By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य परीक्षा पे चर्चायाः सप्तमसंस्करणस्य कृते MyGov पोर्टल् इत्यत्र एककोटितः अधिकानि पञ्जीकरणानि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य परीक्षा पे चर्चायाः सप्तमसंस्करणस्य कृते MyGov पोर्टल् इत्यत्र एककोटितः अधिकानि पञ्जीकरणानि
दिवसविशेषःराष्ट्रीयवार्ताः

प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य परीक्षा पे चर्चायाः सप्तमसंस्करणस्य कृते MyGov पोर्टल् इत्यत्र एककोटितः अधिकानि पञ्जीकरणानि

डॉ. नरेन्द्र राणा
Last updated: 2024/01/06 at 8:30 AM
डॉ. नरेन्द्र राणा
Share
1 Min Read
SHARE

प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य परीक्षा पे चर्चायाः सप्तमसंस्करणस्य कृते MyGov पोर्टल् इत्यत्र एककोटितः अधिकानि पञ्जीकरणानि

प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य परीक्षा पे चर्चायाः सप्तमसंस्करणस्य कृते MyGov पोर्टल् इत्यत्र एककोटितः अधिकानि पञ्जीकरणानि प्राप्तानि । अस्य कार्यक्रमस्य आयोजनम् अस्मिन् मासे २९ दिनाङ्के भविष्यति। शिक्षामन्त्रालयेन उक्तं यत् अस्मिन् वर्षे चतुःसहस्राधिकाः प्रतिभागिनः प्रधानमन्त्री मोदी इत्यनेन सह चर्चां करिष्यन्ति। मन्त्रालयानुसारं नवदिल्लीनगरस्य भारतमण्डपमे कार्यक्रमस्य आयोजनं भविष्यति। चर्चायां भागं ग्रहीतुं MyGov पोर्टल् इत्यत्र 11 दिसम्बर 2023 तः अस्मिन् मासे 12 पर्यन्तं 6 तः 12 पर्यन्तं कक्षायाः छात्राणां, शिक्षकाणां, अभिभावकानां च कृते प्रश्नोत्तरप्रतियोगिता आरब्धा अस्ति। अस्मिन् द्विसहस्रपञ्चाशत् चयनितप्रतिभागिभ्यः परीक्षाविषये चर्चासामग्री प्रदत्ता भविष्यति यस्मिन् प्रधानमन्त्रिणा हिन्दी-आङ्ग्लभाषायां लिखितं “परीक्षायोद्धा” इति पुस्तकं प्रमाणपत्रं च भविष्यति।
मन्त्रालयेन उक्तं यत् परीक्षा पे चर्चा कार्यक्रमात् पूर्वं १२ जनवरीतः राष्ट्रिययुवादिवसस्य २३ दिनाङ्कपर्यन्तं विद्यालयस्तरस्य विभिन्नानि कार्याणि आयोजितानि भविष्यन्ति। २३ जनवरी दिनाङ्के नेताजीसुभाषचन्द्रबोसस्य जन्मदिवसस्य अवसरे देशस्य पञ्चशतजिल्हेषु चित्रकलाप्रतियोगिता भविष्यति।
अस्मिन् कार्यक्रमे भारतात् विदेशेभ्यः च छात्राः, शिक्षकाः, अभिभावकाः च प्रधानमन्त्रिणा सह विद्यालयात् परं परीक्षासम्बद्धेषु विषयेषु, जीवनस्य चुनौतीषु च चर्चां कुर्वन्ति। परीक्षा पे चर्चा प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य परीक्षायोद्धा अभियानस्य भागः अस्ति यस्योद्देश्यं युवानां कृते तनावमुक्तं वातावरणं निर्माणं वर्तते।

You Might Also Like

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

दिल्ली- राज्यसर्वकारेण केन्द्रसर्वकाराय ३००० विद्युत्बसक्रयणार्थं प्रस्तावः प्रेषितः

जलमार्गमन्त्री सर्वानन्दसोनोवालः विशाखापत्तनम-बन्दरगाह-प्राधिकरणस्य अनेक-परियोजनानां आधारशिलाम् अस्थापयत्

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

विदेशमन्त्री डा. एस्. जयश‌ङ्करः फ्रान्स-देशस्य राष्ट्रपतिना इमेनुएल मैक्रों इत्यनेन सह मिलितवान्

TAGGED: आज के मुख्य सामाचार, प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य परीक्षा पे चर्चायाः सप्तमसंस्करणस्य कृते MyGov पोर्टल् इत्यत्र एककोटितः अधिकानि पञ्जीकरणानि
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ. नरेन्द्र राणा
Follow:
नमो नमः मित्राणि! अहमस्मि डॉ. नरेन्द्रराणा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। अहं सिरमौर-जनपदस्य कोटी उतरोऊ इत्याख्यस्य ग्रामस्य निवासी अस्मि । किञ्च स्वग्रामात् एव संस्कृतस्य-प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ता: माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Previous Article विश्व-ब्रेल-दिवसः
Next Article आदित्य एल-1 इसरो द्वारा तस्य अन्तिमायां निर्धारितकक्षायां स्थापितः
2 Comments 2 Comments
  • आचार्य गोपेश : says:
    January 6, 2024 at 8:48 pm

    जयहिन्दुराष्ट्रम्

    Reply
  • आचार्य गोपेश : says:
    January 6, 2024 at 8:49 pm

    Jay hinurastrm

    Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?