राजेशधर्माणी तकनीकी-शिक्षामंत्री यादविन्द्रगोमा च आयुषमन्त्री, अधिसूचना निर्गता
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशसर्वकारेण द्वयो: नवनियुक्त्यो: मन्त्रिणो: कृते विभागानाम् आबंटनम् कृतमस्ति। एतदर्थं प्रदेशसर्वकारस्य मुख्यसचिवस्य पक्षत: अधिसूचना निर्गता अस्ति। अधिसूचनाया अनुसारेण राजेशधर्माणी तकनीकीशिक्षा, व्यवसायिक एवम् औद्योगिकप्रशिक्षणस्य दायित्वं निभालयिष्यति। यादविन्द्रगोमा च आयुषविभागस्य युवासेवा एवं क्रीडाविभागयो: कार्यभारं द्रक्ष्यति। अवधेयं वर्तते यत् इत: पूर्वं तकनीकीशिक्षा, व्यवसायिक एवम् औद्योगिकप्रशिक्षणस्य दायित्वं शिक्षामन्त्रिण: रोहितठाकुरस्य पार्श्वे आसीत्। आयुषविभाग: मन्त्रिण: हर्षवर्धनचौहानस्य पार्श्वे, युवासेवा एवं क्रीडाविभाग: लोकनिर्माणविभागस्य मन्त्रिण: विक्रमादित्यसिंहस्य पार्श्वे आसीत्।
राजेशधर्माणी तकनीकी-शिक्षामंत्री यादविन्द्रगोमा च आयुषमन्त्री
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
