः, विपक्षनेता जयरामठाकुर: एवं अन्ये मान्यो मान्या: उपस्थिता आसन् ।

मार्चपास्ट इत्यस्मिन् सेना, भारत-तिब्बत-सीमापुलिस, हिमाचलप्रदेश सशस्त्रपुलिसबलं, हरियाणापुलिस:, राज्यपुलिस:, गृहरक्षक:, अग्निशामकसेवा तथा हिमाचलप्रदेशडाकसेवा, आपदा- प्रबन्धनं, पूर्वसैनिकाः, राष्ट्रियकैडेट कोर (एनसीसी), राष्ट्रीयसेवायोजना, भारतस्काउट एवं गाइड्स इत्येतेषां दलै: भागं स्वीकृतम्।  राज्यपालः डिजिटल-प्रौद्योगिकी-शासन-विभागेन आयोजितायाः एचपी-डिजिटल-इग्निशन-प्रतियोगितायाः विजेतृभ्यः अपि पुरस्कारं प्रदत्तवान् । अस्मिन् अवसरे विभिन्नविभागानाम् विकासात्मकक्रियाकलापानाम् आकर्षकचित्रं अपि प्रस्तुतम् ।

समारोहे १६ चित्राणि अपि बहिः आनीतानि आसन् । उद्यानविभागस्य तालिकायां प्रथमपुरस्काररूपेण १०,००० रुप्यकाणि प्रदत्तानि।मुख्यमन्त्रिण: सन्निध्ये राज्यपालेन आयुषमानभारतप्रधानमन्त्री जन आरोग्ययोजनाया: अन्तर्गतं सर्वोत्तमप्रदर्शनं कुर्वतां स्वास्थ्यसंस्थानेभ्य: प्रशंसापत्रं प्रदत्तम्।

जनपद: शिमला, सिरमौरं, राजकीय-वरिष्ठ-माध्यमिक-विद्यालय: रोहड़ू, बाल-आश्रम टुटीकण्डी इत्यस्य अतिरिक्तं हरियाणा-प्रदेशस्य उत्तरक्षेत्रसांस्कृतिककेन्द्र द्वारा आकर्षका: सांस्कृतिका: कार्यक्रमा: प्रस्तूता:। पुलिस-समूहस्य मनमोहक-प्रस्तुतिः अपि आकर्षणस्य केन्द्रम् आसीत् । इन्दिरागांधी-आयुर्विज्ञानमहाविद्यालय:  शिमला, डॉ. राजेन्द्रप्रसादराजकीय-चिकित्सामहाविद्यालय:, टांडा एवं पंडितजवाहरलालनेहरू: चिकित्सामहाविद्यालय: चम्बा इत्येतेभ्य: राज्यस्तरीयपुरस्कारा: प्रददन् ।  

अस्मिन्न्वसरे राज्यपालः मुख्यमन्त्री च पुत्रीं रक्षय पुत्रीं पाठय अर्थात्’बेटी बचाओ-बेटी पढाओ’ इति सन्देशं दत्त्वा वातगोला: अपि मुक्तवन्त:।

इन्दिरागांधी-आयुर्विज्ञानमहाविद्यालयस्य (IGMC) वरिष्ठचिकित्साधीक्षक: सम्मानित:

हिमसंस्कृतवार्ता- शिमला। 

आयुष्मान-भारत-प्रधानमन्त्री-जन-आरोग्य- योजनाया: अन्तर्गतं राज्ये उत्तमा: स्वास्थ्यसुविधा: प्रदातुं राज्यपाल: शिवप्रतापशुक्ल: शुक्रवासरे ऐतिहासिके रिजस्थले आयोजिते को गणतंत्रदिवसस्य समारोहे इन्दिरागांधी-आयुर्विज्ञानमहाविद्यालयस्य (IGMC) वरिष्ठचिकित्साधीक्षकं डॉ. राहुल राव़ प्रशंसापत्रेण पुरस्कृतवान् ।

You Might Also Like

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: cmo himachal, cmo himachal Pradesh, Governor, Himachal government, Himachal news, Himachal Pradesh, Republic day, गणतंत्र दिवस, राज्यपाल, हिमाचल अपडेट, हिमाचल प्रदेश, हिमाचल प्रदेश सरकार, हिमाचल सरकार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article मुख्यमंत्रिणा सुखविंदरसिंहसुक्खूना धर्मपुरक्षेत्राय कोटिश: रुप्यकाणां उपायनानि दत्तानि
Next Article गणतंत्रदिवस – 2024  :- हिमाचलस्य जनपदेषु सोत्साहेन मानित: गणतंत्रदिवस: 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?