पालमपुरे प्रचलति संस्कृतशिक्षकाणां पञ्चदिवसीयकार्यशाला
हिमाचलप्रदेशशिक्षाविभागेन सर्वेषां विषयाणां गुणवत्तासंवर्धनार्थं कार्यशालानाम् आयोजनं आहिमाचले क्रियते। अस्मिन् विषये सूचयन् काङ्गड़ा जिल्लापरियोजनाधिकारिणी नीना पुन इत्यनया उक्तं यत् प्रथमचरणे काङ्गड़ायाः संस्कृतशिक्षकाणां कृते पञ्चदिवसीयप्रशिक्षणं १७ जनवरीतः २१ दिनाङ्कपर्यन्तं पालमपुरे प्रचलति यस्मिन् थुरलः. पञ्चरुखी पालमपुर, वैजनाथः, चडियारः. काङ्गड़ा खुण्डिया,, नगरोटा वगवां इत्यादीनां शिक्षाखण्डानां वरिष्ठमाध्यमिकविद्यालयानाम् संस्कृतशिक्षकाः भागं गृह्णन्ति। कार्यशालायां प्रशिक्षकेषु मंगलवासरे संजीवशर्मा अवदत् यत् संस्कृतं भाषारूपेण जनसामान्यं गच्छेत् इति संस्कृतशिक्षकाणां बृहत्तमं दायित्वं वर्तते, तत्रैव डॉ.अमनदीपशर्मणा उक्तं यत् छात्राणां मुखे संस्कृतम् आनेतुं सरलसंस्कृतस्य प्रयोगः करणीयः। तेनोक्तं यत् बाल्यकाले यथा बालकः स्वतः अप्रयत्नेन च स्वमातृभाषां भाषते, तस्याः पद्धत्याः पालनं कृत्वा संस्कृताभ्यासस्य आवश्यकता वर्तते, परञ्च तस्मात् पूर्वं संस्कृतशिक्षकैः स्वयं संस्कृताभ्यासस्य पालनं करणीयम्। कार्यशालायां पवनशर्मा नूतनशिक्षानीतौ संस्कृतस्य उपयोगितायाः विषये स्वस्य वक्तव्यं प्रस्तुतवान्, पुनीतशर्मा उच्चमाध्यमिकस्तरे अध्यापनस्य नवीनप्रविधिनां विषये स्वविचारं प्रस्तुतवान् । संस्कृतमाध्यमेन सुसंगठितकार्यशालायाः विषये प्रसन्नतां प्रकटयन् कार्यक्रमस्य जिलासमन्वयिका प्रियङ्का पनियालः अवदत् यत् संस्कृतद्वारा संस्कृतविषयाणां शिक्षणस्य अवधारणा भाषाप्रवर्धनस्य गुणवत्ताप्रवर्धनस्य च नूतनान् आयामान् अवश्यमेव विकसति, येन नवशिक्षानीतेः उदेश्यानि पूर्णानि भवन्ति।
पालमपुरे संस्कृतशिक्षकाणां पञ्चदिवसीयकार्यशाला
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
1 Comment
1 Comment

भवान श्लाघनीय: कार्यम् कुर्वन् अस्ति।
शुभाशया:👍👍👍